________________
४१६
सिद्धिविनिश्चयटीकायाम [६ हेतुलक्षणसिद्धिः तथा च मीमांसकपक्षे परस्य प्रद्वेषो निर्निबन्धनं (नः) । आह (?) साधन इत्यादि । सन्दिग्धविपक्षव्यावृत्तिकत्वेन साधनप्रयोगप्रतिषेधात् ।
ननु ज्ञानवद् यदि अर्थोऽप्युपलभ्येत युक्तमेतत् 'उभयोरविशेषेण सत्त्वमसत्त्वं वा' यावता ज्ञानमेव उपलभ्यते, नीलादेः सहोपलम्भनियमेन तेंद्र पत्वादिति चेत् ; अत्राह-सहोपलम्भ ५ इत्यादि ।
[सहोपलम्भनियमात् स्याङ्दो नीलतद्वियोः ।
असहानुपलम्भश्चेदसिद्धः पृथगीक्षणात् ॥२६॥
सहोपलम्भनियमादभेदैकान्तसाधने भ्रान्तिप्रत्यक्षयोरन्यतरस्याभावात् न क्वचिद् १० भ्रान्तिज्ञानं स्यात् तदेकान्तेन भ्रान्तिविविक्तप्रत्यक्षस्वभावोपपत्तेः सुषुप्तवत् । बहिरन्तश्च
नीलतद्धियोदर्शनात् कुतः सहोपलम्भनियमः सिद्धः । सकृदेकार्थोपनिबद्धदृष्टीनां परज्ञानानुपलम्भेऽपि तदर्थदर्शनात् कुतो नियमः १ तदेकक्षणवर्तिनां सहोपलम्भनियमात् स्वयं वेदनेनोत्पत्तेः सकलं जगदेकसन्तानं प्रसज्येत । यदि पुनरेकज्ञानोपलम्भनियमो हेतुः;
असिद्धः अनैकान्तिकश्च, नीलस्य सकृदनेकेन ज्ञानेन उपलम्भसंभवात् , बहूनामपि १५ द्रव्याणामेकज्ञानोपलम्भाप्रतिषेधात् । यदि पुनरसहानुपलम्भ इति; को विशेषः ?
प्रसज्यप्रतिषेधमात्रमसाध्यसाधनम् शशविषाण-खरविषाणयोरिव, अर्थादर्थगतिलक्षणात् । विज्ञानस्य'भ्रान्तैकान्तवत् ।
नीलतद्विष[य]योः नीलनीलज्ञानयोः यः सहोपलम्भनियमो योगपद्योपलम्भनियमः परेण तदभेदभावनाय उपन्यस्तैः तस्माल्लिङ्गात् स्यात् भेदे भेदो नानात्वं 'नोलत२० द्वियोः' इति आवृत्त्या सम्बन्धः । तन्नियमस्यं तर्कतो भेदनिष्ठत्वात् , ततः तैत्सिद्धविरुद्धोऽ
यमभेदसाधन इति मन्यते । नहि एकत्वे [३३३ख तत्सप्तवो (तत्सहभावः) । न खलु नीलस्यैव उपलम्भे नीलपीतयोः सहोपलम्भ इति' युक्तम् ।
ननु "चन्द्रद्वयस्य "अभेदेऽपि तन्नियम : तत्कथमस्य भेदेन व्याप्तिरिति चेत् ? उक्तमत्र सहोपलम्भो न स्यात् तदन्यरवत् इति । सहशब्दस्य यौगपद्यार्थम् उक्त्वा तदर्थान्तरं परिकल्पितमा२५ शक्य दूषयन्नाह-"असहानुपलम्भश्चेद् इति । अस्यायमर्थः-सहानुपलम्भः पर्युदासवृत्त्या
(१) बौद्धस्य । (२) ज्ञानरूपत्वात् । (३) बौद्धन विज्ञानवादिना । (१) "सकृत्संवेद्यमानस्य नियमेन धिया सह। विषयस्य ततोऽन्यत्वं केनाकारेण सिध्यति ॥ विषयस्य हि नीलादेः धिया सह सकृदेव संवेदनं धिया सह न पृथक्.."-प्र. वार्तिकाल० ३।३८८। “धर्म्यत्र नीलाकारतद्धियो तयोरभिन्नत्वं साध्यधर्मः यथोक्तः सहोपलम्भनियमो हेतुः । ईदृश एवाचार्यांये प्रयोगे हेत्वर्थोऽभिप्रेतः।"तत्त्वसंपं.पू. ५६७। (५) 'भेदे' इति निरर्थकम् । (६) सहोपलम्भस्य । (७) सहोपलम्भनियमात । (८) भेदसिद्धः । (९) वक्तुयुक्तम् । (१०) भ्रान्तविज्ञानस्थले। (११) एकत्वेऽपि । (१२) सहोपलम्भनियमः। (१३) तुलना-"तत्र भदन्तशुभगुप्तस्त्वाह-विरुद्धोऽयं हेतुः, यस्मात् सहशब्दश्च लोकेऽन्यो (स्या) नैवान्येन विना क्वचित् । विरुद्धोऽयं ततो हेतुर्यद्यस्ति सहवेदनम् ॥ पुनः स एवाह-यदि सहशब्द एकार्थः तदा हेतुरसिद्धः । तथाहि- नटचन्द्रमल्लप्रेक्षासु न टेकेनैवोपलम्भः । तथाहि-नीलोपलम्भेऽपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org