________________
६।२५ ]
अनेकान्त एव सत्त्वादयः
४१५
अस्तु विद्यते इति कथमुच्यते 'न तद्वादिनं विजयते' इति चेत् ? अत्राह - साधन इत्यादि । इदमत्र तात्पर्यम्-विज्ञप्तिमात्रं परमार्थसद् बहिरर्थः पुनः द्विपरीत [इति] दर्शने विज्ञप्तिद् अन्यस्यापि प्रत्यक्षतः सिद्धे तन्मात्रसाधने पक्षस्य प्रत्यक्षबाधनमिति [ ३३२क ] न तत्र हेतूपन्यास [:] तदुक्तम्-*"न तस्य हेतुभिस्त्राणम् उत्पन्ने च (उत्पतन्नेव ) यो हतः" इति । साधनस्य तन्मात्रलिङ्गस्य प्रयोगो वचनं तस्य प्रतिषेधात् निराकरणात् निराकृते तदनुपयोगात् । 'बहि- ५ रर्थवत् तन्मात्रस्यापि न परमार्थसत्त्वम्' इति मते साधनमपि तथाविधमेव । नचाऽसत् असतो लिङ्गम् ; अतिप्रसङ्गात् । ततः ‘साधनप्रयोगप्रतिषेधात्' असतः प्रयोगवैफल्यात् इति मन्यते । यदि वा, तत्प्रयोगस्य प्रतिषेधात् भ्रान्तिमात्रे तद्वचनस्य स्वयमेव निराकरणा [त् ] तदयं तद्वादिनं विजयते इति ।
"
3
अत्र अपरः प्राह - 'न चित्प्रतिभासमानस्य चित्प्रतिषेध उच्यते येनाऽयं दोषः स्यात् १० अपि तु परमार्थसत्त्वारोप एव विवादगोचरे घटादौ निराक्रियते तैमिरिककेशादिनिदर्शनेन' इति ; सोऽपि अनेन निरस्तः । तथाहि - तैमिरिक केशादौ परमार्थसद्भावः कुतश्चित् परमार्थतो यदि सिद्धः; तर्हि तेनैवं तद्व्यवच्छेदहेतोः व्यभिचारः इति साधनप्रयोगप्रतिषेधात् सव्यभिचारात् साधनस्य अप्रयोगात् | नो चेत्; न तर्हि तत्रै' कस्यचित् साधनस्य तेन व्याप्तिरिति साध्यविकलो दृष्टान्तः । अत आह— साधन इत्यादि । साध्याव्याप्तसाधनस्याप्रयोगार्हत्वात् ।
93
अम (अथ न) व्यवहारिणा तत्र तदभाव इष्यते तेन तद्व्याप्तिः ; तर्हि सौगतेन ज्ञानेषु स्वसंवेदने (नेन) परमार्थसत्तयोपगतेन उपलम्भस्य व्याप्तेः 'यदुपलभ्यते तत् परमार्थसद् यथा स्वसंवेदनम् उपलभ्यते च जाग्रत्स्वप्नदशायां बहिरर्थः' इति बहिरर्थसत्यैकान्तवादी अथ स्यात् (स्यात् । अथ) न तेन स्वसंवेदनं परमार्थसद् इष्यते; व्यवहारिणापि तत्र तदभावो नेष्यते इति - समानम् । कथं तस्यै सत्येतर [ ३३२ख ] प्रविभाग इति चेत्; इतरस्य कथं परमार्थसंव्यवहार २० प्रमाणलक्षणा (ण) भेदः ? कथं वा तदपरमार्थसत्त्वे बहिरर्थादू विशेष्या (षो) येन बहिरर्थः त्यज्यते न तदिति? सोऽयं स्वसंवेदनकृतां सर्वविकल्पाभावसिद्धिमुपजीवति न तत्परमार्थसत्त्वम् [इच्छति] इतरथा” परसंवेदनस्य अपरमार्थसत्त्वेऽपि ततो बहिरर्थसिद्धिः स्यात् । एतेन 'परोपगतेन साध्येन दृष्टान्तेन हेतोर्व्याप्तिः' इति निरस्तम् ।
Jain Education International
किंच, व्यवहारिणा तत्र प्रमाणमन्तरेण यदि नाम तदभावोऽभ्युपगतो नैतावता सर्वत्र २५ तदभाव इति कचिद् बहिरर्थेऽपि परमार्थसत्त्वाशङ्काऽनिवृत्तेः कथं मतिमतं ( मतां) सौगतमत एव मतिः अन्यथा कचित् पुरुषे से' सर्वज्ञत्वाभावस्तेन उपगतः इति सर्वत्र तदा ( द ) भावः
(१) विज्ञानवादिनः । (२) अपरमार्थसन् । (३) अर्थस्यापि । ( ४ ) विज्ञप्तिमात्र । ( ५ ) विज्ञप्ति - मात्रस्यापि । (६) अपरमार्थसदेव । (७) चित्वेन प्रतिभासमानस्य । ( 4 ) प्रमाणात् । ( ९ ) प्रमाणेन । (१०) यदि तैमिरिककेशादीनां न परमार्थसद्भावः तर्हि । ( ११ ) तैमिरिककेशादौ । ( १२ ) स्वसाध्येन । (१३) स्वीक्रियते । ( १४ ) व्यवहारिणः । (१५) स्वसंवेदनस्य परमार्थसत्त्वम् । (१६ ) अपरमार्थसत्त्वेऽपि तस्मादिष्टसिद्धौ । ( १७ ) 'स' इति निरर्थकम् ।
१५
For Personal & Private Use Only
www.jainelibrary.org