________________
४१४
सिद्धिविनिश्चयटीकायाम्
[ ६ हेतुलक्षणसिद्धिः
न्तेन वा तादात्म्यम् एकत्वं [ ३३१] प्रतियतः कथमेकत्र तयोर्विरोधो विरुद्धधर्माध्यासस्य ज्ञानेऽप्यनिवारणात्' इति ' ? * "स्वभावेऽविभ्रमे भ्रान्तः " [सिद्धिवि० ६ । २३ ] इत्यादिना पुनरुक्तताप्रसङ्गात् । अर्थसंविन्या भ्रान्तया सह तस्याः तादात्म्यं भ्रान्तत्वं प्रतियतः तत्र तस्यां स्वसंवित्तौ मिथ्याबुद्ध्या भ्रान्तया धिया अन्तर्ज्ञेयं ज्ञानस्वरूपं भ्रान्तम् अन्यथा वा प्रति५ यतः साकल्येन अनवयवेन परमार्थतो न व्यवहारेण कोऽपरोधो न कश्विदोषो बहिरर्थेन कृतः यतोऽपराधात् प्रतिक्षिपेत् सौगतः 'बहिरर्थम्' इति विभक्तिपरिणामेन सम्बन्धः ।
एवं मन्यते - मिथ्याबुद्ध्या अन्तर्ज्ञेयं साकल्येन परमार्थतो भ्रान्तम् अन्यथा वा यथा परः प्रतिपद्यते तथा सन्तं बहिरर्थं प्रतिपद्यताम् अविशेषात् ।
स्यान्मतम्–यदि तया बहिरर्थं प्रतिपद्यते ; कथं सा मिथ्या ? तथा चेत्; न तया किञ्चित् १० प्रत्येति । ' तथा (तया) प्रत्येति मिथ्या च सा' इति विरुद्धमिति; तत्राह - तद् इत्यादि । तयोः अन्तर्ज्ञेय-बहिरर्थयोः यौ विधिप्रतिषेधो अन्तर्ज्ञेयस्य बहिरर्थस्य च यो ( यौ) विधिप्रतिषेध इत्यर्थः, तयोर्या तत्त्वप्रतिपत्तिः याथात्म्यसंवित्तिः तस्या मिथ्यैकान्ते विरोधाविशेषात् । अयमभिप्रायः - यथा तदेकान्ते कस्यचिद् विधेः तत्त्वतः प्रतिपत्तिर्नास्ति तथा प्रतिषेधस्यापि इति तन्निषेधाभावे न तदेकान्तसिद्धिरिति ।
प्रकृतं निगमयन्नाह-‘तदयम्' इत्यादि । यत एवं तत् तस्माद् अयं सौगतः व्यवस्थापयितुकामः । कुतः ? इत्याह- ततो बुद्धिं सत्त्वं ( बुद्धिसत्त्व) व्यवस्थापकात् न्यायात् किं व्यवस्थापयितुकामः ? इत्याह- अन्तर्बहिश्च । च इति भिन्नप्रक्रम इवार्थो 'अन्तः' इत्यस्या [३३१ख ] नन्तरं द्रष्टव्यः । अन्तरिव बहिस्तत्त्वं परमार्थसत्त्वमिति । तथाहि - स्वप्नाऽस्वप्नयोरविशेषं प्रतिपाद्य बहिरर्थं निराकुर्वतापि बुद्धिः परमार्थरूपा अभ्युपगन्तव्या, परमार्थसांव्यवहारिक२० प्रमाणलक्षणप्रणयनात् । तदभ्युपगमे न्यायो बहिरपि न राजदण्डवारित इति भावः । तत्कामः किं करोति ? इत्याह-क्षणिकेतर इत्यादि । क्षणिकच इतर [ अ ]क्षणिकः, तयोः तावेव वा पक्षै (पक्षी) तयोर्याथासंख्येन विधिप्रतिषेधौ वदति इत्येवं शीलस्तद्वादी तं न विजयते । यथा क्षणिक पक्षविधिवादी स्वन्यायेन क्षणिकपक्षं विदधाति, " तन्निषेधवादी तद्दोषेण क्षणिकपक्षं निषेधति, तथा अयमपि इति । तर्हि बहिरिव स्वरूपविभ्रान्ता बुद्धिरिति चेत्; अत्राह - २५ मिथ्यात्वं च । 'तदयम् अन्तर्बहिः' इत्यनुवर्त्तते, स्वयम् आत्मना व्यवस्थापयितुकामः, कया ? एकान्तभ्रान्त्या (न्तया) । शेषं पूर्ववत् । अयं तु विशेषः - यथा क्षणिकवादी कल्पनया स्वपक्षं साधयन् विपक्षं न जहाति विपक्षं वा निषेधन् नित्यग्राहकप्रमाणप्रतिविधानेन स्वपक्षं तिरस्करोति तथाऽयमपि इति ।
99
1
न त्रक्तं ( नन्वुक्त) विधिना क्षणिकेतरपक्ष विधिप्रतिषेधवादिनो न तत्त्वसाधनमस्ति
१५
(१) शङ्कायाः । (२) पूर्वश्लोकेन । (३) स्वसंवित्तेः । (४) अभ्रान्तम् । ( ५ ) संविया । (६) मिथ्या चेत् । (७) बहिरर्थप्रतिषेधाभावे । (८) विज्ञानैकान्तवादसिद्धिरिति । (९) 'अज्ञातार्थप्रकाशो वा' इति पारमार्थिकं प्रमाणलक्षणम् । 'अविसंवादिज्ञानम्' इति तु व्यावहारिकमिति । (१०) बहिरर्थ स्वीकारेऽपि । (११) क्षणिक पक्षनिषेधकः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org