________________
६।२५] अनेकान्त एव सत्त्वादयः
४१३ स्वसंवित्तेः भ्रान्तया अर्थसंविच्या तादात्म्यं प्रतियतः कथमेकत्र कृतकाकृतकयोः स्थूलसूक्ष्मयोर्वा विरोधः १ तत्र मिथ्याबुद्ध्या अन्तज्ञेयं साकल्येन परमार्थतो भ्रान्तमन्यथा वा प्रतियतः बहिरर्थेन कोऽपराधः कृतः यतः प्रतिक्षिपेत् ? तद्विधिप्रतिषेधतत्त्वप्रतिपत्तेः मिथ्यकान्ते विरोधाविशेषात् । तदयं ततोऽन्तर्बहिश्च तत्त्वमेकान्तभ्रान्तया मिथ्यात्वं च व्यवस्थापयितुकामः क्षणिकेतरपक्षविधिप्रतिषेधवादिनं न विजयते साधन- ५ प्रयोगप्रतिषेधात् ।]
अस्यायमर्थः-ज्ञानानि च गिरश्च ज्ञानगिरः, गिरां ग्रहणं बहिरर्थोपलक्षणार्थम् , तत्त्वानि च ताः ज्ञानगिरश्च तासां तत्त्वज्ञानगिरां तत्त्वज्ञानानां तत्त्वार्थानां च दूषकस्त्वम् अङ्ग यतः सौगतः, ततो विदूषक उपसहनकारी बहिरर्थवस्त्वभिमतज्ञानतत्त्वदूषणात् । उभयत्र उक्तन्यायसाम्यात् । तथाहि-यथा 'प्रतिभासात् जाग्रहशायां स्तम्भादीनां परमार्थसत्त्वे १० स्वप्नावस्थायां तत्स्यात्' इत्युच्यते तथा तत एव ज्ञानानां परमार्थसत्त्वे बहिः स्तम्भादीनामपि तद् इति [न] ज्ञानैकान्तवादावतार इति [३३०] व्याहतम्-*"अद्वयं नाग (यान) मुत्तमम्" इति । यथा वा 'प्राति (प्रति)भासाध्यासिततनवोऽपि स्वप्नघटादयो न परमार्थसन्तः तथाऽन्येऽपि' इति कथ्यते तथा प्रतिभासवन्तोऽपि जाग्रद्घटादयोऽसन्तः[इति]ज्ञानेषु कः समाश्वासः इति बहिरर्थवत् तत्परित्यागो न्याय्यः । तथा च कुतो ज्ञानवादी परंः। शेषमत्रापि पूर्ववत् सर्वं १५ वक्त व्यम् । 'बहिरर्थवद् विज्ञानस्यापि न परमार्थसत्त्वम्' इति चेत् ; अत्राह-मिथ्या इत्यादि। अर्थस्य आभा प्रतिभासो येषां तानि अर्थाभानि, न स्थिराणि अस्थिराणि क्षणिकानि इत्यर्थः, अर्थाभानि च तानि अस्थिराणि च पुनः तानि च तानि ज्ञानानि च, मिथ्या च तानि ज्ञानानि च तेषां चित्रा नानाकाराः सन्तानाः तेषां साधकस्त्वम् अङ्ग यतः ततो दूषकः [त्वं विदूषकः] विभ्रमैकान्ते तत्साधकत्वायोगात् ।
कारिकां विवृण्वन्नाह-'स्वसंवित्तेः' इत्यादि । सर्वचित्तचैत्तानां या स्वसंवित्तिस्तस्याः अर्थसंविच्या बहिरर्थग्रहणेन । किंभूतया ? भ्रान्तया स्वप्नवदसदर्थविषया (षयया)भ्रान्तया, तादात्म्यं तौ भ्रान्तौ आत्मानौ यस्याः तस्या भावः तादात्म्यं प्रतियतः सौगतस्य । एतदुक्तं भवति- यथा अर्थसंवित्तिः याथात्म्यसंवित्तिः भ्रान्ताऽभ्रान्ता वा तथा [स्व] संवित्तिरपि यदि भ्रान्ता "अन्यथा वा स्यात् , एकान्तेन तत्र अर्थसंवित्त्या भ्रान्तया तस्याः तादात्म्यं प्रतियतः २५ कथमेकत्र बाह्य वस्तुनि कृतकाकृतकयोः स्थूलसूक्ष्मयोर्वा धर्मयोः विरोधः ? स्वसंवित्तिवत् "तत्संवित्तरपि अभ्रान्तत्वाद् इति मन्यते ।
"इदं व्याख्यानं कस्मान्न भवति–'स्वसंवित्तेः अर्थसंवित्त्या बाह्यनिर्भासेन भ्रान्तेन अभ्रा
(6) परमार्थसत्त्वम् । (२) प्रतिभासादेव । (३) परमार्थसत्त्वमिति । (४) द्रष्टव्यम्-पृ० १ टि० ८ । (५) प्रतिभासमानशरीराः । (६) स्तम्भादयः। (७) यदि असन्तः तर्हि । (८) ज्ञानस्यापि परित्यागः । (९) विज्ञानवादी बौद्धः । (१०) सम्बोधने । (११) अभ्रान्ता । (१२) स्वसंवित्तः । (१३) बहिरर्थे विरुद्धधर्मप्रतिभासस्यापि । (१४) अनन्तरोक्तम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org