________________
४१२
सिद्धिविनिश्चयटीकायाम्
[ ६ हेतुलक्षणसिद्धि:
चेत् न तत्त्वतो 'विद्यते' [ ३२९ख] इत्यध्याहारः । तत्र दूषणं स्वार्थसिद्धिर्न बाध्येत इति । स्तं वा ( स्वं च अ) र्थश्च तयोः सिद्धिः आत्मलाभो ज्ञानज्ञेयसिद्धिः इति यावत् । न बाध्येत न निराक्रियेत । ग्राह्यग्राहकभावेऽप्यभायतद्भावस्यापि सिद्धरनिवारणादिति मन्यते ।
1
यदि वा, यदा सौगतः अभ्युपगताऽभावज्ञानेनापि वर्जितो भवति तदा बन्ध्यासुतवत् ५ जैनाभ्युपगतस्वार्थयोः सिद्धिं ज्ञप्तिं प्रति न किञ्चिद् बाधकं ब्रूयात् । वदित्वा कथन्न स्ववचनविरोधी, इति स्वार्थयोः ज्ञप्तिर्न बाध्येत लोकसिद्धा । तत्र प्रमाणं तत्त्वतो न भवति * " प्रामाण्यं व्यवहारेण " [प्र० वा० १।६ ] इति वचनादिति चेत्; अत्राह-येन अभावः प्रमेयः तद्विज्ञानं प्रमाणं चेत् न तत्त्वतः परमार्थतः किन्तु संवृतिरूपव्यवहारतः । अत्र दूषणं स्वार्थ इत्यादि । इदमत्र तात्पर्यम् - 3 - अथ प्रमाणाद् अभावप्रतिपत्तेः भावप्रतिपत्तिरपि स्यात् इति । १० यद्वा अप्रमाणसिद्धो नाभावः पारमार्थिकः इति तदवस्थो भाव इति । तत्र हेतुमाह - विरुद्धानुपलम्भतो विरुद्धस्य अत्यन्ताभावस्य [ अनुपलभ्भतः ] अप्रतिपत्तेः ।
कारिकार्थं दर्शयति बहिः इत्यादिना । वहिरन्तश्च धर्मनैरात्म्यं सकलशून्यत्वं प्रमाणतः प्रतिपत्तु ं बौद्धो नार्हत्येव । कुतः ? इत्याह - विप्रतिषेधात् सकलाभावप्रमाणसत्त्वयोः अन्योऽन्यं विरोधात्। अप्रमाणात्तर्हि तत्प्रतिपत्तुमर्हति इति चेत्; अत्राह - परमार्थतो नैरात्म्यप्रतिपत्तेरभावात् । कस्मिन् सति ? इत्याह- प्रमाणस्याभावे । ततः किं जातम् ? [३३०क] इत्याहभावोपलब्धिः (ब्धेः ) भवत्येव अनेकान्तसिद्धिः । अथ एकान्तभावोपलब्धेनैव (ब्धेः ) नैवम् ; अत्रार्थ (अत्राह) स्वभाव इत्यादि । अनेकान्तस्वभावविरुद्ध [स्य ] एकान्तस्याऽनुपलब्धेः ।
१५
यदुक्तं भावोपलब्धि (ब्धे) रिति; तत्रास्ति तावन्नीलादेः उपलब्धिः, सी तु भावस्य इति कुतः ? तस्यै तत्त्वसाधनाभावात् । उपलब्धिरेव तत्साधु (तत्साधि ) केति चेत्; न; स्वप्नेऽपि २० तस्यास्तं (तस्याः) तत्त्वम् इति न सत्येतरप्रविभागः पारमार्थिकः । न च तस्याः क्वचित् बाधकसद्भावेतरकृतो विशेषः; साकल्येन बाधकाभावव्यवस्था [ नातू ] । नाप्यर्थक्रियातः; नित्या - नित्ययोः तदभावात्, स्नप्नेऽपि भावाच्च । सो अर्थक्रिया न भवतीति चेत्; कुथमन्या ? प्रतिभासात्; अन्यत्र समानम् । बाधकाभावोऽपि तादृगेव ।
किंच, अर्थक्रियापि तदन्तरात् चेद् भावरूपा; अनवस्था तत्रापि तदन्तरापेक्षणात् । २५ भावजन्यत्वाच्चेत्; अन्योऽन्यसंश्रयैः । स्वतश्चेत्; घटादिरपि तथास्तु । परितोषहेतुत्वात् ; स्वप्नेऽपि अत एव सा तथास्तु अविशेषात् । तन्न भावोपलब्धिर्नाम इति; तत्राह -1 - मिथ्येत्यादि ।
[ मिथ्यार्था भास्थिरज्ञानचित्रसन्तानसाधकः । तत्त्वज्ञान गिरामङ्ग” दूषकस्त्वं विदूषकः ॥ २५॥
(१) नीलाद्युपलब्धिः । (२) भावस्य । (३) भावरूपत्वसाधकाभावात् । (४) उपलब्धेः सद्भावात् । (५) भावरूपत्वम् । (६) उपलब्धः । (७) विशेषः । (८) उभयैकान्तयोः । ( ९ ) स्वप्नभाविनी । (१०) अर्थक्रियान्तरात् । ( ११ ) भावजन्यत्वात् अर्थक्रियाया भावरूपता, अर्थक्रियायाश्च भावस्य भावरूपतेति । (१२) अर्थक्रियायाः भावरूपत्वचेत् । (१३) वचनानाम् । (१४) 'भङ्ग' इति सम्बोधने ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org