________________
६।२४ ]
अनेकान्त एव सत्त्वादयः
इति स्वभावे असंशयो 'विद्यमानसंशयोऽयम्' इत्युल्लेखरूपेण भावो भवतीति काका व्याख्येयम् । अत्र सिद्धान्तः नित्ये स्वभाव अनित्यो नित्य (त्योऽयमिति अ) नुबुध्यते ज्ञायते भावः । यदि वा, अनित्ये नित्य इति वैशेषिकादिरपि एकान्तेन नित्येतरस्वभावयोः भेदं कल्पयन् एतेन निरस्तः; तस्यापि अर्थावधारणानवधारणात्मकस्य संशया प्रत्यस्यनावो (संशयस्य प्रत्याख्यान) विरोधात् ।
सोपपत्तिकं कारिकार्थं दर्शयति-नित्यदिन (नित्यमित्यादिना)। द्रव्यम् उक्तलक्षणं धर्मि नित्यं कालान्तरस्थायि इति तत्साध्यं परिणा[मि]नित्यत्वम् अत्र साध्यम् अन्यस्याऽनिष्टेः । कुतः ? इत्याह-अनित्यस्वभावानुपपत्तेः एकान्ताऽनित्यरूपस्य अघटनात् । उपलक्षणमेतत् तेन 'अनित्यं द्रव्यं नित्यस्वभावानुपपत्तेः' [३२९क] इति च द्रष्टव्यम् ।
___ ननु रूपादिव्यतिरेकेण अन्यस्य द्रव्यस्याप्रतिभासेन असत्त्वाद् आश्रयासिद्धो हेतुरिति १० चेत् ; अत्राह-भ्रान्तीत्यादि । भ्रान्त्यादीनां कृतद्वन्द्वानाम् आदिशब्देन बहुव्रीहिः, पुनः 'स्वभावाः' इत्यनेन षष्ठीसमासः ते निःस्वभावाः स्युः । किमन्तरेण ? इत्याह-स्वसंवेदनम् इत्यादि । एक साधारणं स्वभावमन्तरेण । किंभूतम् ? प्रत्यत्तं प्रत्यक्षग्राह्यमेतइ (मेतद् इति) बहिर्द्रव्यम् । पुनरपि किंभूतम् ? स्वसंवेदनम्, एतच्च अन्तःप्रत्यक्षमपि विशेषणम् अव्यभिचारादत्र युक्तम् । कुतः ? इत्यत्राह-स्कन्धान्तर इत्यादि । एवं मन्यते-यथा रूपादीनाम् अनेका- १५ न्तेन परस्परभेदः तथा विभ्रमेतरादीनां स यदि स्यात् ] तत्प्रसङ्गो दुर्निवार्यः। न च तथा तत्त्वव्यवस्थेति निःस्वभावाः स्युः इति भावः । भवतु तर्हि विभ्रमेतरादिनिर्भासैः एको भावः इति चेत् ; अत्राह-स्वभावभेदस्य इत्यादि । भावस्य यः स्वभावभेदः तस्य भेदकत्वे अङ्गीक्रियमाणे किं न किञ्चित् प्रतीतेः बहिरन्तश्च एकानेकरूपायाः विपर्यासकल्पनया इति सिद्धं द्रव्यम् । ततो यदुक्तं केनचित् *"स्वरूपस्य स्वतो गतिः" [प्र. वा० ११६] इति, तत्र २० यदि एकानेकरूपस्य; सिद्धं नः समीहितम् । अथ अन्यथाभूतस्य *"निःस्वभावा [:] सर्वेभावाः" इति, बालिशगीतमेतत् * "अज्ञातार्थप्रकाशो वा इति पारमार्थिकं प्रमाणलक्षणम्" इति [प्र. वार्तिकाल० पृ. ३०] । 'स्वभावनैरात्म्यं न दोषाय इष्टत्वात्' इत्यपरः; तं प्रत्याह-येन (येना) भाव इत्यादि । [येनाभावः प्रमेयः स्यात्तज्ज्ञानं चेन्न तत्त्वतः।
२५ स्वार्थसिद्धिर्न बाध्यत विरुद्धानुपलम्भतः ॥२४॥ बहिरन्तश्च धर्मनैरात्म्यं प्रमाणतः प्रतिपत्तु नाहत्येव विप्रतिषेधात् । प्रमाणाभावे परमार्थतो नैरात्म्यप्रतिपत्तेरभावात् । ततो भावोपलब्धिर्भवत्येव अनेकान्तसिद्धिः स्वभावविरुद्धानुपलब्धेः।]
येन ज्ञानेन प्रमेयः परिच्छेद्य [:] । कः ? इत्याह-अभावः सकलव्यावृत्तिः तज्ज्ञानं ३०
(१) परिणामे सत्यपि नित्यत्वम् ,उत्पादव्ययध्रौव्यात्मकत्वमित्यर्थः । (२) कूटस्थनित्यत्वस्यानिष्टेः । (३) कथनात् । “सर्वे भावा निःस्वभावत्वात् शून्याः इति ।"-विग्रहव्या० श्लो०१। “अतो लक्षणशून्यस्वान्निःस्वभावाः प्रकाशिताः।"-प्र० वा० २।२१५। (४) अनन्तरोक्तम् । (५) शून्यवादी।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org