________________
६।२२ ]
अनेकान्त एव सत्त्वादयः
४०९
प्रसिध्यति इति मन्यते । एवं तर्हि क्षणिके हेतुः स्याद् वस्तुधर्मस्य गत्यन्तराभावात् कथमनैकान्तिकत्वमिति चेत् ; अत्राह - स्याद् इत्यादि ।
५
कारिकाम् 'यत् सत् तत् सर्वम्' इत्यादिना व्याचष्टे । यत् सद् अर्थक्रियाकारि तत् सर्वं सत् क्षणिकम्, वाशब्द इवार्थः ' क्षणिकम्' इत्यस्थानन्तरं द्रष्टव्यः । क्षणिकमिव इत्यर्थ[ ] । निदर्शनमत्र नो (क्त ) म् अ र्च टेन 'तदन्तरेण अस्य गमकत्वोपवर्णनात् । कुतः ? इत्याह- ' विपक्षे इत्यादि । विपक्षः अक्षणिकापेक्षया क्षणिकः, तत्र क्रमयौगपद्याभ्यां क्रमेण यौगपद्येन 'च अर्थक्रियाविरोधात् । तथाहि - न तावत्तत्र क्रमेण अर्थस्य करणम् ; एकं कृत्वा पुनः तेनैव परस्य करणं क्रमेण तत्करणम्, न च नित्यवदि चं तस्यापि (वदितरस्यापि ) * निरंशैकस्वभावस्य "तत् संभवति ।
४
एतेन जाच्चेतसः समनन्तरचिरभाविप्राणादिप्रबोधकार्यद्वयं तिस्तं (निरस्तम्) यदुक्तं १० प्रज्ञा करेण*“तस्मात्
कारणं यदि तज्ज्ञानं स्वभावो वार्थजन्मनः ।
कार्यं वा सर्वथा तेन [३२७ ख] ज्ञाप्यतेऽर्थक्रियोदयः || ” [प्र० वार्तिकाल० ११५ ] इति; तत्रेदं चिन्त्यते - यदि कारणम् ; कथमतोऽभ्यासे प्रवृत्तिः पुनः अर्थक्रियोदयः इति क्रमभाविकार्यद्वयम् ? यदि पुनः प्रवृत्तिः ततो नेष्यते कथमुक्तम् - " अभ्यासे भाविनि प्रवर्त्तकत्वात् १५ प्रत्यक्षं प्रमाणम्” इति ? * " अनभ्यासेऽपि पूर्वम् अतोऽनुमानं पुनः तदुदयः" इति च । तन्न नित्यादिवत् क्षणिकात् क्रमेण अर्थक्रियोदयः । नाप्यक्रमेण ; एकेन युगपदनेकस्य करणं "तथोक्तं भवेत्, तच्च नित्यस्य कालभिन्नमिव इतरस्य एकस्वभावत्वे देशभिन्नमपि न संभवति इत्युक्तम् । माभूत् क्षणिकेऽर्थे काचिदर्थक्रिया को दोष इति चेत्; अत्राह - तल्लक्षणा अर्थक्रियालक्षणा सत्ता ततः क्षणिकान्निर्वर्त्तमाना पक्षं साध्यं सन्तं तथाभूतम् अक्षणिकं प्रसाधयति २० इति युक्तम् ।
"
अत्र अर्चट मतमाशङ्कते दूषयितुं यदि इत्यादि । व्यापकयोः [ क्रमाऽ]क्रमयोः अनुपलब्धिः व्यतिरेकः अक्षणिकाद् व्यावृत्तिः यदि निर्णीयेत तदा 'पक्षं सन्तं साधयति' इति युक्तम्, नचैवमिति मन्यते । कया नीत्या ? हृ ( इत्याह-) स्वपक्षे अक्षणिके प्रत्यक्षवृत्त्य ( वृत्त्या) तत्र क्रमाक्रमयोः, प्रत्यक्षवृत्त्या तदनुपलब्धिर्बाध्यते नान्यथा । अथ [य]त एव २५ अक्षणिकापेक्षा यो विपक्षः क्षणिकः तस्माद् व्यावृत्तिर्बाध [क] स्य अत एव स्वापक्ष (स्वपक्षे ) प्रत्यक्षवृत्तिः इति चेत् ; अत्राह - विपक्ष इत्यादि । विपक्षाद्व्यावृत्तिः या व्यापकस्य तया पक्षे क्षणिके प्रत्यक्षवृत्तिः तत्र व्यापकदर्शनं पक्ष प्रत्यक्षवृत्त्या च विवक्षावृत्तिः (विपक्षाद्व्यावृत्तिः) इत्येवं परस्पराश्रयं चक्रमिव आवर्त्तते चक्रकम् यत एवं तयोर्व्यवस्थैव व्यवस्थितिर्न कस्यचित् स्यात् [३२८ क] ।
३०
(१) दृष्टान्तमन्तरेण । ( २ ) क्षणिके । (३) स्वभावेन । ( ४ ) क्षणिकस्यापि । (५) क्रमकरणम् । (६) जाग्रच्चित्तं हि अनन्तरं प्राणादि जनयति सुषुप्त्यनन्तरं प्रबोधं च उत्पादयति । (७) युगपत्करणम् । (८) क्षणिकस्य । ( ९ ) प्रत्यक्षवृत्ति- विपक्षव्यावृत्योः ।
५२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org