________________
४०८
सिद्धिविनिश्चयटीकायाम्
[ ६ हेतुलक्षणसिद्धिः
तत्कथं क्षणिकत्वे तदै(दनै)कान्तिकम् ।" इति ; तदेतत् पक्षान्तरेऽपि समानमिति दर्शयन्नाह– स्यात् सत्ता इत्यादि ।
यत् सत् तत्सर्वं क्षणिकं विपक्षे क्रमयौगपद्याभ्यामर्थक्रियाविरोधात् । तल्लक्षणा सत्ता ततो निवर्तमाना पक्षं सन्तं तथाभूतं प्रसाधयति । यदि स्वपक्षे प्रत्यक्षवृत्त्या तत्र व्यापकानुपलब्धिर्निर्णीयेत् । विपक्षव्यावृत्त्या पक्षे प्रत्यक्षवृत्तिः, पक्षे प्रत्यक्षवृत्त्या च विपक्षाद्व्यावृत्तिरिति परस्पराश्रयं चक्रकम्, यतः तद्व्यवस्थैव न स्यात् । नन्वक्षणिके अर्थक्रियायाः सत्यं प्रत्यक्षमस्ति ? अन्यथा किं तत्रानुमानेन ? विप्रतिपत्तिस्तत्र अन्यथा - १० ऽर्थक्रियानुपपत्तिप्रयोगात् निराक्रियते । तद्द्द्वयमयुक्तम् |]
२०
[स्यात् सत्ता हेतुरक्षणिके विपक्षेऽर्थक्रियाऽग्रहात् । व्यापकानुपलब्धेश्चेद् व्यतिरेकः प्रसिध्यति ॥ २२॥
स्याद्भवेत् । सत्ता हेतुः लिङ्गम् । क ? इत्याह- अक्षणिके 'अर्थे' इत्यध्याहारः । कुतः ? इत्याह-विपक्षे क्षणिके अर्थक्रियायाः क्रमयौगपद्याभ्यां व्याप्तायाः सत्त्वस्य व्यापि - कायाः अग्रहात् कुतश्चिदप्रतिपत्तेः । शक्यमनेनाप्येवं वक्तुम् - क्षणिकात् सत्त्वं स्वव्यापक' - निवृत्त्या व्यावर्त्तमानं गत्यन्तराभावाद् अक्षणिके व्यवतिष्ठते इति ।
१५
स्यान्मतम्-विपक्षे क्षणिके त्वंक्रियाः (त्वर्थक्रियायाः) व्यापारानुपलब्धेरभाव [:] सिध्येद् यदि क्षणिकात् निवर्त्तेत, अन्यथा अनैकान्तिकी' कथं तत्र तदभावं साधयेत् ? " ततः 'तन्निवृत्तिश्च क्रमयौगपद्याभ्याम् अक्षणिके 'अर्थक्रियादर्शने । न च तत्र [ ३२७ क] "तद् इति ; तत्राह-व्यापक इत्यादि । व्यापकयोः क्रमयौगपद्ययोः याऽनुपलब्धि [र] क्षणिकासत्त्वसाधनायोपन्यस्ता तस्याः व्यतिरेकः क्षणिकाद् विपक्षाद् व्यावृत्तिः प्रसिद्धा, नित्ये प्रतिभातस्य क्रमेतराभ्याम् अर्थक्रियाकारित्वस्य व्यवस्थापितत्वादिति मन्यते । चेत् शब्दः अवधारणार्थः, निपातानाम् अनेकार्थत्वात् 'अर्थक्रियाग्रहाद्' इत्यस्यानन्तरं द्रष्टव्यः । भवतु . तर्हि सत्ताऽक्षणिके हेतुः तथापि जैनस्य [ प्र ] कृतं हीधते ( हीयते ) इति चेत्; अत्राह - स्याद् इत्यादि गतार्थमेतत् । व्यापकानुपलब्धेश्चेद् यदि व्यतिरेकः प्रसिध्यति, स तु न
(१) " तथाहि क्रमयौगपद्याभ्यां कार्यं किया व्याप्ता प्रकारान्तराभावात् । ततः कार्य कियाशक्तिव्यापकयोः तयोरक्षणिकत्वे विरोधान्निवृत्तेस्तद्व्याप्तायाः कार्यक्रियाशक्तेरपि निवृत्तिरिति सर्वशक्तिविरहलक्षणमसत्वमक्षणिकत्वे व्यापकानुपलब्धिराकर्षति विरुद्वयोरेकत्रायोगात् । ततो निवृत्तं सत्वं क्षणिकेष्वेवावतिष्ठमानं तदात्मतामनुभवतीति यत् सत् तत् क्षणिकमेवेति अन्वयव्यतिरेकरूपायाः व्याप्तेर्निश्चयो भवति ( पृ० १४६, ४७) तस्मात् तीरादर्शिनेव इत्यादि । यथा किल वहनारूढैर्वणिग्भिः शकुनिर्मुच्यते अपि नाम तीरं द्रक्ष्यतीति । स यदा सर्वतः पर्यटॅ स्तीरं नासादयति तदा वहनमेव आगच्छति तद्वदेतदपि द्रष्टव्यम् । ( पृ०१९३)” - हेतु बि० टी० । (२) व्यापके क्रमयौगपद्ये । (३) अर्थक्रिया । ( ४ ) अनेकान्ता वर्तमाना, अथवा पक्षविपक्षयोर्वर्तमाना । (५) क्षणिके । (६) सत्वाभावम् । (७) क्षणिकात् । (८) सरवनिवृत्तिश्च । ( ९ ) सति भवति । (१०) अक्षणिके । (११) अर्थ क्रियादर्शनम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org