________________
६।२१] एकान्तसाधने सत्त्वादयोऽसिद्धादयः
४०७ कार्याणि कर्तुं प्रागेव शक्तः तानि युगपत् कुर्यात् प्रागेव, पुनः ततोऽपि प्रागेव पुनः ततोऽपि प्रागेव इति न कार्योत्पत्तिकालव्यवस्था ।" इति ; तन्निरस्तम् ; कथम् ? चेतनालक्षणं क्षणिकं कर्म चेत् स्वकार्योत्पत्तौ वैचित्र्यं स्वसत्तासमये कत्तुं शक्तम् ; [३२६क] तदैव कुर्यात् , तस्यापि चेतनालक्षणस्य कर्मणो यत् सर्वम् अन्यद्वा कार्य स्वसत्तासमये करोतु तस्यापि कारणं स्वं फलं तदा जनयति इति क्षणिकपक्षेऽपि कार्योत्पत्तिकालव्यवस्था दुर्घटा, इति न युक्तम्- ५
*"स्थित्वाप्रवृत्ति-संस्थानविशेषार्थक्रियादिषु ।
इष्टसिद्धिः सिद्धसाधनम् ।" [प्र० वा० १।२० ] इति' । यदि पुनः प्रागेव समर्थादपि क्षणिकात कारणात् कालान्तरे कार्योत्पत्तिः प्रार्थ्यते, कथमन्यथा सुप्तस्य चिरोत्थितस्य पूर्वाऽभ्यासाद् विकल्पा इति; तथा नित्यादपि प्रार्थ्यताम् , इति न युक्तम्-*"नित्यादुत्पत्तिविश्लेषात" [प्र० वा० ११९] इति ।
ननु पूर्व समर्थमपि नित्यं पश्चात् स्वकार्यं करोतु, तथापि (तदापि) तेनैव कार्योत्पत्तः, ऊर्ध्वं तस्य स्थाने पुनरपि तदेव कर्त्तव्यमिति कार्यस्योपरमः कथमिति चेत् ? उक्तमत्र-पुनः स्वकालनियतकार्योत्पत्तेः संभवादिति पुनः पुनः तस्यैव करणे न स्वकालनियतकार्योत्पत्तिसंभवः। क्षणिकपक्षेऽपि सर्वं समानम् ; तथाहि-येन स्वभावेन प्रदीपः प्रमातरि ज्ञानमुपजनयति तेनैव चेद् अन्यत्र कज्जलम् ; तत्र तज्ज्ञानमपि जनयेत् प्रमातरि वा कज्जलम् इति ।।
ननु कार्यकालं प्राप्नुवतः कारणस्य तत्त्वं विरुद्ध्यत इति चेत् ; अत्राह-नचेत्यादि । नच नैव कार्योत्पत्तिः स्वकारणसत्तया विरुध्येत । विरोधे कारणसत्तया विरुध्यते यथा अग्निसत्तया शीतोत्पत्तिः इति । स्वाकारणग्रहणं कुतो न विरुध्यते इति चेत् ? विरोधंद्वयस्याप्यभावात् । नहि तदुत्पत्तेः तत्सत्तया सहानवस्थानलक्षणो विरोधः; अविकलकारणायाः कस्याश्चिद् भवत्याः [३२६ख] तदन्यतरस्याः सन्निधाने नियमेन निवृत्त्यदर्शनात् , पटोत्पत्तिसमयेऽपि तत्कारण-२० तन्तुदर्शनात् । नापि परस्परपरिहारस्थिततालक्षणः; सुवर्णात्मककटकप्रतीतेः ।
न चेदमत्र चोद्यम्- पूर्वापरैकता केन प्रतीयते इति ? कृतोत्तरत्वात् । किंभूतः स नास्ति ? इत्याह-यतो विरोधाद् अक्षणिक एव न क्षणिके दोषः स्याद् अर्थक्रियाभावलक्षणः । कृतप्रतिक्रियत्वमस्य दर्शयन्नाह-निर्णीतेत्यादि । निगमयन्नाह-तत्सूक्तमेतद् इत्यादि ।।
यत्पुनरुक्तम् अ चे टे न-*"सत्त्वम् अथक्रियया व्याप्तम् , सापि क्रमयोगपद्याभ्यां २५ प्रकारान्तराभावात् तत्करणस्य, तेच अक्षणिकान्निवर्तमाने तामर्थक्रियामादाय निवर्तेते, सापि सत्त्वमिति तीरादर्शिशकुनिन्यायेन क्षणिकत्वम् अवलम्बते सर्व पक्षान्तराभावात्,
स्थत्वा प्रवृत्तिसंस्थानविशेषाऽर्थक्रियादिषु । इष्टसिद्धिरसिद्धिर्वा दृष्टान्ते संशयोऽथवा ॥१०॥ ते एते कार्य हेतुत्वेनाभिमताः स्थित्वाप्रवृत्त्यादयो नैते सम्यग्घेतवः । यत एषु सत्स्वपीष्टस्यैव सिद्धिः सिद्धसाधनम् । न च सिद्धः पक्षो भवतीति..."-प्र. वार्तिकाल । (२) "अपेक्षाया अयोगतः।" इति हेत्वंशः । (३) भित्तौ गवाक्षे वा । (४) कारणत्वम् । (५) "द्विविधो हि पदार्थानां विरोधः । अविकलकारणस्य भवतो. ऽन्यभावे अभावाद् विरोधगतिः । शीतोष्णस्पर्शवत् । परस्परपरिहारस्थितलक्षणतया वा भावाभाववत् ।" -न्यायबि० ३।७२-७५ । (६) तद्भिन्नायाः । (७) पूर्वापरपर्याययोः । (८) क्रमयोगपद्य । (९) अर्थकिया।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org