________________
४०६
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः *'ये परस्खलितोन्निद्राः स्वदोषेभनिमीलिनः।।
तपस्विनस्ते किं कुर्युरपात्रं त्वन्मतश्रियः ॥" [बृहत्स्व० श्लो० ९९] इत्येतेन उद्भावनात् । अस्यायमर्थः-ये वादिनः अपात्रम् अभाजनम् । कस्य ? इत्याहतन्मत (त्वन्मत)श्रियः [३२५क] इति । तव अरजिनस्य भगवतो मतभासन्नं (मतं शासन) तस्य ५ श्रीः सर्वपदार्थव्यापि-अनेकान्ताभिधेयम् , तस्याः, एकान्तवादिनः इति यावत् । ते किं कुर्युः ? नैव किञ्चित् , स्वपरपक्षसिद्धिनिषेधौ नैव कुर्युः इत्यर्थः । किंभूताः ? तपस्विनो वराकाः । कुतः ? इत्याह-परस्खलितोन्निद्रा इत्यादि । परस्य सौगतापेक्षया नित्यवादिनः 'तदपेक्षया सौगतस्य, स्खलितं क्रमयोगपद्याभ्याम् अर्थक्रियाऽसामर्थ्य ततोन्निद्रा (तत्रोन्निद्राः) तद्दष्टारः । स्वदोषेभनिमीलिनः स्वदोषान् पश्यन्तोऽपि अपश्यन्त इव वर्तन्ते । ततः सत्त्वादेः क्षणिकत्ववद् १० अक्षणिकत्वसाधनमपि समानमिति ।
कारिकां व्याचष्टे-सत्त्वादेः इत्यादिना । सत्त्वम् अर्थक्रियाकारित्वम् उपलम्भम् अन्यद्वा आदिर्यस्य एकान्तवादिसम्बन्धिनिखिलहेतोः स तथोक्तः तस्य । किंभूतस्य ? वस्तुधर्मस्य असिद्ध[त्वम् एकान्तवस्तुन एव कस्यचिदभावात् तद्धर्मोऽपि तादृश एवेति मन्यते ।
- ननु नित्यैकान्ते तदभावेऽपि क्षणिकत्वे तद्भावात् नाऽसिद्धत्वमिति चेत् ; अत्राह-साक१५ ल्येन सामस्त्येन क्षणिकेतरैकान्तयोः असिद्धः सत्त्वादेः इति ।
स्यान्मतम्-एकान्तवादिपरिकल्पिततत्त्वसमीक्षायां तदसिद्धिरस्तु, यथादर्शनं तदङ्गीकरणे अयमदोष इति ; तत्राह-अन्यथाऽनुपपत्तेः इत्यादि । विरुद्धत्वम् ‘सत्त्वादेः' इत्यनुवर्त्तते । कुतः ? इत्याह-अनेकान्तसाधनात् । एतदपि कुतः ? इत्याह-अन्यथा अनेकान्ताभावप्रकारेण
अनुपपत्तेः यथादर्शनं सत्त्वादेः इति । २० . अपरः पुनराह-सर्वविकल्पातीतं तत्त्वतः [३२५ख] व्यवहारेण क्षणभङ्गादिसाधनम् ।
तत्राह-अनैकान्तिकत्वम् इत्यादि । व्यभिचारित्वं सत्त्वादेः । पुनः इति वितर्के । क्षणक्षयादिसाधने क्रियमाणे अशेषकान्तवादिसाध्यपरिग्रहार्थम् आदिग्रहणम् । कुतः तत्साधने ? सत्त्वादः इति । कैः ? इत्याह-असमीक्षिततत्त्वार्थः असमीक्षितो विपरीतारोपनिरासेन न सम्यग् ईक्षितः तत्त्वार्थः प्रतिभासाद्वैतलक्षणो यैः तैः, पृथग्जनैः इत्यर्थः । किं कृत्वा ? आश्रित्य । किम् ? २५ लोकप्रतीतिम् भेदविषयां विकल्पबुद्धिम् । तदुक्तं कैश्चित्-*"प्रमाणमविसंवादिज्ञानम् इत्यादि
प्रमाणलक्षणं संव्यवहारापेक्षया" [प्र. वार्तिकाल० ११५] किंभूताम् ? इत्याह-प्रमाणमिति परमार्थतः इति मन्यते । कथमनैकान्तिकत्वम् ? इत्याह-स्वपक्ष इत्यादि । तदा तेन परिकल्पितप्रकारेण अर्थक्रियालक्षणो हेतुः उभयत्र पक्षवद् विपक्षेऽपि वर्तते यतः। कुतः ? इत्याहप्रागेव कार्योत्पत्तेः पूर्वमेव तत्करणसमर्थात् कार्योत्पादनशक्तात् कारणात् पुनः उत्तरकालं ३० स्वकालनियतकार्योत्पत्तेः अविशेषेण विशेषाभावेन संभवात । क ? स्वपक्षविपक्षयोः क्षणिकाऽक्षणिकस्वभावयोः । ततो यदुक्तं केनचित्-*"यदि नित्यो महेश्वरो भावीनि सर्व
(१) नित्यवाद्यपेक्षया ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org