________________
६।२१ ]
एकान्तसाधने सत्त्वादयोऽसिद्धादयः
४०५
तस्य अतीतग्रहणे अश्वता (णोन्मुखता) सैव वर्त्तमानादिग्रहणोन्मुखता; ग्राह्यैकत्वप्राप्तेः । [३२४ क] नहि चक्षुरादिज्ञानेषु यैव रसग्रहणोन्मुखता सैव रूपादिग्रहोन्मुखता; ज्ञानभेदवैयर्थ्यापत्तेः । तत्रापि शक्तयः तत एकान्तेन व्यतिरिच्यन्ते । सम्बन्धाभावेन समवायनिषेधात् तस्य तो इति व्यपदेशविलोपात् । तदुपकारशक्ति कल्पनायाम् अनवस्था । ततोऽनेकशक्त्यात्मकमेकं ज्ञानं तेनापभ्युपगन्तव्यमिति । कथञ्च अनेकं कस्य (तस्य) चित्रं ज्ञानम् ? ततः स्थितम् - विरुद्धो इत्यादि । ५ तदुक्तम्-*“सिद्धिः अनेकान्तात् " [ जैनेन्द्रव्या० १|१|१] शब्दार्थसम्बन्धानां सिद्धिः निष्पत्तिः आत्मताज्ञतिर्वा अनेकान्तात् नान्यतः इति ।
1
अपरस्त्वाह-न मया प्रतिभासाद्वैतवादिना परमार्थतः कचिद् हेतुः इष्यते यस्तु इष्यते स व्यवहारेण "प्रामाण्य व्यवहारेण" [प्र० वा० १४] इत्यभिधानादिति ; तं प्रत्याहद्वेधा समन्तभद्रस्य हेतुः एकान्तसाधने इति । पक्षवद् विपक्षेऽपि वर्त्तते इति द्वेधा १० अनैकान्तिक इति यावत् । तथाहि - सत्त्वम् अर्थक्रियाकारित्वम्, अक्षणिकवत् क्षणिकेऽपि स्वसदसत्समये भावतोऽसंभवि ; कल्पनया पुनः उभयत्रापि न वार्यत इत्युक्तम् । एतेन " उपलम्भः सत्त्वम् " [प्र० वार्तिकाल० पृ० २३१] इति निरूपितम् । यथैव हि एकस्य कालत्रयानुयायित्वं नित्यत्वं न कुतश्चित् प्रत्येतुं शक्यं तथा एकपरमाणुपर्यवसितं क्षणिकत्वमिति च । तथापि तत्प्रतिपत्त्यभ्युपगमे सर्वस्य त्रिकालगोचराऽशेषावस्थानुयायिद्रव्यदर्शनं किन्न अभ्युपगभ्यते ? यत इदं १५ स्यात्–*“यद् यथावभासते तत् तथैव परमार्थसत् यथा सुखं तत्त्वेनावभासमानं तथैव परमार्थसत्, अवभासन्ते च भावा [अ] नित्यत्वेन " इति । तथा व्यवहारा वा (राभावश्चा) - ऽन्यत्रापि [३२४ख] 'सर्वस्य सर्वदर्शित्वम्' इत्यपि नोत्तरम् ; एकैकपरमाणुनियतक्षणिकत्वदर्शनेऽपि सर्वस्य सुगतत्वात् । नहि तथादर्शिनो भावतः सौगतैः अन्यः सुगत इष्यते । तथेष्टत्वाददोषश्चेत् ; प्रकृतेऽप्यस्तु तदुत्तरम् । संसारीतरव्यवस्थाऽभाव इति चेत्; सुगतेतराभावोऽपि २० तथा न किम् ? परमार्थतो यथाऽस्याभावः तथा अन्यस्यापि । व्यवहारेण उभयोरपि सिद्धिः न वा कस्यचित् ।
यत्पुनरेतत्-प्रथमक्षणदर्शनसमये अतीताऽनागतदशादर्शने तदैव उत्पन्नमृतप्रतीतिः स्यादि
ति
; तदपि न सुन्दरम् [ उभयत्रापि स ] मत्वात् । यो हि पूर्वापरविविक्तमेकं परमाणुं पश्यति स नितरां तदैव उत्पन्नमृतम् आत्मानं पश्यति इति न कस्यचित् कचित् प्रवृत्तिः निवृत्तिर्वा २५ कुतश्चिदिति प्राप्तम् । तदभ्युपगमे सकलकालकालीनदशास्थितान्स ( तात्म) दर्शिनोऽपि सदभ्युपगमः केन वार्यते ? अथ मध्यक्षण एव उत्पन्नो मृतश्च स्यादिति मतिः ; सापि न युक्ता ; यथासमयमेव तद्ग्रहणात् । अस्याऽनभ्युपगमे अन्यत्र कः समाश्वासः ? ततोऽक्षणिकवत् क्षणिकस्यापि न तत्त्वतो दर्शनम् । कल्पनया तु द्वयोरपि इति साधूक्तम् - द्वेधा समन्तभद्रस्य इति । क पुनरनेन भगवता एकान्तवादिहेतूनामनैकान्तिकत्वमुच्यत इति चेत् ; न ;
,
(१) शक्तयः । (२) परमार्थतः । (३) नित्यपक्षे । ( ४ ) प्रवृत्तिनिवृत्तिस्वीकारे ।
Jain Education International
For Personal & Private Use Only
३०
www.jainelibrary.org