________________
४०४
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः सत्त्वादेर्वस्तुधर्मस्य असिद्धत्वं साकल्येन क्षणिकेतरैकान्तयोरसिद्धः। अन्यथानुपपत्तेरनेकान्तसाधनाद् विरुद्धत्वम् । अनैकान्तिकत्वं पुनः सत्त्वादेः क्षणक्षयादिसाधने असमीक्षिततत्त्वार्थैः लोकप्रतीति प्रमाणमाश्रित्य तथा हेतुरुभयत्र वर्तते स्वपक्षविपक्षयोः, प्रागेव
तत्करणसमर्थात् कारणात् पुनः स्वकालनियतकार्योत्पत्त्यविशेषेण संभवात् । न च ५ स्वकारणसत्तया कार्योत्पत्तिविरुध्येत यतोऽक्षणिक एव दोषः स्यात् निर्णीत 'तत्सूक्तमेतत् । ]
स्वलक्षणैकान्तस्य साधने सिद्धौ अङ्गीक्रियमाणायां सर्वो हेतुः सि द्ध से न स्य भगवतः असिद्धः । कथमिति चेत् ? उच्यते- बहिरिवेति (वाति) सूक्ष्मपरीक्षया अन्तरपि
सकलं प्रतिभासविकलमिति किं साधनज्ञानं यतो भाविनः प्राप्यस्य अनुमानादभ्यासे तत्र प्रवृत्तिः १. स्यात् ? किं वा पूर्वापरविविक्तमध्यदर्शनं यस्माद् *"यद् यथावभास" इत्यादि क्षणभङ्ग
साधनमवतिष्ठेत ? किं वा नीलाद्यवभासनं येन *"यदवभासते तज्ज्ञानम्" इत्यादि सिध्येत् ? एतेन सत्त्वादयोऽपि चिन्तिताः । अभावैकान्तवत् भावैकान्तेऽपि तस्य सर्वो हेतुः असिद्धः, अनुपलम्भेन तदभावात् [३२३ख सर्वसङ्कराच्च । परस्पराऽनात्मकभावाऽभावैकान्तसाधने तु
परस्य न अनन्तरपक्षाद् विशेषः, सर्वस्य सर्वात्मकत्वं प्रागभावा[धभावा]दिति । सम्बन्धाभावे १५ अन्यस्य च अन्येन समवायादिसम्बन्धनिषेधात् । न चैवं वादिनः प्रागभावादीनामन्योऽन्यम्
अन्यतो वा भेदः सिध्यति, अनवस्थाभयाद् अपरप्रागभावाद्यभावात् । ततः सूक्तम्-एकान्तसाधने हेतुरसिद्धः सि द्ध से न स्य इति ।
कश्चित् स्वयूथ्यः अत्राह- सि द्ध से ने न कचित्तस्य असिद्धस्याऽवचनादयुक्तमेतदिति; तेन कदाचिदेतत् श्रुतम् ?
*"जे सच्चपायवाय (संतवाय)दोसे सक्कोलूया भणंति संखाणं । संखा वि असव्वाए (असब्भावे) तेसिं सव्वेवि ते सव्वा (सच्चा) ॥"
[सन्मति० ३।५०] इति । अथातो रूपात् चित्रमेकं ज्ञानमिष्यते; तत्राह-विरुद्धोदे व न न्दि नः हेतुः एकान्तसाधने , क्रमेणेव [अ] क्रमेणापि चित्रकविरोधात् । तथा च कथञ्चिदेव क्षणिकत्वेन अव२५ भासनात् ततस्तथैव भावानां क्षणिकत्वसिद्धिः । एवं सत्त्वादयोऽपि भाव्याः ।
ननु यस्य वैशेषिकादेः निराकारज्ञानवादिनो नैकं ज्ञानं नीलादिनिर्भासैः चित्रं [तं] प्रति केन दृष्टान्तेन सर्वस्य अनेकान्तात्मकत्वं सिध्यति येन तदीयैकान्तसाधने विरुद्धो हेतुः स्यादिति चेत् ; न; तस्यापि प्रतिप्राणि त्रिकालविषयानेकव्याप्यव्यापकपदार्थग्रहणानेकशक्त्यात्मकैकमानसज्ञानसद्भावात् । इतरथा कुतो लिङ्गलिङ्गिनोः साकल्येन व्याप्तिग्रहो यतोऽनुमानम् ? न च यैव
(१) सिद्धसेनस्य । (२) नैयायिकस्य । (३) क्षणिकपक्षात् । (१) यान् सद्वाददोषान् शाक्यौलुक्या भणन्ति सांख्यानाम् । सांख्या अपि असद्वादे तेषां सर्वेऽपि ते सत्याः। (५) पूज्यपादस्य । (६) वैशेषिकस्यापि । (७) तथाभूतमानसशानाभावे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org