________________
४०३
६।२१ ]
एकान्तसाधने सत्त्वादयोऽसिद्धादयः धीश्च तस्याः चित्रं चित्रत्वं भावप्रधानत्वात् निर्देशस्य, तेन वा सन्ततिः तस्याः 'तत्त्वम् एकत्वं वेद । एतदुक्तं भवति-हेतुफलादीनामभावं वदता सरूपोऽसौ वक्तव्यः, अन्यत्र प्रमाणनिषेधात् , सोऽपि चित्रैकप्रतिभासात्मकः, अन्यथा 'सकलशून्यम्' इत्युक्तम् । तत्प्रतिभासोऽपि पूर्वापरक्षणैकत्वनान्तरीयक इति बहिः घटादौ न तत्त्वं वेद अयमपि सिद्धान्तविषमग्रहः उभयत्राविशेषादिति । शेषस्य पूर्वमेव गतत्वात् ।।
'अनर्थास्थिरधीचित्रसन्ततः तत्त्वं वेद बहिर्न' इत्येतद् व्यतिरेकमुखेन व्याख्यातुकाम आह-चित्र इत्यादि । चित्रपतङ्गस्य निर्भासः तदाकारं ज्ञानम् आदिर्यस्य चित्रास्तरणादिनिर्भासस्य प्रत्यक्षेतरादिनि सस्य वा स तथोक्तः, तत्र नैका[क]योगक्षेमत्वं योगः उत्पादः क्षेमः उत्पन्नस्य संरक्ष[ण]म् अनुभवन् (वन) यस्य, अस्थिरज्ञानपक्षे संरक्षणस्याभावात् । अथवा क्षेमो विनाशः, तत्र तच्छब्दस्य सङ्केतात् द्विष्टे भ्रद्रिकाशब्दवत् , एकम् अभिन्नं योग-१० क्षेमं यस्य तस्य भावः तत्त्वं प्रतिभासस्य चित्रपतङ्गबुद्धेः स्वभावभेदं न निराकरोति । कुतः ? इत्यत्राह-सन्तानकत्वप्रसङ्गात् इति । सन्तानानाम् एकत्वम् अभेदः तस्य प्रसङ्गात् । यदा हि एकं ज्ञानमुत्पद्यते वेद्यते वा तदा सन्तानान्तरज्ञानान्यपि; अन्यथैकज्ञानसन्तानमात्रं जगत् , तथा च सति सुगतज्ञानसन्तानान्त पर-(न्तान्नापर) मिति यदुक्तं केनचित् [३२३क]-*"स्वसंवेदनमेव एकं प्रत्यक्षं प्रमाणम् नापरम्, प्रपञ्चस्तु विनेयजनानुरोधात्" इत्यादि; तत्सर्वं १५ प्लवते; विनेयजनाभावात् । तस्माद् एकज्ञानोदयकाले अन्यज्ञानोदयोऽभ्युपगन्तव्य इति सन्तानानाम् एकयोगक्षेमत्वं स्वभावभेदं निराकुर्यादिति पुनरपि नानन्तरदोषः (ष) परिहारः। न चैवम् , अतः तत् स्वभावभेदनिराकरणे अकिञ्चित्करपि (मि)ति मन्यते ।
ननु त्रिपदंग (चित्रपतङ्ग)निर्भासादौ प्रतिभासस्य यद्यपि एकयोगक्षेमत्वं स्वभावभेदं न निराकरोति तथापि एकत्वं स्यादिति चेत् ; अत्राह-बहिरपि इत्यादि । न केवलम् अन्तः किन्तु २० बहिरपि स्वभावभेदादेव नान्यतः स्वलक्षणानां रूपादिपरमाणूनाम् एकस्वभावाऽनभ्युपगमात परेण, इति कारणात् तस्यास्तं तस्य निराकरोति इति । एतदुक्तं भवति-यथा स्वभावभेदात् नैकत्वं बहिःपरमाणूनां तथा अन्तरपि इति ।
*"किं स्यात् सा चित्रैकस्यां न स्यात्" [प्र. वा० २।२१०] इत्यादि वचनाददोषोऽयमिति चेत् ; अत्राह-[अ] सिद्ध इत्यादि ।
[असिद्धः सिद्ध से न स्य विरुद्धो दे व न न्दि नः। द्वेधा स म न्त भद्र स्य हेतुरेकान्तसाधने ॥२१॥
(१) "अलब्धधर्मानुवृत्तियोगः, लब्धधर्मानुवृत्तिः क्षेमः।"-प्र० वा. स्ववृ० टी० १।२४ । (२) दुष्टे । (३) अभिन्नयोगक्षेमत्वम् । (४) 'तस्यां मतावपि । यदीदं स्वयमर्थेभ्यो रोचते तत्र के वयम्' इति शेषः। (५) "असिद्धः "सत्त्वादिरचलात्मनि ।"-प्रमाणसं. पृ० ११४ । प्रकृतपाठः न्यायवि. वि. द्वि. पृ० १८१ । “असिद्धः विरुद्धो मल्लवादिनः ।..."-जैनतर्कवा० पृ० १०७ । स्या० रत्ना० पृ० १०३२।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org