________________
४०२
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः स्यात् । अयमभिप्रायः-वेद्यवेदकभ्रान्तिसंवेदनयोः एकान्तेन ऐक्ये संवेदनमेव भ्रान्तिमात्रमेव वा प्रमाणकं स्यात् । यदि वा, वेद्यवेदकयोः सर्वथा तादात्म्ये अन्यतरदेव स्यात् इति न चित्रमेकं ज्ञानम् , तथा नीलमात्रेऽपि, परीक्षायां नाप्यचित्रम् इति न किञ्चित् चित्रमचित्रं वा ज्ञानं स्यात् इति व्याख्येयम् । तथा भ्रान्तिसंवेदनयो तथा तत्त्वे' अन्यतरदेवेति [३२२ क] न ५ किञ्चिद् ग्राह्यमन्यद् भ्रान्तम् ।
तर्हि तेषां व्यतिरेक इति चेत् ; अत्राह-व्यतिरेके तद्भेदे 'संबन्ध' इत्यनुवर्तते, सन्तानान्तराणामिव तद्वत् तेषाम् अन्योऽन्यसंबन्धासिद्धेः कारणात् न किञ्चिज्ज्ञानं स्यात् , इति रिक्ता वाचोयुक्तिः-*"स्वरूपस्य स्वतो गतिः" [प्र० वा० ११६] इति न किञ्चिद् भ्रान्तं स्यात् इति ।*"प्रामाण्यं व्यवहारेण" [प्र० वा० १।७] इति च, भ्रान्तिविकल्पाभावे तदयोगात्। १० तर्हि बहिरिव अन्यत्रापि तत्त्वस्य विचार्यमाणस्याऽयोगात् साकल्येन शून्यता । तदुक्तम्-*"तदेतद्भुत तन्नूनमायातम्" [प्र० वा० २।२०९] इत्यादि इति चेत् ; अत्राह-न च नैव प्रतिपत्तु युक्तम् । । किम् ? नैरात्म्यं निःस्वभावत्वम् । केषाम् ? भावानाम् । कथम् ? इत्याह-साकल्येन सामस्त्येन पररूपेण इव स्वरूपेणापि । कुतः ? इत्याह-प्रमाणाभावात्
तन्नैरात्म्य इति विभक्तिपरिणामेन सम्बन्धः । अत्र दृष्टान्तमाह-प्रतिपक्षकान्ते इव तद्वदिति १५ भावैकान्तवदिति । तत्र प्रमाणोपगमे दूषणमाह-तत्प्रमाणेत्यादि । तस्य नैरात्म्यस्य तस्मिन्
वा यत् प्रमाणं तस्य उपगमविरोधात् । तथाहि-यदि साकल्येन भावानां नैरात्म्यं न तत् प्रमाणं 'विचारस्याप्ययोगात् । तच्चेदस्ति ; न तु नैरात्म्यम् ।
स्यान्मतम्-न कश्चित् सकलप्रतिभासवैकल्यं नैरात्म्यमाह-*"मायामरीचिप्रभृतिप्रतिभासवदसत्त्वेऽपि अदोषः" [प्र० वार्तिकाल० ३।२११] इति वचनात् , स्तम्भादिप्रतिभास२० मात्रस्य भ्रान्तस्य भावा[द्] विभ्रमेतररहितस्या (स्य) वेति ; तत्राह-मिथ्यकान्त इत्यादि ।
[ मिथ्यकान्तधियाऽनस्थिरधीचित्रसन्ततः ।
नो वेद बहिस्तत्त्वं कृतान्तविषमग्रहम् ॥२०॥ चित्रपतङ गनिर्भासादे कयोगक्षेमत्वं प्रतिभासस्य स्वभावभेदं न निराकरोति सन्तानैकत्वप्रसङगात् , बहिरपि स्वभावभेदादेव स्वलक्षणानामेकस्वभावानभ्युपगात् ।] २५ मिथ्या इति भावप्रधानोऽयं निर्देशः तेन मिथ्यात्वम् एकान्तो यस्या धियः तया
तत्त्वं स्वरूपं तस्या एव धियो मिथ्र्यकान्तत्वं वेद वेत्ति सौगत इति कृतान्तविषमग्रहम् 'विभ्रमाद् विभ्रमासिद्धेः' इत्युक्तत्वात् । तथा परमपि परस्य [३२२ ख] तद (द) ग्रहं दर्शयन्नाह-अनर्थ इत्यादि । न विद्यते अर्थो बहिः ग्राह्यो यस्याः सामर्थ्य (साऽना) स्वरूपालम्बना इत्यर्थः, न स्थिरा अस्थिरा क्षणिका इत्यर्थः, अनर्था च साऽस्थिरा च, सा च सा
(१) तादात्म्ये । (२) अन्तरपि । (३) “इदं वस्तुबलायातं यद्वदन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा ॥"-प्र० घा० । (४) प्रमाणात्मकविचारस्याप्यभावात् । (५) प्रमाणं चेदस्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org