________________
६।१९] हेतुभेदाः
४०१ तत्र यदुक्तं द्वितीयः पुनः अनेकान्तमन्तरेण नेति निश्चितमिति यदुक्तम्-यद्यनेकक्षणिकसूक्ष्मस्वभाववद् एकस्थिरस्थूलस्वभावा अपि प्रत्यक्षसिद्धा एकत्र स्युः, न चैवं विचारायोगात् , केवलम् अने (यत एव) कल्पिता तत्त (तत) एव भ्रान्ताः इति चेत् ; एतदेवोपदर्य दूषयन्नाह-प्रत्यक्षक इत्यादि । न भाव्यम् बहिरन्तरपि इति सम्बन्धः । कैः ? इत्याह-प्रत्यक्षकस्थिरस्थूल खभावैः। प्रत्यक्षविशेषणात् सांवृतैकस्थिरस्थूलस्वभावैः भाव्यम् इति गम्यते । इतरथा सामान्येन ५ एकादिग्रहणं क्रियेत । दूषणमाह-विलक्षणैः इत्यादि । विलक्षणः सर्वतो व्यावृत्तैरपि इति । अपि शब्दः अत्र द्रष्टव्यः, न भाव्यम् इति । किंभूतैः ? इत्यत्राह-अप्रमाऽऽदिभिः।न विद्यते प्रमा आदिशब्देन हेतुफलभावादिः येषां तैः इति । कुतः ? इत्यत्राह-एकान्तभ्रान्तस्वभावात् । एतदुक्तं भवति-यथा एकादिस्वभावा विशदतया अवभासमाना अपि कल्पिता इष्यन्ते तथा विलक्षणाश्च विशेषाभावादिष्यताम् ।
कारिकां विवरीतुमाह-स्वलक्षणानाम् इत्यादि । स्वलक्षणानां बाह्यविशेषाणां दृश्यैकस्थिरस्थूलस्वभावविरोधात् कारणात् बहिरर्थनिराकृतौ । तत्र हेत्वन्तरमाह-व्यतिरेके स्वलक्षणेभ्यः तत्स्वभावस्य भेदे अङ्गीक्रियमाणे वृत्ति विकल्प-अनवस्थादिदोपप्रसङ्गात् । च शब्दः अत्र द्रष्टव्यो हेतुसमुच्चयार्थः ।
ननु तत्स्वभावविरोधात् तदोषप्रसङ्गाच्च तत्स्वभावस्यैव बहिनिराकृतिरस्तु न स्वलक्षणाना- १५ वत् (णानां, तत्) कथम् अविशेषेणोच्यते 'बहिरर्थनिराकृतौ' इति ? एवं मन्यते-यथोक्तहेतुद्वयेन तत्स्वभावस्य [३२१ख] दृश्यस्यापि निराकृतौ अन्यत्र कः समाश्वासः ? एवमर्थं च पूर्वफक्किकायां दृश्यग्रहणम्, अतत्स्वभावलक्षणानाम् अनुपलम्भाश्च । तस्यां किम् ? इत्याह-विज्ञप्तेरपि । न केवलं बहिरर्थश्च (स्य) सर्वम् उक्तमनुक्तं च दूषणं समानं साधारणम् । तथा च निरूपित (त) निरूप्यते च वेद्य इत्यादिना । वेद्यश्च स्तम्भादिग्राह्याकारः वेदकश्च तद्ग्रहण-२० योग्यो ज्ञानाकारः तावेव भ्रान्तिः सा च संवेदनं च आदी येषां विकल्प्या(पा) विकल्प्या (पा)दीनां तेषाम् । यद्वा वेद्यशब्देन नीलादय आकारा उच्यन्ते, वेदकशब्देन तदाकारं तद्ग्राहकं ज्ञानम् । यच्चेदमुक्तम्
*"विषयाकारभेदाच अधिगमभेदानां (धियोऽधिगमभेदतः)। भांवादेवास्य तद्भावे स्वरूपस्य स्वतो गतिः॥" ।
[प्र० वा० ११६] इति । भ्रान्तिशब्देन ग्राह्यग्राहकसंवेदनभेदो बुद्धः गृह्यते *"मन्त्राद्युपप्लुताक्षाणाम्" [प्र. वा० २।३५५] इत्यादेः, *"अविभागोऽपि बुद्ध्यात्मा" [प्र० वा० २।३५४] इत्यादेश्च वचनात् संवेदनध्वनिना अद्वयं वेदनम् , एतेषां कृतद्वन्द्वानाम् आदिशब्देन विकल्पादिग्राहिणां बहुव्रीहि [:] कार्यः तेषाम् । किंभूतानाम् ? इत्याह-परस्पर इत्यादि । सर्वथा ३० सर्वप्रकारेण तादात्म्यस्य ऐक्यस्य वा अनेन असंभवात् कारणात् न किञ्चिद् भ्रान्तं ज्ञानं
(१) कल्पिता एव स्वीकर्तव्या इति भावः । (२) एकदेशेन वृत्तिः सर्वात्मना वा इत्यादयो वृत्तिविकल्पाः । (२) द्रष्टव्यम् पृ० ३८८ टि० ४ । (३) द्रष्टव्यम्-पृ. ३८८ टि० ५।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org