________________
६१८ ]
हेतुभेदाः
३९९
गौरवात्, प्रमाण संग्र हा त्' ज्ञेय: [ ३१९ ख] पण्डितैर्मानसाभिः (र्मानशालिभिः) ।
कारिकामाविष्कुर्वन्नाह - स्वभावोपलम्भ इत्यादि । स्वभावोपलम्भः, स्वभाव एव अनेकान्तभावस्वरूपमेया (रूपतया ) उपलभ्यते इति उपलम्भः स्वभावश्चासौ उपलम्भश्च इति व्युत्पत्तेः । यदि वा, तदुपलम्भे न स्वभावः सत्विति ( सन्निति) व्यवस्थाप्यत इति विषयी ( यि ) - शब्दस्य विषय उपचारो पवृत्तेः (चारोपपत्तेः) तदुपलम्भस्वभाव इत्युच्यते । ततः किं क्रियते ? ५ इत्याह- ततः स्वभावाद् व्यवहारोऽनेकान्तविषयः सदिति ज्ञानादिः साध्यः ।
ननु स्वभावोपलम्भे सोऽपि सिद्ध एवेति कथं साध्य इति चेत् ? अत्राह तत्र इत्यादि । तत्र अनेकान्ते विषयस्य तदुपलम्भस्य प्रतिपत्तौ सत्यां अप्रतिपन्नो विषयी येन तस्य सौगतादेः दर्शनात् [तदुप]लम्भरूपोऽनुपलम्भोऽविकल्पः ततः तत्प्रतिपत्तावपि विषयिणोऽप्रतिपत्तिः युक्ता, न भवतोऽनेकान्तोपलम्भस्य व्यवसायरूपत्वात् । न च अतः परो व्यवहारः १० यस्ततः साध्यः इति चेत्; उक्तमत्र तत्र इत्यादि । दृश्यते हि अनेकान्तोपलम्भवतोऽपि विप - रीतारोपः । न च दृष्टेऽनुपपन्नं नाम । अत एव उक्तं 'दर्शनात्' इति । न च भूतलदर्शनमविकरूपकम् इत्युक्तं प्रथमपरिच्छेदे इति यत्किञ्चिदेतत् ।
ततः किं जातम् ? इत्याह- तन्नैतत्सारम् इत्यादि । यत एवं तत् तस्मात् एतत् [ किम्] इत्यत्राह–कार्येत्यादि । अनुपलम्भः, पुनः इति पक्षान्तरद्योतने व्यतिरेकतद्द्व्यवहारसाधनो १५ भावाभावव्यवहारयोः साधन इति स्वभावोपलम्भः इत्यादिरपि व्यवहारणो वा (रेणैव ) साधनवादिति मन्यते ।
प्रकृतं निगमयन्नाह–तद्वयम् (तदयम् ) इत्यादि । यत एवं तत् तस्मात् अयम् एकान्तवादी सौगतादिः अनेकान्तं [ ३२०क] पश्यन्नेव । क ? इत्याह - बहिरन्तश्च । स किम् ? इत्याहतत्त्वस्य अनेकान्त-जीवादेर्या दृष्टिः तस्याः पराङ्मुखो विमुखः तत्त्वं पश्यन्नपि न पश्यामि २० इति मन्यते इति भावः । कुतः ? इत्याह- समयावष्टम्भात् स्वागमाग्रहग्रहावेशात् अन्यतो वा पूर्वक नर्म ( पूर्वकर्मतः) । स किं क्रियते ? इत्यादि यमोऽर्थन्यवहारमवतापि त ( इत्याह तद्व्यवहारमर्थव्यवहारमवतार्यते ) कैः ? इत्याह - तर्कप्रयोगैः तर्कमूलैः साधनवाक्यैः ता (तमेव ) दर्शयन्नाह - सत्त्व [इ] त्यादि । [ आदि ]शब्देन स्वपरसमयप्रसिद्धनिखिलहेतुपरिग्रहः । अनेन 'ज्ञानतर्कप्रयोगतः' इति व्याख्यातम् । अधुना तद्विरुद्धाद्यज्ञानतर्कप्रयोग इति (तद्विरु- २५ द्धादि ) व्याख्यातुमाह - स्वभाव इत्यादि । स्वभावोऽनेकान्तस्वरूपं तद्विरुद्धो नित्याद्ये कान्तः उपलक्ष्य [ते, उपलक्षण] मेतत् तेन नत्कुर्यादि (तत्कार्यादि) परिग्रहः । तस्या अनुपलब्धेः तथैव तेनैव प्रकारेण भावः अनेकान्तात्मक इव (एव) इति सम्बन्धः । असिद्धो हेतुः इति चेत्; अत्राह - बहिरपि एकान्तानुपलब्धेः इति । चिन्तितमेतत् ।
ननु तदनुपलब्धिश्च स्यात् नापि भावोऽनेकान्तात्मको विरोधाभावात् [ इति] सन्दिग्ध: ३० (१) एतन्नामकात् ग्रन्थात् । द्रष्टव्यम् प्रमाणसं० पृ० १०४ । (२) एकान्तानुपलब्धिश्च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org