________________
३९८
सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः मानशरीरं तदद्वैतम् स्तम्भादि किं भविष्यति ? [भविष्यति] चेत् ; स्वतोऽस्या'वभासनोत व (ने तद) योगात् , स्वसंवेदनविभ्रमप्राप्तः । अन्यतः चेत् ; सिद्धं नः समीहितम् । एकान्तमपि संपश्यन्ति भवन्त इति चेत् ; अत्राह-न पुनः इत्यादि ।
तदेवं बहिरन्तश्च अनेकान्ते [३१९ क] सिद्धे यत् प्राप्तं तदर्शयन्नाह- स्वभावो ५ व्यवहारोऽपि (रेऽपि) इत्यादि ।
[स्वभावो व्यवहारेऽपि हेतुस्तत्त्वप्रवर्तनात् । संपश्यतामनेकान्तं तन्मिथ्याभिनिवेशिनाम् ॥१८॥
तत्तद्विरुद्धादिशब्दज्ञानतर्कप्रयोगतः।।
स्वभावोपलम्भः भावस्वभाव एव । ततः व्यवहारोज्नेकान्तविषयः साध्यः । तत्र १. विषयप्रतिपत्तौ अप्रतिपन्नविषयिणो दर्शनात् न युक्ता । तन्नैतत्सारं कार्येत्यादि ।
अनुपलम्भः पुनः व्यतिरेकव्यवहारसाधनः । तदयं बहिरन्तश्चानेकान्तं पश्यन्नेव तत्त्वदृष्टिपराङ्मुखः समयावष्टम्भादन्यतो वा तकप्रयोगैस्तद्व्यवहारमवतायते । सत्त्वाद्यनुपलब्धेः तथैव भावः अनेकान्तात्मक एव । बहिरपि एकान्तानुपलब्धेः, अन्यथाऽ
नुपपत्तेः ।। १५ भिन्नप्रक्रमोऽपिशब्दः स्वभाव इत्यस्यानन्तरं द्रष्टव्यः । ततो न केवलम् अलंभः
(उपलम्भः) अपि तु स्वभावोऽपि अनेकान्तोपलम्भोऽपि हेतुः लिङ्गम् । क ? इत्यत्राह-व्यवहारे, प्रक्रमाद् 'अनेकान्तस्य' इति गम्यते । ननु तदुपलम्भादेव साक्षाद् अनेकान्तसिद्धः कुतोऽसौ हेतुः ? इत्यत्राह-तत्त्वे अनेकान्तस्वरूपे प्रवर्त्तनाद्अन्तर्भूतणिजों या (ऽयं) द्रष्टव्यः ।
केषाम् ? इत्याह-संपश्यताम् । अपिशब्दोऽत्रापि द्रष्टव्यः। किम् ? इत्याह-अनेकान्तं २० तन्मिथ्याभिनिवेशिनाम् । तस्मिन् अनेकान्ते मिथ्या योऽभिनिवेशः एकान्ताभिनिवेशः तद्वतां तन्निरासार्थम् इत्यर्थः । एतदुक्तं भवति-यथा स्वभावहेतुरपि अनुपलम्भः साध्या(ध्य)भेदाद् भिन्ने (न्न) उच्यते तथाऽर्य (तथाऽयं) स्वभावोपलम्भोऽपि कार्यव्याप्यस्वभावाभ्यां भिन्न इति *"त्रीण्येव लिङ्गानि" [न्यायबि० २।११] इति व्याहन्यते, इति प्रज्ञा
क र प्रयुक्तस्य हेतोः पक्षस्य च स्वयं तेन दर्शितो बाधः । २५ बोध्ये निरंशैकान्तसाधने कथं तत्र स हेतुः इत्य था (इत्यत्राह-)तत् तद्विरुद्ध इत्यादि।
तच्छब्देन अनेकान्तं (न्तः)परामृश्यते, तद्विरुद्ध इत्यनेन वा (च) अनेकान्तः (न्त) विरुद्धो नित्याद्यकान्तः तौ आदी येषां ते तथोक्ताः । आदिशब्दः प्रत्येकमभिसम्बध्यते-तदादयः तद्विरुद्धादय इति । तत्र आद्येन आदिशब्देन अनेकान्तकारणकार्यसहचा (च)रादीनां ग्रहणात् , द्वितीयेन
एकान्तकारणादीनाम् , तेषां यथासंख्येन [शब्दश्च] ज्ञानं च तयोः तर्केण विपक्षे सद्भाव३० बाधको (क)हेतुप्रयोगतः प्रयोगेण तत्प्रतिपादकवाक्योच्चारणेन । उदारप्रपञ्चस्तु नेहोक्तो ग्रन्थ
(१) स्तम्भादेः । (२) स्तम्भादित्वायोगात्, स्वसंवेदनरूपताप्राप्तेरित्यर्थः। (३) प्रतिभासते स्तम्भादिकम्, तदा । (१) "त्रिरूपाणि च त्रीण्येव लिङ्गानि"-न्यायबि० ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org