________________
हेतुमेवाः
३९७
६।१७ ]
नास्माकं प्रतिभासाद्वैतवादिनां तन्मुद्राभेदो दोषाय सूत्वाद् (सूक्तत्वात् ) इत्यपरे । सत्राह-किंचिद् (किन्तु) इति । किन्तु अपि तु समस्तप्रमाणप्रमेयव्यवस्थामपि 'भिनत्ति' इत्यनुवर्त्तते । अनुमानाभावे 'तदयोगात् , इतरथा *"प्रमाणेतरसामान्यस्थितः" इत्यादिकमनर्थकम् अन्यत् सर्वम् ।
तव्यवस्थाभेदेऽपि प्रत्यक्ष [:] प्रमाणप्रमेयव्यवस्थाभेद इति चेत् ; अत्राह-प्रत्यक्ष । ५ इत्यादि ।
[प्रत्यक्षमेकान्तेन स्वलक्षणविलक्षणम् ।
मिथ्यानुमाऽसदों स्व-लक्षणं मुख्यलक्षणम् ॥१७॥ विशद 'कालान्तर तथा संवित्तिं ग्राह्यग्राहकविकल्पविभ्रमात्मिका संपश्यामो न पुनरेकान्तम् ।]
तस्य हि लक्षणं देशान्तरादिव्याप्त्या विधातव्यम् । न च स्वसंवेदनव्यक्तिभिः स्वयमलक्षिताभिः तच्छक्यमिति तात्पर्यम् । युक्तमेतत्-यदि साकल्येन चतुर्विधप्रत्यक्षलक्षणमुच्येत, न चैवम् तदभावात् , विपर्ययात् स्वसंवेदनस्यैवोच्यते [३१८ ख] तत् प्रत्यक्षसिद्धमिति चेत् ; अत्राह-प्रत्यक्षम् इत्यादि । प्रत्यक्षं स्वसंवेदनाख्यम् अन्यद्वा । किंभूतम् ? इत्याह-सुगतस्य सम्बन्धि यद् एकान्तेन असाधारणत्वेन एकेन असहायेन अन्तेन धर्मिना (धर्मेण) उपलक्षितं १५ स्वलक्षणं तेन विलक्षणं विसदृशं न तदाकारं ततो विमुखं वा । अनुमितेः तत्सिद्धिरिति चेत् ; अत्राह-मिथ्या विसंवादिनी अनुमा । कुतः ? इत्यत्राह-असदा निर्विषया निष्प्रयोजना वा, प्रतिभासाद्वैतस्य स्वतःसिद्धरभ्युपगमात् । यद्वा असन्नों हेतुलक्षणप्रमाश्च भावेन यस्या इति । ततः किम् ? इत्याह-स्वलक्षणं परकीयं मुख्यलक्षणम्, अनेन स्वलक्षणशब्दनिरुक्तं (क्ति) करोति ।
कुतः पुनः प्रत्यक्षं तद्विलक्षणम् १ इत्यत्राह-विशद इत्यादि । यथैव च युगपद् एकस्य स्थवीयसो ग्रहणसंभवः तथा कालान्तरस्थायिनोऽपीति ; अत्राह-कालान्तर इत्यादि । अनेन तदप्रत्यक्षत्वा (त्व)साधने विरुद्धोपलब्धि दर्शयति ।
यद्यकस्मिन् तदद्वैतवाञ्छा तेऽत्र स्थवीयसि ।
पूर्वोत्तरानुगभागे मुक्त एवासि सर्वथा ॥ इति मन्यते । यदि पुनः ततो भिन्नं तद्वैतम् ; तत्राह-यथासंवित्तिम् इत्यादि । तथा संवित्तिं संपश्यामः ग्राह्यग्राहकावेव विकल्पौ भेदौ ताभ्यां विभ्रमात्मिकाम् । एवं मन्यते-यदि स्तम्भादिव्यतिरिच्य
(१) प्रमाणप्रमेयव्यवस्थाऽयोगात् । (२) यदा हि प्रमाणप्रमाणाभासयोः सामान्या स्थितिर्भवति तदा इदं प्रमाणम् इदन्चाप्रमाणमिति विभागः अविसंवादिहेतुमूलकेन अनुमानेनैव भवति । (३) 'अन्यधियो गतेः । प्रमाणान्तरसङ्गापः प्रतिषेधाच कस्यचित्' इति शेषः । श्लोकोऽयं 'धर्मकीतिरप्येतदाह' इति करवा उद्धतः प्रमाणमीमांसायाम् (पृ.८) उद्धतश्च प्रमाणप० (पृ. ६४) प्रमेयक. (पृ० १८०) स्या. रत्ना० (पृ० २६१) इत्यादिषु । (४) प्रत्यक्षस्य । (५) स्वसंवेदनम् । (६) स्वलक्षणविलक्षणम् ।
२.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org