________________
३१६
सिद्धिविनिश्चयटोकायाम् [६ हेतुलक्षणसिसिः इत्यत्राह-कृत्तिका इत्यादि ।
__ यदि वा, तत्प्रमाणम् । कुतः ? इत्यत्राह-[३१७ख कृतात्यादि (कृत्तिकेत्यादि)। ननु तदन्यथानुपपत्तिः कुतोऽवगम्यते ? विवक्षितशकटोदयाभावे अदर्शनादिति चेत् ; तन्म; सर्वदर्शिनोऽदर्शनं सर्वत्र अर्थाभावं गमयति, नान्यस्य'व्यभिचारात् । एकदा तदा (तथा) दृष्टानां सकषायधात्री५ फलानां पुनरन्यथापि दर्शनात् । नाऽयं सौगतपक्षे दोषः तँदवगमनिमित्तस्य तादात्म्यादिप्रतिबन्धस्य भावादिति चेत् ; नैतत्सारम् ; यतो यथैव बहुलं शिंशपायाः वृक्षस्वभावदर्शनात् ['तदविना] भूतं सर्वत्र सर्वदा वृक्षस्वभावस्य' इति गम्यते अन्यथा सकृदपि तत्स्वभावा न भवेत् , तथा कृत्तिकोदयः बहुलं [शकटोदया] विनाभाविस्वभावः प्रतीयमानः सर्वत्र सर्वदा तत्स्वभावः,
अन्यथा सकृतदपिस्व (सकृदपि तस्य) तत्स्वभावताऽयोगादिति गम्यते । अत्र अदृष्टव्यभिचाराशङ्का १० न शिंशपायामिति किंकृतो विवेकः ? यथा च वृक्षाभावेऽपि तद्भावो (वे) निःस्वभावता तस्याः
तथा कृत्तिकोदयस्य तदविनाभाविस्वभावविरहे तत्वस्थैव निःस्वभावता। न चेदमत्र चोद्यम्'तत्स्वभावता तस्य कुतः' इति; शिंशपायामपि तुल्यत्वात् । न तुल्यम् ; तस्याः स्वकरणात् (स्वकारणात्) । अत्रापि इदमेव उत्तरमस्तु । तँदनुमानप्रसङ्गश्चेत् ; शिंशपायामपि इति ।
स्वभावहेतवे दत्तः सांप्रतं किं जलाञ्जलिः । १५ येनैर्ष (वं) सौगते (तो) ब्रूते नो चेत् लिङ्गान्तरं न वित् (किं) ॥
अत्रैव दूषणान्तरं दर्शयन्नाह-प्रमाण इत्यादि । एवं मन्यते-अस्य अनुमाने अन्तर्भावात्तु , 'द्वे प्रमाणे' इति प्रमाणसंख्या प्रतिबन्धपरिसंख्याघातिनी[व] द्विविध एव प्रतिबन्ध इति तत्परिसंख्या प्रमाण [३१८क] परिसंख्याघातिनी लक्ष्यते । 'इव' शब्देन अनादरं दर्शयति ।
कुतः ? इत्यत्राह-ज्योतिषां ग्रहादीनां यौ अनागतोदयास्तमयौ तौ आदी यस्य तत्फलस्य २० तस्य ज्ञानम् उक्तप्रतिबन्धाद् अनुमानमनिच्छतः प्रमाणान्तरप्रसङ्गात् । उपलक्षणमेतत्-तेन इच्छतः "प्रतिबन्धान्तरप्रसङ्गादिति गम्यते ।
पुनरपि तद्दर्शयन्नाह-तादात्म्येन इत्यदि । कुतश्चित् लिङ्गात् अतीतैककालानां गतिः] नानागतानाम् । कुतः ? व्यभिचारात्, इत्येवं न केवलम् अनुमानमुद्रां भिनत्ति ।
किं कुर्वन् ? प्रतिक्षिपन् । काम् ? व्याप्तिमेव "तद्ग्राहकप्रमाणाभावादिति भावः । तथाहि२५ तत्प्रतिबन्धनियमसमये बुद्धेः नाऽकारणम् अर्थो विषयः' न च साकल्पव्याप्तिविष यायाः
तस्याः सर्वम् अतीतं वर्तमानमभागतं च कारणम् ; अनन्तरातीतस्यैव सर्वत्र कारणत्वोपगमात् , इतरथा "तत् स्वान्यकार्यदेशादिसङ्गता(त") कुर्यादिति ।
(१) न चानुमाता सर्वदर्शी विद्यते, अनुमानवैफल्यात् । (२) देशान्तरे कालान्तरे द्रव्यान्सरसम्बन्धेच मधुराणामपि दर्शनात् । (३) अविनाभावावगम । (४) आदिपदेन तदुत्पत्तिाधा । (५) वृक्षस्वभावा । (६) शिंशपायाः। (७) तत्स्वभावाया एवं उत्पनत्वात् इति सम्बन्धः। (७) कारणानुमान समः। (१) शकटोदयाचमुमानं स्वीकुर्वतः। (१०) तादात्म्य-तदुत्पत्तिव्यतिरिक्तपूर्वोत्तरवरस्वरूप-अधिकाभाषस्वीकारापत्तेः । (11) व्यातिप्राहक। (१२) इति नियमानुसारेण । (१३) बुद्धः। (१४) कारणम् । (१५) अन्यदेशे अन्यकाले च कार्य कुर्यादितिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org