________________
६।१६]
हेतुभेदार मानम् इत्यपरे । तेषां स्वग्रन्थे 'श्व आदित्य उदेता अद्य तद्व इन्द्रियात् (तदुदयात)' इत्यनुमाननिषेधं (ध) कथा प्रमाणानाम् अयुक्तम् (क्ता) । उभयोः अनभ्युपगमे कथमनाभावि (नागामि)निवृत्तिः ऐकान्तिकी स्यात् ? पूर्वभावित्वे च कार्यस्य सुगतस्य सुगतत्वा प्रोक्तनीया दसासर्वा (सुगतत्वात् प्राक्तनी या दशा सा सर्वा) कार्यभूता उत्तरा कारणरूपा ततः तदर्थं प्रवृत्तः । तथा च *"अत्र भगवतो हेतुफलसंपत्त्या प्रमाणभूतत्वं(त्वे)न स्तोत्राभिधानम्, तत्र हेतुः ५ आशयप्रयो• सम्पत् सांव्यवहारिकप्रमाणापेक्षया, आशयो जगद्धितैषिता, प्रयोगो जगछन्नाछामृत्वं (जगच्छासनात् शास्तृत्व) फलं स्वपयत् स्वार्थसंपत् (स्वार्थसम्पत् ) सुगतत्वेन" [प्र० समु० वृ० १।१] इत्यादि सर्वमयुक्तम् ; संव्यवहारापेक्षयैवं [३१७ क] व्याख्याने 'अग्निः कारणं दाहाद्यर्थक्रिया तत्फलम्' इत्यनभ्यासे अग्निकारणलिङ्गदर्शनात् तत्फले प्रवृत्तिः इति प्रसक्तम् , तथापि तक्रिया[या] एव कारणत्वे वल्लीदाहः(हे) फलपर्णकौघः १० कारणम् , अतः तदाहानुमानं कारणात कार्यानुमानम् । कथमेवं सुगतत्वं तायित्वं व (च) हेतुः आशयप्रयोग [:] तत्फलं न स्यादिति तदवस्थः पूर्वो व्याघातः स्यादिति चेत् ; कुत एतत् ? सुगतत्वाभावे आश्रय (आशय) प्रयोगसंपदोऽप्य [भावात् , तद]भावे न सुगतत्वम् । अन्यत्रा (थाs) हेतुत्वम् । अन्योऽन्यहेतुकत्वे वा अन्ये [अन्योऽन्य]समाश्रयान्नैकतरस्यापि सिद्धिः । संव्यवहाराश्रयात् सर्वत्र हेतुफलभावम् अन्योश्रयदोषइष्टमध्यभी (अन्योऽन्याश्रयदोषदुष्टमप्यभी)- १५ ष्टमिच्छति न पुनः अकारणभूतात् कृत्तिकोदयाद् अन्यथानुपपन्नात् तदोषपरिवर्जितात् शकटोदयानुमानमिति सत्यं परो गुप्तप्रज्ञः (ज्ञ एव) । एतेन अरिष्टादेः मरणाद्यनुमानं चर्वितं (त)चर्वितम् ।
कारिकार्थ व्याचष्टे-प्रतिबन्ध इत्यादिना। प्रतिबन्धस्य अविनाभावस्य परिसंख्यायां तादात्म्यतदुत्पत्तिरूप एव नान्यः प्रतिबन्ध इति परिगणने क्रियमाणे उदेष्यति शकटं कृत्तिकोदयात् इति किं प्रमाणम् ? इति पृच्छति । न प्रत्यक्षम् ; लिङ्गाश्रयणात् । ना[नुमा]नम् ; २० परप्रतिबन्धमन्तरेण भावात् । प्रमाणान्तरं स्यादिति भावः । यद्वा परस्य किं नैव प्रमाणम् इति व्याख्येयम् । व्यभिचा[स]न्न प्रमाणमिति चेत् [अत्राह-] न चात्र इत्यादि । देशकालाकारविपर्ययग्रहणलक्षणानां व्यभिचाराणां मध्ये नैकोऽप्यस्ति इति कश्चिद् ग्रहणम् । कुत एतत् ?
(१) भाधिकारणवादिनः प्रज्ञाकरगुप्ताः । (२) तुलना-"तेन यदुच्यते भट्टेन-यः सवित्रुदयो भावी न तेनाद्योदयोऽन्वितः । अथ चायोदयात् सोऽपि भविता इवोऽनुमीयते ॥."तदपास्तम्,यतश्च यथोपवर्णितः साध्यान्वयो हेतुर्विद्यते ।"-प्र. वा. स्ववृ०टी० पृ. १०। “यच्चायोदयात् श्वः सूर्योदयाद्यनुमानं न तदनुमानं नियामकलिङ्गाभावात्, अद्य गर्दभदर्शनात् ३वः सूर्योदयानुमानवत् ।"-प्र. वा० स्ववृ. टी. पृ० ४९ । (३) "श्व आदित्य उदेतेति ग्रहणं वा भविष्यति"-लघी० श्लो० १४ । (४) "शास्त्रादौ शास्त्रार्थत्वात् । भगवानेव हि प्रमाणभूतोऽस्मिन् प्रसाध्यते ।"-प्र. वार्तिकाल० पृ० १। (५) "अन्न च भगवतो हेतुफलसम्पत्या प्रमाणभूतत्वेन स्तोत्राभिधानं प्रकरणादौ प्रसादजननार्थम् । तत्र हेतुराशयप्रयोगसम्पत्, आशयो जगद्धितैषिता, प्रयोगो जगच्छासनात् शास्तृत्वम्, फलं स्वार्थसम्पत् । स्वार्थसम्पत् सुगतत्वेन त्रिविधमर्थमुपादाय । प्रशास्तार्थ सुरूपवत् । अपुनरावृत्त्यर्थ सुनष्टज्वरवत्, निःशेषार्थ सुपूर्णघटवत्"."-प्र० समु० वृ० ज० ११ । (६) सुगतत्वाभावेऽपि तत्सद्भावात् । (७) आशयप्रयोगसम्पदभावे । (6) प्रज्ञाकरगुप्तः नष्टप्रज्ञः इत्यर्थः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org