SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ३९४ सिद्धिविनिश्चयटीकायाम् [६ हेतुलक्षणसिद्धिः दुःखं यथा भवति तथा 'जीवति' इत्यनुसन्धिः, वत इति विषादे । अयं सौगतः तपस्वी वराकः । किं कुर्वन् ? इत्याह-लोक इत्यादि । कुतः ? इत्याह-तस्य सौगतस्य सपादोदरसि र स्तानं (स्वोरस्ताड) क्रियाविशेषणमेतत् । क्रन्दतोऽपि रुदतोऽपि लोकस्य अनिवृत्त अन्यथानुपपत्त्या प्रवृत्ताद् व्यवहारात् इति सम्बन्धः । ____ अत्रैव उदाहरणान्तरं दर्शयन्नाह-तथैव इत्यादि । तथैव ज्योतिषां मध्ये उदिताज्ज्योतिषोऽनुमा । उदेष्यति कुतो हेतोः कृत्तिकादेः भवेदिति ॥१६॥ प्रतिबन्धपरिसंख्यायाम् 'उदेष्यति शकटं कृत्तिकोदयादिति किं प्रमाणम् ? न चात्र कश्चिद् व्यभिचारोऽस्ति । नो चेत् ; प्रमाणसंख्या प्रतिबन्धपरिसंख्याघातिनीव लक्ष्यते। १० ज्योतिषामनागतोदयास्तमयादिफलज्ञानमनुमानमनिच्छतः प्रमाणान्तरप्रसङ्गात् । तादा त्म्येन कुतश्चित् *"अतीतैककालानां गतिर्नानागतानां व्यभिचारात्" [प्र० वा० स्ववृ० पृ० ४९] इति व्याप्तिमेव प्रतिक्षिपन् न केवलमनुमानमुद्रां भिनत्ति किन्तु समस्तप्रमाणप्रमेयव्यवस्थामपि ।] यथैव अन्यथानुपपत्तेः नामोन्नामयोः एकतरदर्शनाद् अन्यतरानुमानं वृक्षादेः छाया१५ धनुमानं तथैव तेनैव प्रकारेण अनुमा 'भवेत्' इति सम्बन्धः । कुतः क ? इत्याह-ज्योतिषां मध्ये उदिताद्यो (ज्योतिषः कृत्तिकादेः हेतोः लिङ्गाद् उदेष्यति [३१६ ख] ज्योतिषि शकटादौ इति भवन् शेष्यते (न चेष्यते) सौगतैः इति चेत् ; अत्राह-कतो नैव भवेत् ? *"अतीतैककालानां गतिः" [प्र०वा० स्ववृ० पृ० ४९] प्रतिपत्तिः नो चेत् ; न यदि भविष्यतां व्यभिचारादिति व्यवहारानुसारिणोऽपि तद्व्यवहारविलोपः। २०... न कृत्तिकोदयात् भविष्यच्छकटाद्यनुमानम् अपि तु द्वयोः कारणभूतयोः सामग्र्या इत्येके । तेषां तयोः यौगपद्यम् , इतरथा रसादीनामपि तु न स्यादिति निरर्थकम्- *"अतीतैककालानां गतिः" [प्र० वा० स्ववृ०] इति । किञ्च, एकसामग्यधीनत्वेऽपि तयोरयौगपये मानसाध्यक्षविषय इन्द्रियज्ञानसहकारीन स्यात् । २५ ननु कथञ्चित् सामग्रीस्वभावानुमानेऽपि न भाविशकटोदयात् (नु)मानम् *"अती तैककालानां गतिः" [प्र. वा० स्ववृ०] इत्यस्य विरोधा वे विदं (धादिति चेत् ; इदं) स एव जानाति य एवं वदन्ति (ति)। साध्यपि (भाव्यपि) कारणम् , कृत्तिकोदयात् शकटोदयस्य करणस्य (कारणस्य) अनु (१) तुलना-"भविष्यत्प्रतिपद्येत शकटं कृत्तिकोदयात् । ३व आदित्य उदेतेति ग्रहणं वा भविष्यति ॥ तदेतत् भविष्यद्विषयमविसंवादकं ज्ञान प्रतिबन्धसंख्या प्रमाणसंख्यां च प्रतिरुणद्धि ।"-लघी. स्व० श्लो० १४ । (२) कृत्तिकोदय-शकटोदययोः । (३) इन्द्रियज्ञानविषयस्य अनन्तरो विषयः इन्द्रियज्ञानस्य सहकारी भवन् मनोविज्ञानमुत्पादयति, तन्न स्यादिति भावः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004039
Book TitleSiddhi Vinischay Tika Part 02
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1959
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy