________________
६।१५]
हेतुभेदाः तुलान्तयो मोन्नामयोरेकतरस्य दर्शनादन्यतरस्यानुमानम्, 'वृक्षादेः छायाधनुमानं कार्यलिङ्गं संभावयन् स्वभावहेतुमुपरुणद्धि । शक्यं हि वक्तुम्-भावः सत् कृतकं का वस्तु जनयन् अनश्वरमेवं जनयति । अतः स्वकारणस्वभावानुमानात् कारणात्मनः प्रतिपत्तिरिति दुःखं वतायं तपस्वी, तस्य स्वोरस्ताडं क्रन्द्रतोऽपि लोकानिवृत्तः।।
तुलान्तयोः नामोन्नामौ परस्पराविनाभूतौ 'अनुमीयेते' इत्यध्याहारः । उन्नामा- ५ विनाभावी नामस्तदविनाभावी चोन्नामः 'अन्यथानुपपत्तेः' इत्यनुवर्तते । स्थाल्यादौ आदिशब्देन जले चन्द्रादिग्रहणम् , सति द्रव्यमेघादौ 'अनुमीयते' इत्युपस्कारः । अत्रापि 'अन्यथानुपपत्तेः' [३१५ख] इत्यनेन घटना । अथ पूर्वम् , एतच्च पूर्वसामग्रीकार्यमिति, अतः सैवाऽनुमीयते; इत्यत्राह-ईदृग् इत्यादि । कार्यम् इदृग् लिङ्ग चेद् यदि [इ]ति किं पुनर्न कार्यम् सत्यादिकमपि कार्यमेव स्यादिति । ___ 'ईग्' इत्यादि भागं विवृण्वन्नाह-तुलान्तयोः इत्यादि । तुलान्तयोः यौ नामोन्नामौ तयोः एकतरस्य नामस्य उन्नामस्य वा दर्शनाद् अन्यतरस्य उन्नामस्य नामस्य वा अनुमानम् तथा वृक्षादेः 'सकापा (सकाशात् छाया)धनुमानम् अथवा वृक्षा:(क्षादेः) सम्बन्धि छायादिना अनुमानम् कार्यलिङ्गं संभवं भवन् (संभावयन्) सौगतः स्वभावहेतुम् उपरुणद्धि निराकरोति, कार्य हेतुं तं ब्रूयात् । एतदेव दर्शयन्नाह-शक्यं हि इत्यादि । [शक्य हि १५ वक्तुम् ] भावं (वः) सत् तत् कृतकं वा अपेक्षितपरव्यापार वा वस्तु जनयतु यन्] स्वरमेवां [अनश्वरमेव नित्यरूपमेव जनयति घटादौ तथा दर्शनात् इति मन्यते । ततः किम् ? इत्याह[य] तः कारणाद् अतो वा लिङ्गात् स्वकारणस्वभावानुमानाद्भावस्य कृतकस्य वा यत् कारण तस्य यः स्वभावो नश्वरश्च कार्यजननरूपः तस्य अनुमानात् कारणात्मनः कृतकस्य वा प्रतिपत्तिः इति न साक्षात् तत्कालभाविना ता न (तन्न) श्वरत्वमनुमीयत इति भावः । अथ २० यदा अतः स्वकारणस्वभावानुमितिः तदा कार्य सत्त्वादि, यदा तु स्वभावभूतं नश्वरत्वं तदा स्वभाव इति चेत् ; तर्हि यदा रसादेः स्वभावानुमानं तदा कार्यत्वं यदा तु समानकालरूपाद्यनुमानं तदा [३१६ क] लिङ्गान्तरत्वम् । प्रकृते तादात्म्यसम्बन्धो नात्रेति चेत् ; अत्रापि योग्यता इति समानम् । यथैव वा अर्थान्तरयोः अकार्यकारणयोः क्वचित् कदाचित् सहदर्शन(न)भावेऽपि पुनः एकाभावेऽपि तददर्शनात् सर्वत्रानाश्वासः तथा अनर्थान्तरयोरपि कचित्तादात्म्यदर्शनेऽपि २५ तदन्यथादर्शनात् , यथा वृक्षत्वाभावेऽपि चूतत्वस्य इति सर्वत्र अनाश्वासः । एवं परीक्षणे लोकस्य व्यवहारविलोपः । न चायं पक्षः क्षमो भवता तदङ्गीकरणात्, सौगतस्य कथं क्षमः तेनापि अयमङ्गीकृतः ? प्रागद्वैतावतारात् लोकात् तादात्म्यादिप्रतिबन्धसिद्धिवत् सहभाविनां रूपादीनाम् अन्यथानुपपत्तिप्रतिबन्धसिद्धिरपि अस्तु विशेषाभावादे (वात् । एतदे) वाह-दुःखम् इत्यादिना।
(१) तुलना-"न हि वृक्षादिः छायादेः स्वभावः कार्य वा । न चात्र विसंवादोऽस्ति । चन्द्रादेर्जलचन्द्रादि प्रतिपत्तिस्तथानुमा। न हि जलचन्द्रादेः चन्द्रादिः स्वभावः कार्य वा।"-धी. स्व० श्लो. १२-१३ । (२) "अपेक्षितपरब्यापारी हि भावः स्वभावनिष्पत्तौ कृतक इति ।"-न्यायबि० ॥१३ । (३)
आम्रलतासंभवात् ।
५०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org