________________
९१४३]
स्फोटविचारः यत्पुनरुक्तम्'-'भेदवानिव लक्ष्यते न गृह्यते' इति ; तत्राह-सर्वान् सत्त्वादीन विकल्पा[न अतीतं तत्त्वं ज्ञानस्वरूपं यदि निरंशं वेद्यंस (वेद्याद्यंश)विकलं सत् सांशमिव सभेदमिव लक्ष्येत (क्ष्यते)विकल्पेन व्यवसीयेत (यते)न प्रत्यक्षेण गृह्यते; तद् अनन्तरोक्तम् इतर त्रापि पदादावपि समानम् । शक्यं हि वक्तुम्-अविकल्पबोधेन पदादि अक्रमं प्रतीयते, तदुत्तरकालभाविन्या तु विकल्पबुद्ध्या सक्रममिव व्यवसीयते । ननु सकलं ज्ञानं स्वरूप एव मग्नं कथं ५ पदादौ भिन्ने प्रवृत्तिमत् ? स्वरूपे मग्नमिति कुतः ? इतरथा, ज्ञानं तत्र भवे (तन्न भवेत् )। लक्षणान्तराभावात् इति चेत् ; अंत एव पदरूपेऽपि [५१५क] मग्नमित्यप्यस्तु । तथाऽदर्शनान्नेति चेत् ; इतरत्र समानम् । तथा कल्पनमुभयत्रापि ।
भवतु तर्हि 'वा (वर्ण) पदवाक्यादि जन्मादिरहितम्' इति चेत् ; अत्राह-अनादि इत्यादि । न विद्यते आदिनिधने जन्मविनाशौ यस्य तदनादिनिबंधस्यादि (निधनम् तत् १० सादि) निधनवदक्रमं हेतुफलक्रमरहितं क्रमादिव(क्रमवदिव) हेतुफलक्रमदिव प्रतिभासत इति एवं तत्त्वस्य ज्ञानादिस्वरूपस्य कुतश्चित् प्रत्यक्षात् अनुमानात् अन्यतो वा स्वभावतः स्वभावेन सिद्धो (द्धी) निर्णीतौ सत्यामेवं (व) स्यात् , अन्यथा स्वभावतः तत्सिद्ध्यभावप्रकारेण सर्वत्र सुखादावपि अनाश्वासप्रसङ्गात् । तथाहि-'न सुखादिकं नाम किंचन, केवलं सुखादिकमिव न (व तत्) प्रतिभासते, 'प्रतिभासत इव' इत्यपि स्यात् । नेनु नास्त्येव सुखादिनीलादि- १५ व्यतिरेकेण परस्य प्रतिभासनम्, सुखादिनीलादेश्च विचार्यमाणस्यायोगात, प्रतिभासनेऽपि भ्रान्तता इति चेत् ; अत्राह-सर्वथा इत्यादि । निरूपितमेतत् ।
__ अत्राह प्रज्ञा क र:-*"प्रतिभास[मा]नस्य विभ्रमायोगात् प्रतिभासाद्वतमस्तु" इति ; तत्राह-ध्वनिभ्यः इत्यादि ।
[ध्वनिभ्यो वाचकं भिन्नं श्रद्धेयं विदुर्बुधाः।
ज्ञानतत्त्वं विनिर्भासाद् व्यतिरिक्तं तथाऽन्यथा ॥४३॥ यथादर्शनमिति परीक्षानिमित्तं न भवति, प्रमाणागोचरं । तन्न...]
ध्वनिभ्यः पदादिव्यञ्जकेभ्यो वाचकं स्फोटाख्यं भिन्नमर्थान्तरभूतं श्रद्धयं श्रद्धागम्यम् न प्रमाणगम्यं स्यात् । अन्यथा तथा ज्ञानतत्त्वं श्रद्धेयं विदुर्बुधाः । किंभूतम् ? इत्याहविनिर्भास इत्यादि । विधा (विविधो) विचित्रो वा सुखादिनीलादिनिर्भासः तस्माद् व्यति-२५ रिक्तमिति । अत्रायमभिप्रायः-प्रतिभासाद्वैतं स्तम्भादिस्वभावम् , अन्यद्वा स्यात् ? प्रथमपक्षे आह-*"यथादर्शनम्" [प्र० वा० २।३५५] इत्यादि परीक्षायाः [५१४ख] निमित्तं न भवति, जीवादितत्त्वाप्रतिकूलं हि तत् इति । द्वितीये दोषमाह-प्रमाणागोचरम इत्यादि । तन्न युक्तम्-*"अज्ञातार्थप्रकाशो वा इति पारमार्थिकं प्रमाणलक्षणम्" [प्र. वार्तिकाल० पृ० ३०] इति ।
३० (१) पृ० ६५६ ५० ८। (२) यदि स्वरूपमग्नं न स्यात्तदा ज्ञानमेव न स्यात् । (३) लक्षणान्तराभावादेव । (४) प्रमाणात् । (५) प्रतिभासाद्वैतवादी प्राह । (६) “यथादर्शनमेवेयं मानमेयफलस्थितिः । क्रियतेऽविद्यमानापि ग्राह्यग्राह्यकसंविदाम्॥"-प्र. वा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org