________________
६६० सिद्धिविनिश्चयटीकायाम्
[९शब्दसिद्धिः उपसंहारमाह-तन्न इत्यादि । सांप्रतं सौगतस्य अनवस्थितचेष्टितं प्रकटयन्नाह-बहिरर्थोऽस्ति इत्यादि ।
[बहिरर्थोऽस्त्यनाकारा बुद्धिश्चाप्यनाकृतिः।
असंभाव्याननुमेयेत्याकुलं किमतः परम् ॥४४॥ बहिरन्त ययोः विधिप्रतिषेधैकान्तसंवृतिवादान् परस्परविलक्षणानवलम्ब्य किमप्याकुलं कथयन् कथं स्वस्थात्मा नाम यतोऽयं परीक्षकसमयमवतरति ?]
बहिरर्थोऽस्ति अर्थाकारा बुद्धिश्वास्ति इति सौत्रान्तिकाः । नास्ति बहिरर्थः अर्थाकारा नीलाद्याकारा', तत्रैव लोकस्य अर्थ इति व्यवहारात् एवमभिधानम् वुद्धिरस्तीति योगा
चाराः। बहिरपि(रिव) बुद्धावपि परमाण्वाकारपरिहारेण व्यवस्थितस्य स्थूलस्य नीलाकारस्य असंभवात् १० अनाकृतिः न विद्यते आकृतिः नीलाद्याकारो यस्याः सा अनाकृतिः बुद्धिरस्ति इत्यन्यः तद्विशेषः ।
नीलादिपरिहारेण प्रत्यक्षे तदप्रतिभासनाद् ब्रह्मवदिति, सद्भाव्याभ्रान्तान्या(न्तार्थान्यथा) नुपपपत्त्याऽनुमेया[5]नाकृतिर्बुद्धिः मीमांसकबुद्धेरिव । अर्थदृष्टतया तस्यापि क्वचिद् भ्रान्त्या सहदर्शनाभावात् न ततस्तदनुमानम् इत्यसंभाव्याऽननुमेयेत्येवमा कुल मनवस्थितत्वं किमतः
परम् ? अपि तु इदमेव आकुलत्वम् । १५ अथवा दृष्टापलापित्वेन सौगतस्य चौयन्द (चौर्यं द)र्शयन्नाह-बहिरस्ति इत्यादि ।
बहिरर्थो विचेतनो घटादिरस्ति प्रमाणवलाबलं वा (बलावलम्बी) विद्यते, तथापि नास्ति बहिरर्थः। बुद्धिरनाकृतिरस्ति तथापि अर्थाकारा संभाव्या अहमहमिकया स्वसंवेदनाध्यक्षनिश्चेबा(या) तथाप्यसंभाव्या सुखादिनीलादि [५१६क]व्यतिरेकेण अध्यवसेयेत्येवमाकुलम् असम्बद्धं वचनम् किमतः परम् इदमेव प्रमाणवादिताभिधानात् (भिघातात्] ।
कारिकाविवरणमाह- बहिरन्तज्ञेय इत्यादि । बहिशें यं घटादि अन्तर्जेयं बुद्धिसुखादि तयोः पूर्वं विधिश्च पुनः प्रतिषेधश्च तावेकान्तौ च संवृतिवादश्च तान् । किंभूतान् ? परस्परविलक्षणान् अन्योऽन्यपरिहारस्थितस्वभावान् । किम् ? अवलम्ब्य आश्रित्य आकुलमनवस्थितम् किमपि रूपादि स्कन्धजातं दुःखादि जातं वा कथयन् कथं स्वस्थात्मा नाम यतः
स्वस्थात्मत्वादयं सौगतः परीक्षकसमयमवतरति । द्वितीये तु व्याख्याने बहिरन्तयियोः यो २५ विधिः स्वरूपादिचतुष्टयेन, यश्च प्रतिषेधो विपर्ययेण भावेन (तावेव ए)कान्तौ प्रधानधर्मो
(मौ) तयोः संवृतिवादान् कल्पनाशिल्पितधर्मभेदवचनविशेषाविति (पानिति) ग्राह्यम् । शेष पूर्ववत् ।
तर्हि सर्वस्य वस्तुनो विचार्यमाणस्पादयो(स्याऽयो)गात् सकलशुन्यतैव भवत्विति चेत् ; अत्राह-एतत् वस्तुबलागतम् इत्यादि । ___ (१) बुद्धिरेव । (२) 'अर्थाकारा' इति कथनम् । (३) माध्यमिकः । (४) योगाचारविशेषः । (५) आदिपदेन वेदनासंज्ञासंस्कारविज्ञानस्कन्धपरिग्रहः । (६) आदिपदेन समुदयनिरोधमार्गलक्षणार्यसत्यपरिग्रहः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org