________________
६५८
सिद्धिविनिश्चयटीकायाम् [ ९ शब्दसिद्धिः प्रत्यक्षानुपलम्भसाधने कार्यकारणभावे न किञ्चित् कस्यचित् कार्यम् , निष्कलसाक्षात्कृतेरसंभवात् । तत एव न नश्येत् उपलब्धिमत्त्वात् ]
न ज्ञायेत न गृह्येत नोत्पद्यत न नश्यत्येकमञ्जसा परमार्थेन । किं तत् ? इत्याह-धीवर्णपदवाक्यादि आदिशब्देन शब्दब्रह्मादिपरिग्रहः । केन हेतुना ? इत्याह५ तद्वित्तरि (तद्वित्ति इ) त्यादि । तस्य ज्ञानत्व-जन्म-नाशस्य वित्तिः तद्वित्तिः तस्या वितथी य आत्मा स्वभावः तेन । एतदुक्तं भवति-यदि ज्ञानमज्ञातमपि स्वरूपमात्रपर्यवसितं क्षणिकम् अहेतुफलभूतम् अनशं चोच्यते ; हि (तर्हि) वर्णादिकमदृष्टमपि नित्यव्यापितया इष्यताम् । अस्यानुपलम्भेन असत्त्वं ज्ञानेऽपि समानमिति ।
कारिकां विवृण्वन्नाह-प्रत्यक्ष इत्यादि । कार्यकारणभावे अङ्गीक्रियमाणे । किंभूते ? १० इत्याह-प्रत्यक्षानुपलम्भसाधने । किं जातम् ? इत्याह-न इत्यादि । किंचित जाग्रद्विज्ञानं
स्वापादिविज्ञानं वा कस्यचित् चक्षुरादेः वासनादेर्वा कार्य न तथा किंचित् सुबन्तमिदमन्यद्वा पदं वाक्यं वा कस्यचित् ताल्वादेः गगनस्य वायोः शब्दस्य वा न कार्यम् । कुतः ? इत्याहनिष्कल इत्यादि । [निष्कलस्य] ज्ञानादेः निरंशस्य या साक्षात्कृतिः [५१४ख] तस्याः
असंभवात । मा भूत् तत्कार्यं तत् , तथापि अनित्यं स्यादिति चेत् ; अत्राह-तत एव तदसंभ१५ वादेव न नश्येत् । एतदपि कुतो (तः ?) इत्याह-उपलब्धि इत्यादि । ततः संन्नि (सन्नि). त्यमेव तदिति भावः ।।
ननु ज्ञानस्य निष्कलस्य साक्षात्कृतेरसंभवेऽपि विभ्रमाकारैरनुमानादिति चेत् ; अत्राह.. 'ज्ञानतत्त्वस्य' इत्यादि ।
ज्ञानतत्त्वस्य निर्भासैस्तादात्म्यं नास्ति सर्वथा।
तथा भ्रान्तैस्तदुत्पत्तिर्यत्तस्तदनुमीयते ॥४२॥ ज्ञानतत्त्वं निरंशं न प्रत्यक्षम् , यदङ्गीकृत्य स्फोटमुपालभेरन् , सर्वविकल्पातीतं निरंशं तत्त्वं यदि सांशमिव लक्ष्यते न प्रत्यक्षेण गृह्यते । तदितरत्रापि समानम् । अनादिनिधनं सादिनिधनवत् अक्रम क्रमवदिव प्रतिभासते इति तत्त्वस्थ कुतश्चित स्वभावतः सिद्धौ सत्यां स्यात् , अन्यथा सर्वत्रानाश्वासप्रसङ्गात् , सर्वथा [विभ्रमस्य असिद्धेः] २५ ज्ञानतत्त्वस्य निरंशस्य निर्भासैः ग्राह्याद्याकारैः नास्ति तादात्म्यं सर्वथा
भ्रान्तैः हेतुपदमेतत् वितथत्वादिति । नहि अभ्रान्तस्य भ्रान्तेन तादात्म्यं विरोधात् । तथा नास्ति तदुत्पत्तिः तस्य तैः यद् यस्मात् तादात्म्यात् तदनुमीयते तैराकारैरिति ।
ज्ञानतत्त्व 'मिततत्त्व' मित्यादिना कारिकार्थमाह-[ज्ञानतत्त्वम् ] किंभूतम् ? इत्याह[निरंशं] यद् विज्ञानतत्त्वम् अङ्गीकृत्य आश्रित्य स्फोटम् उपालभेरन् सौगताः शब्दब्रह्म ३० वा, तन्न प्रत्यक्षम् इति ।
(१) "प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः ।"-हेतुबि० पृ० ५४ । (२) मिङन्तम् । (३) अविभागस्य । (१) 'मिततत्त्व' इति व्यर्थमत्र । (५) अत्र पाठस्त्रुटित आभाति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org