________________
८४२ ]
न सांख्यमते सर्वशत्वम्
५८५
त्यादि । चेतनसङ्घातेन पुरुषसङ्घातेन चेतनाचेतनसङ्घातेन प्रकृतिपुरुषसङ्घातेन अपरार्थेन अनैकत्वा (कान्तिकत्वा) दहेतुः सङ्घातत्वादिति धर्मः ।
ननु यथं' यादृशं सङ्घातत्वं चक्षुरादीनां न तादृशं विपक्षे, ततो न व्यभिचार इति चेत्; अत्राह नहीत्यादि । [हि ] यस्मान्न चक्षुरादीनामपि न केवलं प्रकृतस्य सङ्घातत्वमन्यदेव अन्यत्र समवस्थानात् अविनिर्भागवर्तनादपि तु तदेव । भो तु (भवतु ) तथापि न तद्विपक्ष इति ५ चेत्; अत्राह - तत्समवस्थानमितरत्रापि प्रकृतविपक्षेऽप्यस्ति । न चक्षुरादीनां सङ्घातत्वम् एकत्वम्, न न(येन) [चेतनानां] चेतनाचेतनानां वा ततो [s] विशेष इति चेत्; अत्राह - विशेषाभावादिति । *"भेदानां परिमाणात्' इत्यादिना [ साङ्ख्यका० १५] एकपरिमाणस्य रूपादेभात् (रूपा - देरभावात् ) भेदस्य च सर्वत्र साधयितुं [ श] क्यत्वात् इति भावः । यत्पुनरुक्तम्- शयनाद्यङ्गवदिति । तत्रेदं विचार्यते-व ते - कस्तत्र परः यदर्थं तत् ? शरीरमिति १० चेत् ; न ; तद्भोक्तृत्वापपत्तेः । अत एव न बुद्धिरपि । पुरुष इति चेत्; कः तत्तदर्थं च प्रत्येति ? प्रधानमि [ति ] नोत्तरम् ; उक्तत्वात् । स एव स्वपर प्रकाशरूपत्वात्तस्येति चेत्; चक्षुरादावपि स्वार्थमिन्द्रियादि स एव अवगच्छतीति किमर्थं तत्रानुमानम् ? व्यामोहव्यवच्छेदार्थ [४५६ख ] (थं) ; शयनादौ तदर्थं (तदस्ति यदर्थं ) तद [ त ]स्तत्राह - व्यामोह (हा) भावात् । तथेति चे [त् ;] निदर्शनान्तरास ( प ) त्ति: अ [न]वस्थाकारिणी । चक्षुराद्यदा करणम् (?) अन्योन्यमप्रयमावति १५ (अन्योन्याश्रयमाकर्षति ) ।
किंच, स्वपरप्रकाशकत्वं पुंसः परिणामाविरोधि, सदेकस्वभावे तेंदयोगात् ।
ननु रश्वे ( ननु स्वे) तरग्रहणवत् कस्यचित् कारणापि ( कारणेऽपि ) यदि तस्योपयोग[:] किं विरुध्येत ? न किं[चित् ], केवलमकर्तृत्वं न स्यात् ।
अपि च, आत्मग्रहणे यस्य (यदि) आलोचनादिकमपेक्षेत ; अनवस्थानम् । अन्यथा विषये २० किं [ तदपेक्ष ] ते ? ताथा (तथा) त्मानं तत्प्रत्येति", तदर्थ (र्थं ) शयनादिकं न प्रतीयते (येत), उभयप्रतिपत्तिनान्तरीयकत्व तत्परीतेहितिदृशांते (कत्वात्तत्प्रतीतेरिति दृष्टान्ते) सर्वमसिद्धम् ।
एतेन धर्म्यद्यसिद्धिरपि वित्तिता ( चिन्तिता ) । तन्न कपिलमते कश्चिदशेषवित् नापि मुक्त इति ।
[ तदेवाह - दृश्य ] दर्शनयोरित्यादि ।
[हँश्यदर्शनयोर्मुक्तिर्नित्यव्यापकयोः कथम् ।
यतस्तापाद् विमुच्येत तदर्थं पुरुषो यतेत ॥ ४२॥
न प्रधानस्यापि परिणामातिक्रमः, चैतन्यस्य वा, अन्यथा अदृश्यस्वभावं प्रधानस्य प्राप्नोति । दृश्य ं ं‘तथा । एतेन पुरुषकैवल्यार्था प्रकृतिप्रवृत्तिरिति प्रतिविहितम्,
(१) 'यथं ' इति व्यर्थम् । (२) 'समन्वयात् शक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूपस्य ॥' इति शेषः । (३) पुरुष एव । ( ४ ) स्वपर प्रकाशकत्वायोगात् । ( ५ ) अन्यथा । ( ६ ) " तदुक्तमन्यत्र - दृश्य दर्शकयोः यतस्तापाद्विमुच्येत तदर्थं च तपश्चरेत् ॥” - न्यायवि० वि०प्र० पृ० २३२ । ( ७ ) " पुरुषस्य दर्शनार्थं कैवल्यर्थ तथा प्रधानस्य । पङ्बन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥” - सांख्यका० २१ ।
G8
Jain Education International
For Personal & Private Use Only
२५
www.jainelibrary.org