________________
५८४
सिद्धिविनिश्चयटीकायाम् [ ८ सर्वशसिद्धिः प्रधानपुरुषस्वरूपाद् भिन्नस्वाभ्या (स्वभावस्या)न्यस्यानभ्युपगमात् । अथवा, तत्र क आत्मा सर्वज्ञः स्यात् तदुरूप (तदुभय) स्वभावाद् भिन्नस्वभावः। ___ कारिकार्थं दर्शयन्नाह-यथैव हि इत्यादि । यथैव हि स्पष्टं शरीरयोगाद्धेतोः जीवः शरीरी प्राणयोगात प्राणी इत्येवं व्यपदेशः चेतनस्य जैनमते अर्थान्तरमात्मनोऽनाच्छ (त्मनस्तच्छ)५ रीरादि, तद्योगादेव, न स्वतः, तथान्तरेण अहङ्कारादिना योगाद् अहङ्कारी बोद्धा इत्येवं
यदि व्यपदिश्येत सायः 'चेतनः' इत्यनुवर्तते । [४५५ख एव (एतद्) दूषयन्नाह-दृष्टिश्चेत्यादि । दृष्टिरपि चैतन्यमपि न केवलम् अहङ्कारादि पृथक भिन्नं पुरुषात् प्राप्नोति । नैयायिकस्य न गायस्य (-ति साङ्ख्यस्य न नैयायिकस्य तेन) मनत्या (मनना)दिति भावः । न चैवम् ,
अतो दृष्टिवद् अहङ्कारादिकं ततोऽभिन्नमभ्युपेयम् । यत एवं ततोऽयुक्तम् । कस्य ? इत्याह१० अचेतनस्य इत्यादि । किम् ? इत्याह-आलोचनेत्यादि । कस्येव ? इत्याह-घटादेरिव । प्रकृत
मुपसंहरन्नाह-तन्न इत्यादि । विपक्षे बाधकमाह-अन्यथा इत्यादि । पुरुषस्य स स्यादिति चेत; अत्राह-सतोऽपि । साङ्ख्यं पुरयो (साङ्ख्यपुरुषस्य अ)प्रमाणकत्वादसन्नेव । तथाप्युच्यतेसतोऽपि पुरुषस्य न संयुक्तः (स युक्तः) कुतः ? इत्याह-अज्ञत्वाऽबुद्धिमत्त्वाभ्याम् । अन्यः
सर्वज्ञ इति चेत् ; अत्राह-क इत्यादि । पूर्ववद् व्याख्याद्वयम् । १५ साप्रतं पुरुषसाधकं पैरस्य प्रमाणं दूषयन्नाह-चेतनाचेतनमित्यादि ।
[चेतनाचेतनं सर्वं चेतनं वाऽनुमीयते ।
परार्थं सङ्घातत्वात् कर्तृत्वं चक्षुरादिवत् ॥४१॥
परार्थाः [ चक्षुरादयः सङ्घातत्वात् शयनाद्यङ्गवत् ] इति चेतनसङ्घातेन चेतना__ चेतनसङ्घातेन अपरार्थेनानैकान्तिकत्वादहेतुः । न हि चक्षुरादीनां सङ्घातत्वमन्यदेव । २० तत्समवस्थानमितरत्रापि विशेषाभावात् व्यामोहाभावात् ।]
चेतनं सर्वं चेतनाचेतनं वा सर्वम् इति धर्मिद्वयम् न पुनः 'अचेतनं सर्वम्' इति वक्तव्यम् , परि (परं)प्रति सिद्धसाध्यतापत्तेः, तेन तथाभ्युपगमात् । परार्थं परप्रयोजनमनुमीयते अकापिलेन(कापिलेन)। कुतो हेतोः ? इत्याह-सङ्घातवाचक्षुरादि[वदि]ति ।
चेतनस्य सर्वस्य कर्तृत्वम्, अन्यथा चक्षुरादेरवि तन्न स्यात् । नहि तस्यापि परोपकरणा२५ दन्यत् । तथा च *"अकर्ता निर्गुणः" इत्यादि विरुध्यते । अथ नानुमीयते, तर्हि तेनैव
पुरुषसाधनस्य व्यभिचारः इति भाः (भावः) । पक्षीकरणान्न [४५६क] तेनम् (तेन) व्यभिचार इत्य दि(पि) चेतनवर्गात् चेतनाचेतनवर्गाद्वा सोऽन्यः स्याद् यदर्थं तन्निमित्तं सकलं जगद् भवेदिति] । तन्न कश्चित् साध्यानवस्थितेः तत्राप्यपरापरसाधनात् ।
कारिकां व्याख्यातुं परप्रयोगमाह-परार्था एताद्यन्त (इत्यादि । तद्) दूषयन्नाह-चेतने
(१) व्यपदेशः । (२) पुरुषात् । (३) साङ्ख्यस्य । (४) अनुमीयते । (५) कर्तृत्वम् । (६) द्रष्टव्यम्-पृ० २९९:टि० ६ । (७) 'परार्थाः चक्षुरादयः सङ्घातत्वात् शयनासनाद्यङ्गवत्' इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org