________________
५८३
८४०]
न सांख्यमते सर्वज्ञत्वम् परमतमाशङ्कते-यदि पुनः इत्यादि । यदि इति पराभिप्रायस्य पुनः इति पक्षान्तरस्य द्योतने यथा कश्चित् सर्वदर्शी स्यात् तथैव तेनैव आलोचनाद्यन्तरमन्तरेण प्रत्यक्षताप्रकारेण पुरुषयस्य (पस्य)बुद्धिः 'स्यात्' इति गतेन सम्बन्धः। अध्यवस्यत्येव निश्चिनोति तथैव 'बुद्धिः अर्थम्' इति सर्वमपेक्षम्(क्ष्यम् ) । एवकारेण कस्यचिदप्यर्थस्य अनध्यवसायो नास्तीति दर्शयति ।
एतद् दूषयन्नाह-'किं तत्र' इत्यादि । तत्र [तस्मिन्ननन्तरोक्त परमते किम् आलोचनादिभेदकल्पनया ? *"स्वार्थमिन्द्रियाण्यालोच्यन्य (लोचयन्ति)" इत्यादिना किम् ? यथैव पुरुषः तद्भेदकल्पनामन्तरेण बुद्धिं पश्यति, बुद्धिर्वा[अर्थम्] इन्द्रियाणि तदालोचनाति (नानि) मनः तत्संकल्पनम् , अहङ्कारं तदभिमा नम्] तदपरेन्द्रियादिकल्पनामन्तरेण [अ]ध्यवस्यति, अन्यथा अनवस्था । ततो न कश्चित् सर्वदर्शी स्यात्, तथा सोऽथं पश्येत् १० इति भावः।
___ अधुना 'चैतन्यान्नान्या बुद्धिः' इति दर्शयितुं तदीयहेतोर्व्यभिचारविषयं दर्शयन्नाह'अवग्रहादिज्ञान' इत्यादि। तात्पर्यमिदमत्र-तथा (यथा) चैतन्यं बुद्धिः इत्यभिधानभेदमादा[य, तथा अ]वग्रहादिज्ञानविशेषाधात(षाभिधान)बहुत्वात् कारणात् परिसंख्या बुद्धिश्चैतन्यमिति परिगणनं [४५५ क] विरुध्येत तत्त्वबहुत्वं स्यादिति ।
१५ ___ स्यान्मतम्-तेदभिधानबहुत्वं जैनस्य स्वेच्छाकल्पितमिति; परमपि साङ्ख्यस्येति समानम् । लोकप्रसिद्धिरुभयत्र । स्यादेतत् , अवग्रहादिज्ञानविशेषा बुद्धरेव भेदाः ततस्तदभिधानबहुत्वं बुद्धेरेव पर्यायशब्दबहुत्वमिति; तत्राह-सति (मति) इत्यादि । तस्य आत्मनः उपयोगविशेषाः तदुपयोगविशेषाः तेषां मतिः अवग्रहाद्यात्मिका श्रुतं शाब्द ज्ञानम् आदि (पदेन स्मृत्यादि)परिग्रहः ते विषयो येषां तेषां भावात् तत्त्वात् परिसङ्ख्या विरुध्येत । एवं मन्यते-यथा अवन- २० हादेर्बुद्धावन्तर्भावः तथा तस्या आत्मनीति । भवतु बुद्धिचैतन्ययोरभेदः । तत्र को दोष इति चेत् ? अत्राह-नास्ति ज्ञत्वमित्यादि ।
नास्ति ज्ञत्वं प्रधानस्य चेतनाऽपरिणामिनः ।
पुरुषस्य न वै कश्चित् सर्वज्ञोऽनुभयात्मकः ॥४०॥ यथैव हि शरीरयोगात् शरीरी प्राणयोगात् प्राणीति व्यपदेशश्चेतनस्य तथा २५ अर्थान्तरेण अहङ्कारादिना योगाद् अहङ्कारी बोद्धेति यदि व्यपदिश्येत ; दृष्टिश्च पृथक , प्राप्नोति । ततोऽयुक्तम् घटादेरिव अचेतनस्य आलोचनादिकम् । तन्न' 'अन्यथा। सतोऽपि अज्ञत्वाबुद्धिमत्त्याभ्यां न स युक्तः। कः सर्वज्ञः ?]
[अयं]भावः-चेतना परिणामात्मिका बुद्धिर्न प्रधानस्य पुरुषस्य वाऽपरिणामिनः .. इति । ज्ञत्वं नास्ति प्रधानस्य अचेतनस्य । न च नैव इष्यते । सायेन पुंसा ज्ञत्वं परि- ३० णामित्वक्रयाकपिलमास्ते (क्रियाकवलितमास्त) को न कश्चित् सर्वज्ञोऽनुभयात्मकः
(१) भालोचनादिभेदमन्तरेण । (२) अवग्रहादिज्ञानविशेषाभिधाननानात्वम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org