________________
सिद्धिविनिश्चयटीकायाम्
[ ८ सर्वशसिद्धिः
स्यान्मतम् - प्रकृतेः परिणामित्वेऽपि न पुंसस्तत् गोत्र (चित्र) त्वात् भावस्वभावानाम्, अन्यथा दहनवत् जलमपि वा (दा) हकं स्यादिति । स्यादेतदेवं यदि प्रधानपरिहारेण पुंस्ये [व] अविकारिरूपं कुतश्चित् प्रतिपन्नं स्यात्, जलपरिहारेण पावकस्य उष्णरूपवत् । न चैवमिति । आगमात् प्रतिपन्नम्, यदाह - " न प्रकृतिर्न विकृतिः पुरुषः " [ साङ्ख्यका० २३] इति ५ तन्नेदमुत्तरम् ; अन्यत्र समत्वात् । कथमचेतनम् ?
किंच, तस्त (वैः तथाविधं पुरुषं कः प्रत्येति ? प्रधानमिति चेत्; अन्यथा बुद्ध्यध्यवसितमर्थं चेतयमानोऽपि पुरुषः अचेतनः स्यात् । पुरुष इति चेत्; आगमेन क्रियमाणा तस्य स्वप्रतिपत्तिः यदि कादाचित्का; तदेव तत्परिणामित्वमि वे (मिति । न चे) दागमवैफल्यम् । अभिव्यक्तिरपि नित्यस्य निरस्तेति यत्किञ्चिदेतत् ।
५
कारिकां व्याख्यातुमाह-चैतन्य वृत्तिम् इत्यादि । चैतन्यस्य वृत्तिम् आलोचनादिपरिणतिम, अचेतनस्य प्रधानस्य विनियोजयन्तः [ ४५४ ] तत्सम्बन्धिनीं कुर्वन्तः क (का) पिलाः । केन प्रकारेण ? इत्यत्राह-स्वार्थम् इत्यादि । ते किं कुर्वन्ति ? इत्याह- केवलम् इत्यादि । दूषणान्तरमत्रैव दर्शयन्नाह - बुद्ध्यध्यवसितम् इत्यादि । बुद्ध्यध्यवसितमनुकृतंनष्वितं (नुकृतनिश्चयम्) निश्चयस्यापि (धि) गमरूपत्वाद् एवकारेण बाह्यस्य व्यवच्छेद स हा (दमाह) १५ अर्थम् अर्थाकारं पुरुषश्चेतय [ते] इत्येवं यद्य कान्तोऽवश्यंभावः [तस्मिन् ] न कश्चित् कपिलोsन्यो वा सर्वदर्शी स्यात् । कुतः ? इत्यत्राह - चक्षुरादिति (दिनि) वृत्तेः चक्षुरादीनां व्यावृत्तेः । कुतः १ इत्यत्राह - दर्शनाद् बुद्धेः पुरुषेण साक्षात्करणात् ।
स्वरि (रि) रेवं मन्यते - यदि बुद्धिं पुरुषो न पश्यति ; कथं तदयवसि (तदध्यवसि) - तमर्थं पश्येत् ? नहि दर्पणादृष्टौ तद्गतमुखविश्वदृष्टिरस्ति ।
२०
किंच, बुद्धस्तेनाऽदर्शने कुतस्तस्याः सिद्धिः, अर्थाध्यवसायसिद्धिर्वा ? पुरुषादिति चेत् ; 'र्सं तीं न पश्यति, "तत एव तत्सिद्धि:' इति व्याहतम् अतिप्रसङ्गात् । स्वत इति चेत् ; सौगतमतानुप्रवेशः, अर्थाकारस्य स्वसंवेदनस्य सौगतेनोपगमात् । अथ करणमन्तरेण अर्थग्रहाऽसिद्धः " तत्सिद्धिः ; न ; चक्षुरादेरेव तथा सिद्ध: ( "तत्सिद्धेः ) ततोऽप्यन्यकल्पनायामनवस्था - ततोऽप्यपरस्य कल्पनातु (नात् ) । पश्यतीति चेत्; यदा (यदि आ) लोचनादिप्रक्रमेण अर्थवम त्तअर्थ२५ ( वत् ; तद्) युक्तम् ; तत्र अपरचक्षुरादिविरहानवस्था प्राप्तार ( प्राप्तेः । अ) न्यथेति चेत् ; मपि तत्रैव (तथैव ँ) पश्यतीति सूक्तम् -'बुद्ध्यध्यवसितम्' इत्यादि ! ततः सूक्तम् 'चक्षुरादिनिवृत्तेर्दर्शनात्' इति ।
१५
ទទ
अपरे" [४५४ख] पठन्ति 'चक्षुरादिवृते दर्शनात्' इति । तत्रास (तत्राय) मर्थ:-चक्षुरादिवृत्त्या दर्शनाद् अर्थस्य तस्या एव तेन सम्बन्धात्, पुरुषस्तु बुद्धिप्रतिबिम्बमेव पश्यति नार्थ (र्थम्) सुगतवदिति ।
३०
१०
५८२
(१) कारणम् । (२) कार्यम् । (३) युष्माकं मते । (४) 'प्रत्येति' इति सम्बन्धः । (५) सांख्याः । (६) आचार्यः । (७) बुद्धेः । (८) पुरुषः । (९) बुद्धिम् । (१०) पुरुषादेव । (११), करणभूतायाः बुद्ध्ः सिद्धिः । (१२) अर्थग्रहणसिद्धः । (१३) चक्षुरादिकमन्तरेण । (१४) व्याख्याकाराः । (१५) चक्षुरादिवृत्तेरेव । (१६) अर्थेन ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org