________________
५८१
८॥३९ ]
न सांख्यमते सर्वज्ञत्वम् कारिकातात्पर्य दर्शयन्नाह-तन्न इत्यादि । यत एवं तत् तस्मात् नापरतः भिन्नज्ञानात् चक्षुरादेर्वा कस्यचिद् ईश्वरादेः सर्वज्ञत्वम् । कुतः ? इत्यत्राह-सत् इत्यादि । इत्येवं सुभाषितं 'मम' इत्याध्याहारः ।
एवं यौगसौगतसायने (शासने) अशेषज्ञा(ज्ञान) निराकृत्य साङ्ख्यमते तन्निराकर्तुकामः तन्मतमुपन्यस्यव्यवका (न्यस्यति, अहङ्का) रेत्यादि
[अहङ्कारमनोबुद्धिचैतन्यादिविभागतः।
उपयोगमात्मनोऽज्ञस्य साङ्ख्याः संचक्षतेऽचितः ॥३९॥ चैतन्यवृत्तिमचेतनस्य 'स्वार्थमिन्द्रियाणि आलोचयन्ति मनः सङ्कल्पयति अहकारोऽभिमन्यते बुद्धिरध्यवस्यति इति' विनियोजयन्तः कापिलाः केवलं । बुद्ध्यध्यवसितमेवार्थ पुरुषश्चेतयते इत्येकान्ते न कश्चित् सर्वदर्शी स्यात् चक्षुरादिनिवृत्तेर्बुद्धद- १० शनात् । यदि पुनः स्यात् तथैव पुरुषस्य बुद्धिरिति अध्यवस्यत्येव तत्र किमालोचनादिभेदकल्पनया ? अवग्रहादिज्ञानविशेषाभिधानबहुत्वात् परिसङ्ख्या विरुध्येत तदुपयोगविशेषाणां मतिश्रुतादिविषयत्वात् ।] ___ अहङ्कारादीनां कृतद्वन्द्वजां (द्वन्द्वानाम) विभागेन सह तासः (तसः) तेन ततः, आत्मनो जीवस्य उपयोगं व्यापारविशेष आलोचन-मनन-सङ्कल्पनाऽध्यवसायलक्षणसं- १५ (णम् अ)ज्ञस्य अचेतनस्य । किं कुतः स न ? इत्याह-अपितः(अचितः) चितः पुरुषादन्यस्य इत्यर्थः । साङ्ख्याः संचक्षते कथयन्ति । तथा च तेषां राद्धान्ते' *"इन्द्रियाण्यर्थमालोचयन्ति, अहङ्कारोऽभिमन्यते, मनः संकल्पयति, बुद्धिरध्यवस्यति, पुरुषश्चेतयते ।" इति ।
अनेन चेतनात्मधर्मान् आलोचनादीन् अचेतने प्रधाने अध्यारोपयन्तः कापिला. मूढमतयः इति दर्शयति । नहि अन्यधर्ममन्यत्र जानन् स्वस्थः, इतरथा हेनो (नः) पीततां शुक्ले शङ्ख पश्यन् स्वस्थो भवेत् । कथं ते तद्धर्मा इति चेत् ? कथं घटस्य रूपादयः ? तथा दर्शनात् ; अन्यत्र समानम्-चेतनाकप (कव)लितानाम् आलोचनादीनां प्रतीतेः, ज्ञानदर्शनोपलक्षणत्वादात्मनः। अथ तेषु चेतना समारोपिता प्रतिभांति (भाति) न मुख्यतः ; क पुनरियं मुख्यतः ? पुरुषे ‘इति चेत् ; न ; तत्रैवौप[च]रिताऽस्तु[४५३ख] अँन्यत (त्र तु) मुख्या । २५ तदा (न हि आ)लोचनादिव्यतिरिक्तततः(क्तः) पुरुष (षः) प्रतीतिभाक् , यस्य चेतना स्यात् । अथ परमार्थतः पुरुषस्यैव सी बाधवर्जनात् , न तेषां विपर्ययात् ; किं पुनस्तेषां स्वतन्ये (चैतन्ये) बाधकम् ? 'चेतनायाः परिणामित्वापत्तिः' इति चेत् ; किं पुनः साङ्ख्यस्य परिणामित्वमसिद्धम् ? तथेति चेत् ; प्रधानमपरिणामीति न युक्तम्-"प्रकृष्ठ *"प्रकृतेर्महान्" [साङ्ख्यका० २२] इत्यादि । प्रकृतिः परिणामिनी, न चेतना इति किं कृतो विभागः १ . ३०
(१) तत्पुरुषसमासः इत्यर्थः । (२) सिद्धान्ते । द्रष्टव्यम्-पृ० ९९ टि० ४ । (३) आत्मधर्माः। (४) इति चेत् । (५) चेतनाव्याप्तानाम् । (६) चेतना । (७) पुरुष एव । (८) आलोचनादौ । (९) चेतना । (१०) आलोचनादीनाम् । (११) 'प्रकृष्ठ' इति व्यर्थम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org