________________
सिद्धिविनिश्चयटीकायाम्
[ ८ सर्वज्ञसिद्धिः
1
क्रमेण तत्त्वमेकत्वम् अनुभवत् ' द्रव्यं भवति' इत्याध्याहारः । किंभूतम् ? इत्याह- चेतनेत्याह (त्यादि) । कीच (जीव) द्रव्यं चेतनात्मकम [ चेतनात्मक ] न्यदिति । कुतः चेतनात्मकमिति चेत् ? अत्राह - चैतन्यमित्यादि । कथं संसारेतरव्यवस्था इति चेत् ? अत्राह - प्रत्यनीक इत्यादि । यत एवं ततो नान्यदेव ज्ञानम् आत्मनः । कुतः ? इत्याह- सामान्येत्यादि । ५ सोऽपि कुतः ? इत्याह तादात्म्यपरिणामात् । एतदपि कुतः ? इत्याह- [सम्बन्धादनवस्थितेः] सम्बन्धान्तरकल्पनायामनवस्था [s] निवृत्तेः । कुतस्तन्निवृत्तरि (त्ति: ? इ) त्याहस्वत इत्यादि । तादात्म्यसम्बन्धादेव नान्यतः । प्रकृतमुपसंहरन्नाह-तदयम् इत्यादि ।
५८०
२०
यत एवं तत् तस्माद्ययं (दयं ) प्रत्यक्षवेद्यः । किं घटादि: ? नेत्याह-चेतनः । चेतना - सम्बन्धात् सं इति चेत् ; अत्राह - संवेदनमेव आत्मा स्वभावो यस्य स संवेदनात्मा ।
[अ] भावमात्रात्मक' इति चेत् ; नेत्याह - ज्ञाता स्वं परं च जनातीत्यर्थः । स किम् ? इत्याह१५ सर्वज्ञः । कस्मिन् सति ? इत्याह - [ तत् ] प्रतिबन्धविश्लेषे । कुतः ? इत्याह- सर्वार्थ इत्यादि । कदाचित् सर्वज्ञः पुनरितरः स्यादिति चेत् ; नेत्याह-प्रतिक्षणं पुनः प्रतिबन्धकारणाभावादिति भावः । सन्निहितमेव जानाति नेतरतन्नेदमिति (नेतरदिति) चेत्; अत्राह - अप्राप्यकारित्वाव्ये (च्चे) तनस्येति । कुतोऽन्यथा व्याप्तिग्रहः १ यतोऽनुमानं वेदार्थपरिज्ञानं वा ?
1
विपक्षे बाधकं दर्शयन्नाह - सर्वज्ञ इत्यादि ।
[तदयं चेतनो ज्ञाता संवेदनात्मा प्रतिक्षणम् । तत्प्रतिबन्धविश्लेषे सर्वज्ञः सर्वार्थदृक् ॥३७॥ अन्यथाऽप्राप्यकारित्वात् कुतो व्याप्तिग्रहो यतः ॥ ३ ॥
[सर्वज्ञः करणपर्यायव्यवधानातिवर्तिधीः ।
परिक्षीणदोषावरणो नो चेत् भासयते हि कः ॥३८॥
तन्नापरतः कस्यचित् सर्वज्ञत्वं सत्" इति सुभाषितम् । ]
करणानि इन्द्रियाणि, पर्यायः परिपादिः (टिः) क्रम इति यावत्, व्यवधानं देशा२५ दिनी वि (ति)रोधानम् , त्य (तान्य) तिवर्त्तति (ते) इत्येवं शीला धीर्यस्य स तथोक्तः सर्वज्ञः । कुतः ? इत्याह–[४५३क] परिक्षीणदोषावरणभात्रयतो ( णो भासयते ) नो चेत् इत्थम्भूतः सर्वज्ञे (ज्ञो)न यदि, कः सर्वज्ञः ? न कश्चित् ।
Jain Education International
(१) चेतनः । ( २ ) प्रतिभासमात्रत्वात् शून्यः स्यादिति शङ्काकर्तुरभिप्रायः । (३) तुलना - " यदाह अकलङ्कः- यदि सूक्ष्मे व्यवहिते वा वस्तुनि बुद्धिरत्यन्तपरोक्षे न स्यात् कथं तर्हि ज्योतिर्ज्ञानाविसंवादः ? ज्योतिर्ज्ञानमपि हि सर्वज्ञप्रवर्तिमेव, एतस्मादविसंवादिनो ज्योतिर्ज्ञानात् सर्वज्ञसिद्धिः । तदुक्तम्धीरत्यन्तपरोक्षेऽर्थे न चेत्पुंसां कुतः पुनः । ज्योतिर्ज्ञानाविसंवादः श्रुताच्चेत्साधनान्तरम् ॥ इति ।" - धर्मोο प्र० पृ० २४६ । (४) आदिशब्देन काल - स्वभावपरिग्रहः ।
For Personal & Private Use Only
www.jainelibrary.org