SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ ८/३५-३६ ] आत्मनः सप्रदेशत्वम्, ५७९ स एव दोषः । अन्या चेत्; यदि तत्कालभाविनी ; युगपत् त्रयप्रतीतिः - 'संयोगः, तदवस्था, विभागश्च' इति । अथ तदुत्तरकालभाविनी ; तदा न तर्हि संयोगः । तथा चेत् ; न नहि (न तर्हि) विभागात् संयोगनाशः । पूर्वं तस्य नाशात् तदंत (तत) श्चेत्; अन्योऽन्यसंश्रयः - संयोगनाशाद् विभागतः (गः, ततः) तन्नाश इति । पर आह-विनाशसक (शक) कारणसमग्रता विनश्यदवस्थेति ; तत्काले संयोगस्य भावे ५ स एव दोषः - संयोगविभागयोः सहप्रतीतिरिति, विभागस्यैव तद्विनाशककारणत्वात् । अथ विभागजेन विनाशेन तिरस्कारात् न तत्काले तत्प्रतीतिः ; तदसत् ; ताभ्यामुत्तरकालभावी विनाशः कथं पूर्वसंयोगतिरस्कारकारी । नहि रात्राद (व) विद्यमानो [ ४५२क ] दिवाकरप्रतानः तदाकारा (तारा) - निकरतिरस्कारकारी । स्यान्मतम्–विभागसंयोगस्यव (गवि) नाशयोराशुवृत्तेरेककालताध्यवसायः, ततो विभाग १० कालेsपि अध्यारोपेण तद्विनाशस्य भावात् तेन तंत्तिरस्कारः; तदपि न सुन्दरम् ; यतः अध्यारोपितस्य अर्थक्रियासामर्थ्यनिषेधात् । किं च, भावपक्षस्य बलीयस्त्वात् भावेन सता संयोगेन विनाशस्य तिरस्कारो युक्तः, इतरथा ज्ञानज्ञानव्यवाये विच्छिन्ना व्यवाये विच्छिन्ना (ज्ञानव्यवाये 'विच्छिन्ना) वंशादिस्वरधारा' प्रतिपत्तिर्न स्यात् । ૪ २० अपि च, कोऽयं तेन तस्य तिरस्कार : ? विनाशकरणं चेत् ; तर्हि [न] विभागात् संयोगविनाशः, ततः संयोगर्त्यां [अ] भावतो विनाशो न विभागादिति प्राप्तम् । अथ सातस्थगतं (अथ तत्स्थं तत्) तदर्पि ; दृश्यसा (स्य ) स्वरूपाखण्ड ने युक्तम् । तन्न संयोगकाल (ले) विभागः । पुनः स्यादिति चेत् ; तद्विनाशसमये स्यादिति न विभागप्रयुक्तः तद्विनाशः, सहभावात् । कुतस्तर्हि विनाशः ? कुतो विभागः ? क्रियत (क्रियातः) इति चेत्; अत एव विनाशः, तथादर्शनात् । न च तंद्विनाशास्त (श-त)त्कालेऽपि विभागः प्रतीतिभाक् । ततः स्थितम् -'संयोगविनाशो विभागः, तस्य चैकत्वे विभागैकत्वम्' इति । एवमनैकान्तिकत्वे परिहृते यत्प्राप्त ( तं तत् ) दर्शयन्नाह - तथेत्यादि । तथा तेन प्रकारेण सति तत्परिहारे विभुद्रव्यवत् परमाणोः अनन्तपर्यायसिद्धिः स्वत एव । निगमनमाह - ह - तत इत्यादि । [४५२ ख ] [ततः क्रमेणानुभवत्तत्त्वं चेतनाचेतनात्मकम् । चैतन्यं संसारेतरव्यवस्थाप्रत्यनीकतः ॥ ३५॥ नान्यदेव ततो ज्ञानं सामान्यात्तदात्मनः । स्वतस्तादात्म्यपरिणामात् सम्बन्धादनवस्थितेः ॥ ३६ ॥] Jain Education International १५ ३० (१) विभागकाले । (२) संयोगप्रतीतिः । (३) संयोगतिरस्कारः । ( ४ ) इति । (५) विनाशेन । (६) विनाशात् । (७) तस्मिन् तिष्ठतीति तत्स्थम् । (८) उच्यते उपचारात् । ( ९ ) एतत् उच्यमानम् । (१०) तद्विनाशकाले तत्काले वा । For Personal & Private Use Only २५ www.jainelibrary.org
SR No.004039
Book TitleSiddhi Vinischay Tika Part 02
Original Sutra AuthorN/A
AuthorAnantviryacharya
PublisherBharatiya Gyanpith
Publication Year1959
Total Pages456
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy