________________
५७८
सिद्धिविनिश्चयटीकायाम् [ ८ सर्वशसिद्धिः सर्वगतः पदार्थात्मा (पदार्थ आत्माकाशादिः) युगपत् ‘सर्वमूतैः' इतीपेक्षम्(इतीदमत्रापेक्ष्यम्)। ततः किं जातम् ? इत्याह-अनन्तः पर्यायैः आत्मसम्बाध्येत(आत्मा संबध्येत)स्वत आत्मने (आत्मना) असकृत् क्रमशोऽपि तथा।]
. कारिकां विवृणोति-विभोः सर्वगतस्य आत्मनोऽन्यस्य वा गगनादेः यावद्भिः सह ५ संयोगाः । कैः ? इत्याह-मूर्तिमद्भिः असर्वगतद्रव्यपरिमाणं मूर्तिः, तद्वद्भिः । किंभूतैः ? इत्याह-परस्यादि(परस्परेत्यादि) । किंभूतास्ते ? इत्याह- परस्परव्यावृत्तात्मानः ते संयोगाः तावन्त एव संयोगिन आत्मादेः तावतः स्वभावभेदान् साधयन्त्येव । केन हेतुना ? इत्याह- अन्यथानुपपत्त्या [४५०क] [अन्यथा] अन्येन तावतां स्वभावभेदानामभावप्रकारेण
तेषां याऽनुपपत्तिः तया । तेदि (तथाहि-) येन स्वभावेन नभोऽभिसम्बद्ध्यते एकेन परमाणुना, १० तेनैव सर्वद्रव्यैः । तत्परमाणुसंयुक्तस्वभाव सर्वस्य प्रवेश[प्रसङ्गात् । न वैव (चैव) मिति ।
ते स्वभावभेदाः, पुनरेतद् वितर्के प्रदेशव्यपदेशभाजो भवन्तु मा वा भूवन् , भावो गगनादिः तैः स्वभावभेदैः स्वत एव संयोगादिवि न पेक्ष्य (दिनिरपेक्ष) एव सम्बध्येत । कुतः ? इत्यत्राह- तादात्म्यादिति ।
नन्वेकः परमाणुः षड्भिः' संयुज्यते, न च तस्य तावन्तः स्वभावभेदाः ततो व्यभिचार १५ इति चेत् ; अत्राह- एतेन इत्यादि । कुतः ? इत्यत्राह- पर्याय इत्यादि । तदनुपपत्त्यो (त्या)
किं स्यादिति चेत् ; अत्राह-संयोगभेदाभावे सर्वावयवानां संयोगैकत्वे तदन्य तदन्यतमविभागे तेषां कार्यद्रव्यारम्भक-परमाणूनामन्यतमस्य परमाणोः विभागे संयोगाभावे सति सह युगपत् सर्वेषामणूनां विभागप्रसङ्गात । तथा किं स्यात् ? इत्यत्राह- तथा च सर्वेषां विभागप्रकारेण पक्षवित् (पक्षिवत्) पटादौ कस्यचित परमाणो तंबने(णोश्चलने) सर्वकार्यद्रव्यं २० सकृदेव चलेत् नास्यतु (नास्थात्)। कुतः ? इत्यत्राह-सर्वत्र इत्यादि । सर्वपरमाणुषु संयोगे(ग)कत्वोपपत्तेः कारणात् कस्यचित् परमाणोः चलने सर्वकार्यद्रव्यं सकृदेव चलेत् ।
आह परः-क्रियातो विभागः, तत एकस्मिन् परमाणौ क्रियायां तत्रैव सं युक्तो नान्यत्र । नहि देवदत्ता[द्] दण्डस्य विभागो (गे) [४५१ख] सर्वतः सर्वस्यः भवितुमर्हति तत्कथमुच्यते
'तदन्यत[म]विभामैमह (भागे सह)सर्वेषां विभागप्रसङ्गात्' इति ? तन्न ; संयोगविनाशस्य २५ विभागत्वात् , संयोगस्याधकत्वे (स्यैकत्वे) तस्याप्येकत्वात्। न हि एकस्य घटस्य बहवः प्रध्वंसाः।
अथ विभागात् संयोगविनाशो न पुनः सं एव सं इति चेत् ; न ; तथाऽप्रतीतेः । नवै खलु संयोगप्रतीति (संयोगविनाशात् पृथक् विभागप्रतीति)रस्ति, यतःसः सन् तस्य विनाशक (कः) स्यात् । [तथा] प्रतीतिसद्भावे या (च) सकृदेव संयुक्तं विभक्तो (संयुक्तविभक्तौ)पुरुदंडादिति (पुरुषदण्डाविति)
प्रतीतिः स्यात् । न चैवम् , विरोधात् । नहि यदैव दण्डी तदेकदण्डी (तदैवाऽदण्डी) पुरुषो ३० भवति । अथ संयोगस्य विनश्यदवस्थायाः विभागः तेनायमदोषः; "तदवस्था संयोग एव चेत् ;
(१) पूर्वादिदिग्वर्तिभिः परमाणुभिः । (२) तदन्य' इति निरर्थकं पुनलिखितम् । (३) विभागः । (४) तद्विनाशरूपस्य विभागस्य । (५) भवति । (६) संयोगनाशः । (७) विभागः । (८) विभागः । (९) संयोगस्य । (१०) जायते । (११) संयोगस्य विनश्यवस्था ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org