________________
८।३४]
५७७
आत्मनः सप्रदेशत्वम् सन्तु तत्त्वतः तत्प्रदेशा इति चेत् ; अत्राह-कुतश्चित् तदविनाभाविकार्यात् प्रदेशनियमाभ्युपगमे 'कर्णशष्कुल्यवरुद्धः अन्यः तद्विपरीतः अन्यः प्रदेशः इति' नियमस्य अङ्गीकरणे तस्य आकाशस्य भेदा(दोड)वश्यंभावी । तथा च एकत्वं गगनस्य दुर्लभम् , आत्मप्रदेशवत् प्रसङ्गश्च चिन्त्यः । निष्प्रदेशत्वे तस्य पुनरपि दूषणमाह-विप्रकृष्ट इत्यादि । यत्र न[भ]सि समवेताः सर्वशब्दाः तत्र संयुक्तं मनः ततः संयुक्तसमवेतवस्य ग्रहणकारणस्य भावात् तं ५ च वरणमिति (तत्श्रवणमिति) तर्हि आसन्नेऽपि एतदेव श्रवणकारणम् । स्यान्मतम्-मनःसंयुक्तात्मप्रदेशसंप्राप्तः शब्दो मनसा गृह्यते, 'विभुद्रव्यविशेषगुणत्वे सति अस्मदाद्युपलभ्यमानत्वात् , सुखादिवत् , ततोऽयमदोष इति; तत्राह-आत्माकाशयोः सर्वगतसात् मनसश्च [स] क्रियखात् विप्रकृष्टदेशानामपि शब्दानां श्रुतिः स्यादिति ।
एवं मन्यते-क्रियावत् मनः शब्दोऽक्रियः, ततः शब्ददेशं प्राप्य तत् प्रकाशकं चक्षरश्मि- १० वत् । एवं च दूरादिप्रतीतिः सौगतकल्पिता न विरुद्ध्यते। वीचीतरङ्गन्यायेन अक्रियस्य शब्दस्य आगमनप्रयासपरिहारश्च । अध्व (अथ) दूरदेशानां श्रवणे कथं निकटा प्रतीतिः ? कथं सखो(शाखा) प्रदेशे चन्द्रमसः प्रतीतिः ? [४५०ख] इन्द्रियस्याऽऽशुवृत्तेः ; अत्रापि मनसः शब्दग्रहणे तथैव आशुवृत्तिः । अथ मनः शरीरं विहाय नान्यत्र याति ; कथं चक्षुर्याति ? गमनादर्शनम् उभयत्र ।
स्यान्मतम्- चक्षुः अर्थदेशं गत्वा तं प्रकाशयति तैजसत्वात् प्रदीपवत् ; मनोऽपि इन्द्रियत्वात् नयनवत् इति समानम् । अथ ये श्रूयन्ते शब्दाः तद्देशे तद्गमनम् नान्यत्र देशे ; केन कृतमेतत् ? अदृष्टेन इति चेत् ; अत्राह- अदृष्ट इत्यादि । अदृष्टेन नियमे मनः अतिरिच्यताम् अदृष्टत एव तदर्थसिद्धेः त[द]नर्थकमिति ययुक्तं (यदुक्तं) परेण गन्धैकस्य (अन्थे, * "एकस्य) सर्वैः [मूर्ति]मद्भिः युगपत् संयोगः सर्वगतवम्, आत्मार(त्मादेः") इति ; २० तं निरसत्वे (तन्निरंशत्वे) अनुपपन्नम् इति । यद (तद् दूषय)न्नाह-प्रदेशा इत्यादि ।
[प्रदेशाः सन्तु मा वा सम्बध्यद युगपद्विभुः।
अनन्तैरपि पर्यायैः तथात्माप्यसकृत्स्वतः ॥३४॥ विभोरात्मनः अन्यस्य वा यावद्भिः परस्परव्यावृत्तैमूर्तिमद्भिः संयोगाः तावन्तस्ते २५ परस्परव्यावृत्तात्मानः संयोगिनः तावतः स्वभावभेदान् अन्यथानुपपत्त्या साधयन्ति । ते पुनः प्रदेशव्यापदेशभाजो भवन्तु मा वा, भावस्तादात्म्यात्तैः स्वत एव सम्बध्येत । एतेन 'पर्याय। संयोगभेदाभावे तदन्यतमविभागे सर्वेषां सह विभागप्रसङ्गात् । तथा च कस्यचिच्चलने सर्वकार्यद्रव्यं सकृदेव चलेत् सर्वत्र संयोगैकनोपपत्तेः । तथा विभुद्रव्यवत् परमाणोः स्वत एवानन्तपर्यायसिद्धिः ।]
प्रदेशा भागाः सन्तु मा व(वा)भूवन् प्रदेशा गगनादेः तथापि सम्बध्येत् विभुः (१) आकाशस्य । (२) विभुद्रव्यम् शब्दे आकाशः । (३) त्यज्यताम् इत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org