________________
दूस
५७६
सिद्धिविनिश्चयटीकायाम् [८ सर्वशसिद्धिः [यथात्मा सम्बध्येतानन्तप्रदेशैः स्वतः ।
तथार्थोऽनन्तपर्यायैः तन्नार्थाः समवायिनः ॥३२॥ कथञ्चित्...]
यथा अनन्तप्रदेशैः सम्बध्येत विस्तरात्मादि(?)स्वतः न समवायादिवशात् ५ तथा अर्थः प्रमेयो घटादिः अनन्तपर्यायैः तत्तन्मा(तत्तस्मात् ) नार्थाः समवायिनः समवायवन्तः ।
कारिकां व्याख्यातुमाह-कथञ्चिद् इत्यादि । सर्व[सुगमम् ] । आत्मप्रदेशाभावे पुनरपि दोषमाह-तद् इत्यादि ।
[तत्प्रदेशोपचारेऽपि युगपज्ज्ञानसम्भवः ।
दूराच्छब्दश्रुतिरस्ति यथैवैकान्तवादिनाम् ॥३३॥ परमार्थतः प्रदेशनानात्वाभावे आकाशस्य प्रत्येकं रूपादिज्ञानं प्रसज्येत । आकाशस्य कर्ण' 'कथं स्युः। कार्यव्यतिरेकोपलक्षणाच्च कारणभेदस्य । न हि अग्निरारोपितोऽपि दहति, . मुख्यार्थाभावप्रसङ्गात् । कुतश्चित् प्रदेशनियमाभ्युपगमे तद्भदोऽवश्यम्भावी । विप्रकृष्ट
देशानामपि शब्दानां श्रुतिः स्यात् संयुक्तसमवेतत्वस्य ग्रहणकारणस्य भावात् आत्माकाशयोः १५ सर्वगतखात् मनसश्च सक्रियखात् । अदृष्टनियमे मनः अतिरिच्यताम् ।]
तस्य आत्मनः प्रदेशोपचारेऽपि वस्तुतोऽप्रदेशस्य उपचरित[प्रदेशोपगमेऽपि युगपज्ज्ञानसंभवः । दूषणान्तरमाह-दूरात् शब्दश्रुतिरस्ति एकान्तवादिनां नैयायिकानाम् ।
कारिकार्थं दर्शयन्नाह-परमार्थतः अनुपचारतः प्रदेशनानाखाभावे भ्वाकामस्य (आका२० शस्य) प्रत्येकं रूपादिज्ञानं प्रसज्येत । यदेव हि चक्षुरादीनामन्यतमेन मनः संयुज्यते तदेव
आकाशेन, ततः संयुक्तसमवायाद् रूपादिग्रहणकाले गगनसमवेतसर्वशब्दग्रहणमिति । यदि पुनः आकाशेन संयोगेऽपि न श्रोत्रेणं इत्युच्यते; अत्राह-आकाशस्य इत्यादि । कर्णे आदि (त्यादि) परमतम् आशङ्कते दूषयितुम् । अत्र दूषणं कथम् इत्यादि । स्युरेव । कुतः ? इत्याह-कार्य
इत्यादि । कार्य शब्दः तज्ज्ञानं च आकःशस्य, तस्य व्यतिरेकः सर्वत्राभावः तेन उपलक्षणाच्च २५ कारणभेदस्य[ग]गनप्रदेशनानात्वस्य । उपचारितः (चारतः) तस्य प्रदेशभेदः ततः श्रुतिभेदः इति
चेत् ; अत्राह-नहि अग्निरित्यादि, कुतो न दहत्येव ? इत्यत्राह-[आरोपितोऽ]पीत्यादि । माणवकाद् अन्यस्मिन्नपि जलादौ न दहति[४५०क] अयमिति यमुखोस्यः(यन्मुख्योऽर्थः) तस्य अभावप्रसङ्गात् । उपचारस्य सर्वत्र कर्तु[शक्यत्वात् ] सम्बन्धाद् उष्णस्पर्शाभावस्य च अविशेषादिति भावः ।
(१) प्रदेशरहितस्य । (२) संयोगः । (३) यतोऽग्निरपि स्वतः उष्णस्पर्शरहितः, उष्णसम्बन्धादेव उष्णो भवति इत्यर्थः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org