________________
८।३१ ] न बौद्धमते सर्वशत्वम् ।
५७५ इति व्यपदिश्यते विरत (चिरतरातीत)वत् । तर्हि यथा कारणं कार्यकाले सदेव तदुत्पादयति तथा संवेदनं प्रमेयसमये सदेव तद् गृह्णाति, तत्फलत्वाद् इति नैयायिकः; तत्राह-यदि कुतश्चित् सम्बन्धात् तदुत्पत्तिलक्षणात् संवित्तेः परिच्छेदसामर्थ्यम् अत्र दूषणम्-प्रत्येवंक(प्रमेय)ज्ञानकाल एव वस्तुनि स्यात् परिच्छेदसामथ्र्यम् न अतीते न भाविनि इति कथं कस्यचित् सर्वज्ञत्वमिति भावः । अतीतानागतं वा ज्ञानस्य कारणम् इति तत्रैव तत्सामर्थ्यम् इति । नहि ५ अतीताऽनागतसादृश्यमपि दर्शनस्य मिथ्याबुद्ध्यवसायादन्यतः परस्य नि(इति) मन्यते ।
संप्रति दर्शनस्य न सम्बन्ध उपकाराभावादिति चेत; अत्राह-उपकार्योपकारकभावस्य दृश्यदर्शनयोः सर्वदा कालत्रयेऽपि भावात् मिथ्याविकल्पबुद्धः सकाशाद् इति ।
ननु *"ग्राह्यं न तस्य ग्रहणं न तेन" इत्यादिवचनात् 'स्वरूपे(प)वेदनमेव सर्वज्ञत्वम् न सर्ववेदनम् इत्यपरः; तत्राह-तदेतद् द्रव्यम् इत्यादि । तत् तस्माद् उक्तान्न्यायात् एतत् १० प्रतीयमानं द्रव्यं स्वत एव[न]भिन्नपरिणामाद् यथा परिणामलक्षणं परिणामो लक्षणं यस्य इति तथैव जीवात्मकं भेनंतत्(एतत्) स्वत एव नान्यतो ज्ञानस्वभावकं स्वपरग्रहणपर्यायात्मकम् प्रत्येयं चित्रैकरूपस्य स्वपरग्रहणस्वभावाविरोधात् । चक्षुरादि[४४९क] व्यापार रेणैव स्वयं त]स्य तत्स्वभावकुत्वे (ववत्त्वं) स्यादिति चेत् ; अत्राह-कारक इत्यादि । कारकं कादि, जानातीति ज्ञापक आत्मा तयोः शक्तः स्वतः सद्भाविन्या एव परतः चक्षुरादेरपि परि- १५ णामात्मोपकार्यविशेषप्रतिलम्भोपपत्तेः ।
ननु च ज्ञातृविचारे किमर्थम् अप्रस्तुतस्य कारकस्य ग्रहणमिति चेदह (चेत् ? दृष्टा)न्तार्थम्। यथैव कारकस्य शक्तिः स्वतः सती शालिबीजादेः, परतोऽपि परिणामात्मोपकार्यविशेषप्रतिलम्भः तथा ज्ञातुरपि । नहि किश्या (कृष्या) दिना यववीजस्य शाल्यकुरजातिका(जनिका) शक्तिः आधीयते ।
२० निगमयन्नाह-तन इत्यादि । य [त एवं] तत्तस्मात् क्वचिद् आत्मा अन्यो वा अज्ञानात्मा ज्ञानस्वभावरहितो ज्ञानसम्बन्धात् न ज्ञाता नाम घटादिवद् इति ।
ननु घटादेः तत्सम्बन्धोऽपि नास्ति तत्कथं निदर्शनमिति चेत् ; न ; समवायस्य व्यापकस्य सर्वत्राविशेषात् ] निषेधाच्च । स्वत एव ज्ञानस्वभावत्वे सर्वस्य सर्वदर्शित्वमिति चेत् ; अत्राहस्वत एव इत्यादि । तदन्ययेर्थान्तरसम्बन्धा व्यापप्रबोधश्च (तदन्यया अर्थान्तरसम्बन्धिन्या २१ वा स्वापप्रबोधश्चेत् आत्मनः) सकलग्रहणप्रकाशोऽपि । यत एवं तत् तस्माद् अयं स्वसंवेदनाध्यक्ष आत्मैव स्वतः संविदात्मा नादा (न तु आ)त्मसंविदोर्भेद इत्यर्थः । स च किंभूतः ? इत्याह-सुखादिरूपेण इत्यादि । दोषावरणविमुक्तो दोषावरणवैकल्यात् स्वलक्षणं स्वस्वरूपम् अनन्तज्ञानादि केवलम् असहायं प्रतिपद्यत यतः स्वभावविभुत्वम् इति।।
भवन्तु तर्हि आत्मनः स्वभावभूताः [४४९ख] प्रदेशाः ; इत्यत्राह-यथा इत्यादि । ३०
(१) कार्यम् । (२) प्रमेयम् । (३) द्रष्टव्यम्-पृ० ४१९ । (४) ज्ञानस्वभावकत्वम् । (५) ज्ञानसमवायोऽपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org