________________
सिद्धिविनिश्चयटीकायाम
] ८ सर्वशसिद्धिः तदाकारं स्यात् , अन्यथा सर्वभाविभावकार्यकाल एव तेन भवितव्यमिति [४४७ख] न ज्ञायेत नात्र कार्यकाले, कस्य काले तेन भवितव्यम् इति । तथा अनादिसकलार्थकार्यकालेऽपि भवति इदम् । एवं वक्तव्यम् तथा एकस्माद् भिन्नकालं कार्यद्वयम् *"नाक्रमात् क्रमिणो भावाः" [प्र० वा० ११४५] इत्यादिविरोधात् । अथ योगिनः सकलं वर्तमानमेव, न तस्य किञ्चित् ५ कारणं न च कार्यं नापि तज्ज्ञाने स्वाकारसमर्पकम् इति; प्रश (थ)मकार्यका (क) रणे च तज्ज्ञाने सकलं तथैव भवेत् । अथ न ज्ञानम् अतत्कार्यम् अतदाकारं ग्राहकम् ; सकलं तथास्तु, *"यस्य यावती मात्रा" इति न सर्वाविशेषः । एतत् सौगतं प्रति । तथा संविदा (दां) तत् तस्माद् अर्थात् जन्म नवै । नहि विवक्षितज्ञानं प्रति सर्वे भाविनो भूता वा अर्थाः कारणम् । कार्यकाले सन्निहितस्यैव
योगेः (योगैः) कारण]त्वोपगमात् , इतरथा अर्थदेशे असन्निहितं तत्र चक्षुर्ज्ञानमुपजनयेत् , १० अदृष्टो वा अग्न्यादिदेशे [असिन्निहितः] तस्य ऊर्ध्वजल (ज्वलननिमित्त) मिति नात्मसर्वगत्वम् । एतद् उभयं प्रति ।
कारिकार्थमाह-कुतश्चिद् इत्यादिना । कुतश्चिद् अनन्तरादतीताद् भाविनो वा विज्ञानसमानकालाद्वा अर्थात् उत्पन्नं ज्ञानं यदि प्रत्यक्षम् अर्थसाक्षात्कारि । कस्मिन् सति ?
इत्याह-तदतिक्रान्तावे[व]तस्य अर्थादुत्पन्नार्थस्य अतिक्रान्तिः अतिक्रमः तस्यामेव योग्यतया १५ तत्त्व[स्य]प्रमेय तत्प्र (यस्य प्रत्यक्षं तदुत्पन्नत्वादिति भावः। अनागतेऽपि अपिशब्दाद् वर्तमानेऽ
पि किन्न स्यात् ? 'प्रत्यक्षम्' इत्यनुवर्तते, तत्र च उक्तो दोषः [४४८क]। विपक्षे बाधां दर्शयन्नाह-तद् इत्यादि । तेन प्रमेयेण सारूप्यातिशयो यः तस्य संभवात् ततः प्रमेयादुत्पत्तेश्च तं प्रत्य(तत्प्रत्यक्ष)त्वकल्पनायाम् अतिप्रसङ्गात् । तत्र सारूप्यातिशयात्तत्कल्पनायाम्
अतिप्रसङ्ग दर्शयन्नाह-यस्य दर्शनयोः इत्यादि । सुगमम् । २० अत्रैव दूषणान्तरं दर्शयन्नाह-अलम् इत्यादि । तात्पर्यमत्र-यदा ग्राह्यतहे[तु]
त्वमेव तदाकार (कारार्पण) क्षमम् उच्यते तदा 'अमुत एव ग्राह्यता' इत्युक्तं स्याद् अलं पर्याप्तं असतो ग्रहकल्पनया। कुतः ? इत्याह-अतिप्रसङ्गात् । तत उत्पत्तेश्च तत्कल्पनायाम् अतिप्रसङ्गं दर्शयन्नाह-यथैव हि इत्यादि । येनैव हि प्रकारेण कारणाभावलक्षणे
भावलक्षणे भवतः जायमानस्य । किंभूतस्य भवतः ? स्वतन्त्रस्य कार्यवम् अत्यन्तमयुक्तम् । २५ एतच्च नैयायिकेनापि उक्तं सौगतं प्रति । तथैव स्वस्य स्वस्य कार्यस्य यत् कारणस्वलक्षण
(ण) ज्ञानकालेऽविद्यमानं तस्य संवेदनं च अन्यन्तमयुक्तम् । एवं मन्यते-यथा सौगतस्य[य]दि नष्टं कारणं न कार्यजन्मनि व्याप्रियते कार्यं वा न 'तस्य' इति व्यपदिश्यते, तथा संवेदनकाले अविद्यमानं न तग्राह्यशक्तिसमन्वितम्, संवेदनं वा ग्रहणसामर्थ्यसहितम्, अन्यथा हेतुफलभावो भिन्नकालयोः ग्राह्यग्राहकवद् भवेदविशेषात् । अथवा, संवेदनस्य कारणं स्खलक्षणं तस्य ३० [४४८ख] संवेदनमत्यन्तमयुक्तम् कार्यविशेषत्वादस्य । कारणात्यये च जायमानं न 'तस्य'
(१) अग्नेः। (२) "भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदुः । हेतुत्वमेव युक्तिज्ञास्तदाकारार्पणक्षमम् ॥"-प्र० वा० । (३) तत्प्रत्यक्षत्वकल्पनायाम् । (४) 'भावलक्षणे' इति व्यर्थम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org