________________
८।३१]
न बौद्धमते सर्वशत्वम्
५७३ परः प्राह-इन्द्रियसंयुक्ते घटे सत्ता समवेता तद्विशेषणं प्रागभावादिः, ततः संयुक्तसमवेतविशेषणीभाव इति ; तदप्यसारम् ; नित्यायाः तस्याः [४४७क] तद्विशेषणायोगात् आत्मादिवत् ।
किंच, प्रागभावो घटकाले विनश्यति तदा तस्यापि प्रध्वंसोऽस्ति, तथा प्रध्वंसस्य प्रागसतो भावे प्रागभावः, न च तत्रेयं ग्रहणप्रद्विया (प्रक्रिया) ; सत्तासमवायाऽभावादभावस्य । न ५ च तस्यानित्यताव्यपदेशः ; उँभयान्तव्यवधिसत्तासम्बन्धाभावात् । नास्तीति चेत् ; पदादौ(पटादौ) कः समाश्वासः ? उपचारात् स तत्रेति चेत् ; अन्यत्रापि ततः स्यादविशेषात् । विशेषणीभावो परतो व्यमानोऽवधानात् (भावोऽपरतः सम्बध्यमानश्चेत् ) तस्यापि तेन कः सम्बन्धो येन ग्रहणं भवेत् ? विशेषणीभाव इति चेत् ; किं पुनरसाधनेकः (सौ अनेकः ?) तथा चेत् ; समवायोऽपि स्यात् । समवेतबुद्धरभेदान्नैवं चेत् ; तन्निबन्धनापि बुद्धिर्न भिद्यत १० इति समानम् । तन्न असदात्ममा इन्द्रियसन्निकर्ष इति न तस्य ग्रहणम् इति[न]सर्वज्ञत्वं सन्निकर्षवादिनः इति स्थितम् ।
तथापि सर्वज्ञत्वोपगमे नैयायिकवत् सौगतस्यापि किञ्चित् स्वाभ्युपेतं तस्य (नश्य) तीति दर्शयन्नाह-प्रत्यक्षम् इत्यादि ।
[प्रत्यक्षं सर्वविषयं भिन्नकालमनागतम् ।
वेत्ति चेदर्थसारूप्यात् प्रामाण्यं संविदां न वै ॥३१॥ कुतश्चिदर्थादुत्पन्नं ज्ञानं यदि तदतिक्रान्तावेव योग्यतया प्रत्यक्षम् ; अनागतेऽपि किन्न स्यात् ? तत्सारूप्यातिशयसंभवात् तदुत्पत्तेश्च तत्प्रत्यक्षत्वकल्पनायामतिप्रसङ्गात् । यस्य दर्शनयोः ''अलम् असद्ग्रहकल्पनया अतिप्रसङ्गात् । यथैव हि कारणाभावलक्षणे भवतः स्वतन्त्रस्य कार्यत्वमत्यन्तमयुक्तं तथैव स्वकार्यकारणस्वलक्षणसंवेदनं २० च । यदि कुतश्चित् संवित्तेः परिच्छेदसामर्थ्यम् ; प्रमेयकाले एव स्यात् । दृश्यदर्शनयोरुपकार्योपकारभावस्य सर्वदा भावात् । तदेतद् द्रव्यं स्वत एव यथा परिणामलक्षणं तथैव जीवात्मकमेतत् स्वत एव ज्ञानस्वभावकं प्रत्येयम् । कारकज्ञापकशक्तेः स्वतः सद्भाविन्या एव परतः परिणामात्मोपकार्यविशेषप्रतिलम्भोपपत्तेः । तन्न कश्चिदज्ञानात्मा ज्ञानसम्बन्धात् ज्ञाता नाम घटादिवत् । स्वत एव सकलग्रहणप्रकाशोऽपि । तदयमात्मैव स्वतः २५ संविदात्मा सुखादिरूपेण, दोषावरणविमुक्तः स्वलक्षणमनन्तज्ञानादि केवलं प्रतिपद्येत ।]
प्रत्यक्षं तत् सर्वविषयम् , किंभूतम् ? अनागतंभावि, उपलक्षणमेतत् तेन भूतमपि गृह्यते । तत् किं करोति ? इत्याह-भिन्नकालार्था(कालम् अर्थ) वेत्ति चेद् यदि भूतं भाविनो भावि भूतानिशे (निःशे) षानिति प्रामाण्यं संविदा(दां)नवै नैव अर्थसारूप्यात् किन्तु अन्यतः कुतश्चिद् अतिशयाद् भवेत् । नहि भाविनो योगिनोऽपि ज्ञानं जायते, यतः ३०
(१) सत्तायाः । (२) प्रागभावस्यापि ।(३) प्रागभावप्रध्वंसाभावमध्यवर्तिन्याः सत्तायाः सम्बन्धाsभावादित्यर्थः । अर्थात् यः उत्पद्यते विनश्यति च स एवानित्यः । (४) विशेषणीभावः । (५) भेदाsभावात् । (६) विशेषणीभावनिबन्धनापि । (६) अर्थात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org