________________
१ सम्बन्धः ।
५७२
सिद्धिविनिश्चयटीकायाम् [८ सर्वशसिद्धिः प्रागभावादीनामिति । अपरापेक्षया इदमुच्यते। अयमभिप्रायः येषामर्थानामिन्द्रियसन्निकर्षः सदात्मनाम् तेषां तेन ग्रहणमस्तु, असदात्मनानुमा (नां तु सत्ता) नास्तीति कथं तेन ग्रहणम् ? घटादिप्रागभावादिः [न]इन्द्रियेण संयुक्तः अद्रव्यत्वात्। नापि तत्र समवेतः; तत्त्वस्त (तत्त्वतस्त). त्प्रत्ययप्रसङ्गात् । अत एव सम्बन्धसम्बन्धोऽपि दुर्घटः।। ५ स्यान्मतम्-इन्द्रियेण घटादिक (क) सन्निकृष्टं तेन च प्रागभावादिः, ततो रूपादिवद्
अस्य ग्रहणमिति ; तदस व्य (सत् ; य) तः अभावस्य अद्रव्यत्वात् न तेर्ने घटस्य संयोगः । न च समवायः ; अभावकाले तदभावात् । अत एव नान्योऽपि सम्बन्धः । ___अथ मतम्-घटसंयुक्तेन्द्रियस्य घट (टा)भावेन संयुक्तविशेषणीभावसम्बन्धः, रूपाद्यभावेन
संयुक्तसमवेतसमवेतविशेषणीभावसम्बन्धः, रूपा (पत्वा) द्यभावेन संयुक्तसँमवेतसमवेतसमवेत१० विशेषणीभावः, [४४६ख] एवं कर्मादावपि वक्तव्यमिति ; तदप्यसत् ; सु(स्व) समया(य)
व्याघातात् । यद (यो) हि घटस्य प्रा[गभावप्र]ध्वंसाभावाभ्या (भ्या) साक्षात् सम्बन्धः सैव (स एव) अनित्यता इति । *"उभयानव्यधि(न्तव्यवधि)सत्तानित्यता" [न्यायवा० पृ०२८४] इति किमनेन ?
किंच, विशेषणीभावसम्बन्धाप्रतिपत्तौ 'इदमस्य विशेषणम्' इति कुतः प्रतिपत्तिः ? न १५ हि संयोगाप्रतिपत्तौ 'इदमप्यस्य संयोगि' इति संवित्तियुक्ता ।।
ननु यथा समवायाग्रहणेपा (णेऽपि 'इ)दमत्र समवेतम्' इति प्रतीतिः, तथा अत्रापीति चेत् ; न ; साध्यसमत्वात् निदर्शनस्य । 'समवेतम्' इति हि समवायापेक्षिणी प्रतीतिः, यथा 'संयुक्तः' इति संयोगातप (गापेक्षिणी । न च तंदप्रतीतौ सा युक्ता, अन्यथा शुक्लताऽप्रतीतौ शुक्ल
इति संवित्तिः स्यात् । न चैवम् इति । प्रतीयते सोऽपीति चेत् ; "तस्य इन्द्रियेण कः सम्बन्धः ? २० विशेषणीभाव इति चेत् ; अनवस्था। अपि च, इन्द्रियघटसंयोगकाले न प्रागभावः प्रध्वंसो
वा, [तत् कथम् इन्द्रियस्य तेन पारम्पर्यसम्बन्धः। न हि असता सतः सम्बन्धः खरविषाणेनेव । प्रापश्चात्तस्थोर्भाव (श्चात्स्थोऽभावः) इति चेत् । तदा न घटः नापि इन्द्रियसंयोगः । न च अभावोऽप्रतिपन्नो विशेषणम् , दण्डवत् । प्रतिपन्नश्चेत् ; न तावेन् (तावत्) सह घटेन,
"तत्काले "तदभावात् । नापि केवलः; तद्ग्रहणोपायाभावात् । अत एव स्मर्यमाणोऽप्यसौ" न २५ विशेषणम् ।
(१) द्रव्यद्रव्ययोः संयोगात् । (२) संयुक्तसमवायः समवेतसमवायादिको वा, विशेषणविशेष्यभावो वा, न संभाव्यः, सम्बद्धयोरेव तद्भावात् । (३) सम्बद्धः। (४) अभावेन । (५) घटस्यासद्भावात् । (६) एकः 'समवेत' शब्दोऽधिकः । इन्द्रियसंयुक्त घटे रूपं समवेतं तद्विशेषणमभावः । (७) एकः 'समवेत' शब्दोऽधिकः । इन्द्रियसंयुक्त घटे रूपं समवेतं तत्र रूपत्वं समवेतं तद्विशेषणमभावः । (८) तुलना-"यस्योभयान्तव्यवधिसत्तासम्बन्धवाचिनी । अनित्यताश्रुतिः = यस्य नैयायिकादेः उभयस्य प्राक् पश्चाद् भावस्य अन्तस्य व्यवधायकः सत्तासम्बन्धः तद्वाचिनी अनित्यताश्रुतिरिष्टा"-प्र० वा. मनोरथ० २।१११। "या उभयान्तपरिच्छिन्नवस्तुसत्ता सा अनित्यता"-न्यायवा०। (९) संयोगसमवायाप्रतीतौ। (१०) संयुक्त इति समवेत इति वा प्रतीतिः। (११) संयोगस्य समवायस्य वा । (१२) प्राक्पश्चाच्च तिष्ठतीति प्रापश्चात्स्थः । (१३) घटकालें । (१४) अभावस्य असद्भावात् । (१५) अभावः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org