________________
८।३०]
न यौगमते सर्वशत्वम् [तत् ] सिद्धिरिति चेत् ; कु(क्व) तस्य तदा (द) पेक्षा ? रूपादौ इति चेत् ; तत्र चक्षुरादिलिङ्गादेर्भावा[त् ] सिद्धसाधनम् । तत्र ततोऽप्यन्यस्य साधने ; साङ्ख्यमतवद् अनवस्था ।
किंच, सर्वस्य तत्कृपे वे समस्य (तत्क्षयोपशमस्य) प्रमेये प्रवृत्तावधि (वपि) ज्ञानं पराश्रयम् इति प्रत्यक्षत (क्षं न) स्यात् । कु (क्व) ? भाविनि सुखादाविति चेत् ; न ; उक्तमत्र [अ]मनस्कसुखादिना व्यभिचारादिति ।
किं च, एवं वादिनः सर्वमध्य[क्ष]म् इन्द्रियजं तत्त्वात् कुतो न सिध्यति ? अन्यथानुपपत्तिवैकल्यात् ; इतरत्र समानमिति स्थीयतामविवादेन ।
__ भवतु वा परपक्षि (परि) कल्पितं मनः ततो ज्ञानं वा, तथापि यौगमते 'नं सर्वज्ञानं वा तथापि यौगमते' न सर्वज्ञः इति दर्शयन्नाह-स्वत इत्यादि ।
[स्वतोऽसत्यः पुनः संवित्प्रकाशासंभवाद्यतः।
अत्यन्तमात्मनि परतः अनवस्थानतः कुतः ॥३०॥ सत्यपि सर्वार्थसन्निकर्षे असर्वज्ञत्वं सदसदात्मकत्वात् वस्तुनः । यतोऽयं योगनिमितेन्द्रियशरीरः ऋद्धौ सर्वान् अनेकधा पश्येदनुस्मरेद्वा ।]
स्वतः स्वरूपेणं अत्यन्तम् एकान्तेन आत्मनि स्वरूपेऽसत्या(त्यः)तत्राव्या[प्रियमा]णायाः संविदो ज्ञानस्य प्रकाशासंभवात् तस्याः प्रतिभा[साभा]वात् कुतः पुनः १५ सर्वज्ञत्वम् स्वबुद्धेरप्यग्रहणात् । तन्न युक्तम्-*"सदसद्वर्गः कस्यचिद् एकज्ञानालम्बनमेक- . त्वात् (नम् अनेकत्वात्) पंचाद्गुणवत् (पञ्चाङ्गुलवत्)।" इति; तत्संविदा व्यभिचारात् । ज्ञानान्तरात् तस्याः प्रकाशः ; इत्यत्राह-परतः अन्यतो ज्ञानात् तस्याः 'प्रकाशासंभवात्' इति सम्बन्धः, अनवस्थानेतो(स्थानतोऽर्थमात्रस्यापि ग्रहणाभावात् ।
यद् यस्मात् [सन्निकर्ष]सत्वा (सत्त्वा) दयं परीक्षमाण आत्मा सर्वान् अर्थान् पश्येत् । २० किंभूतः ? इत्याह-योग इत्यादि । कस्मिन् सति ? इत्याह-सिद्धा(ऋद्धा) वित्यादि । कथं किंच ? इत्याह-अनेकवा(धा) इत्यादि । तथा अनुस्मरेद् वा । 'यतः' इति वा आक्षेपे [४४६क] नैव[अनुस्मरेत् ] ।
अथ संविद आत्मनि सत्त्वेऽपि सन्निकर्षवादिनः प्रकारान्तरेण सर्वज्ञत्वाभाव (व) दर्शयनाह-'सत्यपि' इत्यादि । संभवानायाम् अपि शब्दः । योगनिर्मितेन्द्रियशरीरस्यापि योगिनः २५ मनसः चक्षुरादेर्वा अथैः सन्निकर्षस्य भावतो[5]भावाद्रिद्धि (वात् । ऋद्धि)प्रादुर्भावात् पूर्वम् उत्पद्य विनष्टैः सद्धि (तंद्)व्युपरमात् , "ऊवं उत्पत्स्यमानैः सन्निकर्षाभावात् । तथापि उच्यतेसत्यपि सर्वतः सर्वाथैः सन्निकर्षे अस्य 'अयम' इत्यनेन जातविभक्तिपरिणामेन सम्बन्धात् । किम् ? असर्वज्ञत्वम् । कुतः? इत्यत्राह-सदात्मकत्वा सदा(सदसदा)त्मकत्वात् सदात्म[कत्वादसदात्मकत्वाच्च । कस्य ? वस्तु[नः]इति । द्रव्यादीनां[नां सदात्मकत्वम् अ]सदात्मकत्वं ३०
(1) भावेन्द्रियस्य । (२) द्रव्येन्द्रियापेक्षा । (३) तेन एकादशेन्द्रियस्वीकारात् । (१) अध्यक्षत्वात् । (५) इति चेत् ।। (६) 'न सर्वज्ञानं वा तथापि यौगमते' इति द्विलिखितम् । (७) स्यात् । (८) परमार्थतः । (९) सन्निकर्षस्य नष्टत्वात् । (१०) आगामिकाले । ऋद्धिप्रादुर्भावानन्तरम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org