________________
८।२९]
न आत्ममनसोः निरंशत्वम् तद्वतो न व्यतिरिच्यन्ते । 'घटस्य रूपादयः' इति न स्यादिति चेत् ; 'तद्वतः शक्तिः' इति कथम् ? गुणगुणिनोरभेदे एकग्रहणे सर्वग्रहणमिति चेत् ; किं पुनद्रव्यादिग्रहणे सन्नि (शक्ति)ग्रहणम् ? तथा चेत् ; मन्त्रादौ संशयादिः कुतः ? इति यकिञ्चिदेतत् । [३४४क] परमतम् आशङ्कते नवै इत्यादि । तच्छब्देन आत्मानि (दि)परिग्रहः । तत्र दूषणमाह-निरंश इत्यादि ।
[निरंशात्माणुसंयोगात् स्मृतिनित्यं प्रसज्यते ।
परमाणुवदिष्टं चेत् स्मृतिषटकं सहेक्ष्यताम् ॥२९॥ आत्ममनसोः निरंशत्वैकान्ते सन्निकर्षासंभवात् अकादाचित्त्वात्मविभुत्ववद्यावद्रव्यभावित्वात् कथं तत्प्रभवगुणविशेषस्य अन्यानपेक्षिणः कादाचित्कत्वं यतः कदाचित् स्मृतिः । अदृष्टकारणत्वे मनोऽहेतुकं स्यात् । सत्यपि अणौ मनसि आत्मनः स्मृतीनां १० पण्णां सप्तानां वा सहैवोत्पत्तिः स्यात् परमाणुवत् । तदेतत् तदागमपठितं करणमात्मान्तरं द्रव्यान्तरं सदपि विचार्यमाणं अन्तर्बहिश्वाकिञ्चित्करम् ।] ___अणुरिति मनसोऽभिधान (नम) निरंशी यौ आत्माणू तयोःसंयोगाद्हेतेः (हेतोः) स्मृतिः नित्यं सदा, उपलक्षणमेतदिति सर्वत्र च प्रसज्यते । न खलु समर्थस्य कारणस्य सर्वत्र सर्वदा भावे कार्यकादाचित्कत्वम् ; अतत्त्वार्थत्वप्रसङ्गात् ।
ननु संयोगस्य द्रव्ये सर्वत्राऽवृत्तेः नायं दोषः, नहि परमाणूनां संयोगाः (गः) तावद्व्याप्य वर्त्तते । तदाह-परमाणुवद् इष्टं चेत् इति । यथा परमाणुषु संयोगो वर्तमानो न सर्वदा तदात्मनि वर्त्तते अयावद् द्रव्यभावित्वादस्य तथा आत्ममनसोरप्य (रप्ये) तदिष्टं चेत् ; अत्रोत्तरमाह-स्मृतिषटकं सह युगपद् ईक्ष्यताम् ।।
एवं मन्यते-आत्मनो व्यापिनो मध्ये वर्तमानस्य अणुमनसोऽयावद्र्व्यभाविनोऽवश्यं २० घट (षट् ) संयोगाः आत्मन[:], स्वात्मना तस्य षभिः दिग्भिः सम्बन्धात् , तथा च तयोः तदेव सावयवत्त्वम् , अन्यथा कुतोऽस्य प्रदेशवृत्तित्वमिति ? अथ यथा जैनस्य परमाणूनां नैरन्तर्येण अवस्थानं संयोगः तथा ममापि आत्ममनसोः इति ; युक्तमेतत् , किन्तु न संयोगो गुणः सर्वगतत्वं(तः) मनोदेशपरिहारा[त् ]। भवन्तु तस्य युगपत् षट्संयोगाः, तेभ्यस्तु स्मृतिः एकैव वजा (तज्जी) तन्तुभ्य एकपटवत् तत्संयोगेभ्यो वा इति चेत् ; न ; अन्यथाऽभिप्रायात् । तथाहि-२५ यथा एकत्वेऽपि मनसः ततः सहात्मनि समवेताः संयोगाः षट् तथा स्मृति (त) योऽपीति [४४४ख] न तदेकत्वं स्मृत्येकत्वं(त्व) निबन्धनमिति ।
कारिकां विवृण्वन्नाह-आत्म इत्यादि । आत्ममनसोः निरंशत्वैकान्ते अङ्गीक्रियमाणे सनिकर्षस्य आत्ममनसोः संयोगस्य तयोरन्यस्य सम्बन्धस्य असंभवात् अकादाचित्त्वात्मविभुत्ववद्यावद्रव्यभावित्वात कारणात् कथं तस्य तत्प्रभवगुणविशेषस्य तस्मात् सन्नि-३० कर्षात् प्रभव उत्पत्तिः यस्य स चासौ गुणविशेषश्च बुद्ध्यादिः तस्य । न[नु]सदपेक्ष(क्ष्य) स्य
(१) गुण्यादेः । (२) अस्ति ? (३) संयोगस्य । (४) भवति ।
७२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org