________________
५६८
सिद्धिविनिश्चयटीकायाम्
एतदेव दर्शयन्नाह - संयोग इत्यादि ।
[संयोगसमवायाभ्यामन्यत्र विभुद्रव्यवत् । स्वतः स्वभावतादात्म्याहते न व्यवतिष्ठते ॥२८॥
सर्वत्र तथापरिणामं मुक्त्वा नापराः संयोगः समवायो वा सम्बन्धः परिकल्प्यः । ५ तदभावे सर्वगतानां स्वप्रदेशवृत्तेरप्रतिबन्धात् । तद्भेदैकान्ते समवायवृत्तेः समवायस्य विशेषणी भावोऽत्र सम्बन्धश्चेत्; सर्वत्र अयमेवास्तु । नवै तत्" "]
[ ८ सर्वक्षसिद्धिः
स्वतः स्वभावतादात्म्याद् ऋते विना अन्यत्र अन्येषु परस्परं भिन्नेषु कुतः सम्बन्धो व्यवतिष्ठेत (ष्टते) ? दृष्टान्तमाह - विभुद्रव्यवद् इति । संयोगाते (दि) र्व्यवतिष्ठेत इति [चे]त् ; अत्राह - संयोगसमवायाभ्यां न व्यवतिष्ठते इति ।
I
१०
कारिकार्थ[मा]ह–सर्वत्र इत्यादि । न्यथा (तथा) परिणामम् अविनिर्भागपरिणतिं मुक्त्वा नापरः पुरुषदण्डयोः सम्बन्धः परिकल्प्यः । कोऽसौ ? इत्याह-संयोगः, किन्तु तथा परिकल्प्यः । यदि पुनर्द्वयोः कथञ्चित्तादात्म्येन वर्तमानः संयोगः स्यात्, तस्य पुरुषदण्डाववयव संच अवयवी इति प्रसक्तम् कपालघटवदिति तथा च एकाकर्षणात् नियमेन सर्वाकर्षणम् । आत्मशरीरयोरपि अन्योऽवयवी ', न चैवम् इति । तथा गुण्यादीनां तथा परिणामं तादात्म्य१५ परिणाम (मं) मुक्त्वा नापर: सम्बन्धः परिकल्प (प्यः ) । कः ? इत्याह समवाय इति । कुतः ? इत्यत्राह-तदभावे तथा परिणामाभावे सर्वगतानाम् आत्मादीनाम् स्वप्रदेशेषु वृत्तेरप्रतिबन्धभावात् (न्धात् ) सम्बन्धाभावात् तथापरिणामः: परिकल्प: (यः) । [ ४४३ख ] कस्मिन् ? इत्याह-तद्भदैकान्ते तत्प्रदेशतद्वतोः नानात्वैकान्त इति । समवायः प्रतिबन्ध इति चेत् ; अत्राह - समवायवृत्तेः इत्यादि । समवायस्य स्वत एव वृत्तिः इति चेत्; अत्राह - समवायस्य २० इत्यादि ।
Jain Education International
असम्बन्धः समवाय इत्येके; तेषां गुणो गुणी समवाय इहेति प्रत्ययजननात् तत्सम्बन्ध उच्यते; नासकस्ये (न; अशक्तस्य) पदार्थान्तरवत् तज्जननविरोधात् । शक्तश्चेत्; तर्हि शक्तियोगात्तथा [ यथा] शुक्लगुणयोगात् शुक्लः । शक्तेश्च ततो भेदे सम्बन्धासिद्धिः । पुनः समवायकल्पने नैवनेवस्था (ल्पने अनवस्था ।) विशेषणीभावात्र (वोऽत्र) सम्बन्धश्च (श्चेत् ) सर्व च २५ (सर्वत्राऽयमेवास्तु किं समवायेन ? नहि गुणादयो द्रव्यस्य न विशेषणम् । गुणानुरक्तप्रतीति
[:] एव (वं) स्यात् न इहप्रतीति: इति चेत्; कथं 'समवाये शक्तिः' इति प्रतीतिः ? सोऽयं विशेषणीभावः इहैं इहेतिप्रत्ययहेतुः नान्यत्रं [ सत्य ] मीश्वरविलसितम् ! तत्सम्बन्धेति (न्धेऽपि ) तदन्तरकल्पने अन्याऽनवस्था । विशेषणी भावोऽपि भावस्य किं कुर्वाणः स्यात् ? अकिश्चित्करस्य वस्तुत्वाऽयोगात् । किञ्चित्करत्वे सर्वं तदवस्थम् | शक्तिः ततोऽभिन्नेति चेत्; तथा गुणादयोऽपि
(१) संयोगः । (२) स्यात्, तयोः संयोगात्मकः । ( ३ ) सम्बन्धः । ( ४ ) अन्यः सम्बन्धो न विद्यतेऽस्येति असम्बन्धः । (५) समवायात् । ( ६ ) समवाये । (७) द्रव्यादौ । (८) सम्बन्धान्तरकल्पने । (९) समवायात् ।
For Personal & Private Use Only
www.jainelibrary.org