________________
५६७
८१२७]
आत्मादीनां स्वप्रदेशतादात्म्यम् भवतु आत्मनः प्रदेशाः, ते च(न)ततः कथञ्चिद्भिन्ना इति चेत् ; अत्राह-यदि पुनः
इत्यादि।
[यदि पुनः
प्रदेशतद्वदैक्यं चेत् प्रतिपत्ताऽयं न लक्षयेत् ।
स्याद्रव्यपर्यययोस्तत्त्वं जयेद् धाष्टयन सौगतान् ॥२७॥ ५ आत्मादीनां प्रदेशतद्वतोः भेदेऽपि स्वभावत एव कथञ्चित्तादात्म्यं सम्बन्धान्तराभावात् । गुणगुणिनोः सहभूतयोः जातितद्वतोश्च न कथञ्चित्तादात्म्यमिति स्वमनीपिकया तत्त्वमिदन्तया प्रतिष्ठापयितुकामः वैयात्येन कुतर्कविभ्रमात् स्वार्थाकारयोः तादात्म्यपरिणामं प्रतिक्षिपतः शौद्धोदनिशिष्यकान् विजयते । नहि प्रदेशतद्वतां घटपटवत् स्वातन्त्र्यं समवायासंभवादन्यत्र तादात्म्यात् ।]
प्रदेश-आत्मनोः कथञ्चित्तादात्म्येऽपि अत्र तचन्नेति (अन्यत्वं नेति) चेत् ; अत्राह[४४२ख] तद्वदेस (प्रदेश) तद्वदैक्यं चेद् इत्यादि । प्रदेशतद्वतोः ऐक्यं प्रपत्तप्रतिपन्वः (प्रतिपत्ता) प्रतिपन्नवानयं नैयायिको न लक्ष्ययेचित् (लक्षयेत् चेत्) स्यात् कथश्चिद् द्रव्यपर्या(य) ययोः तत्त्वम् ] एकतानात्व (तानत्व) मेव लक्षयेद् इत्यर्थः । जयेद्बाटयन सौगतान् द्रव्यपर्याययोः ऐक्यम् अलक्षयतः ।
कारिकां विवृण्वन्नाह-आत्मादीनाम् आदिशब्देन गम (गग) नादिर्गृह्यते, प्रदेशतद्वतोः भेदेऽपि कथंचित्तादात्म्यं स्वभावत एव । कुतः ? इत्याह-'सम्बन्धा' इत्यादि । तादात्म्यसम्बन्धादन्यस्य सम्बन्धस्य अभावात् । न तावत्तयोः' संयोगः ; मनःसंयोगवत् प्रसङ्गात् । न चैवम् आत्मादीनाम् तेषु तेया (ते वा प्रदेशाः)स्युः, इतरथा घटादयोऽपि संयोगाऽविशेषात् । घटादीनामपि स्वप्रदेशैः संयोग एव स्यात् । अयुतसिद्धत्वमन्यद्वा प्रकृतेऽपि समानम् । नापि २० समवायः ; तेषां तदारब्धत्वप्रसङ्गात् , तथा च घटादिवदनित्यत्वम् , स्वारम्भकावयवसन्निवेशविशिष्टत्वेन ईश्वरस्याप्यन्येश्वरपूर्वकत्वम् । तत एव संयुक्तसमवायादयो दूरोत्सारिता एव । न गुणगुणिनोः कथञ्चित्तादात्म्यम् , अपितु भेद एव । किंभूतयोः ? इत्याह-सह इत्यादि। पुनरपि कयोः ? इत्याह-जातीत्यादि । चेति समुच्चये। इत्येवं स्वमनीषिकया तत्त्वम् इदन्तया भेदैकान्तरूपतया च नानेकान्तक्षणिकादिरूपतया प्रतिष्ठापयितुकामः शौद्धोदनिशिष्यकान् २५ च वैयात्येन विजयते । किंकुर्वतः ? इत्याह-तादात्म्यपरिणामं प्रत्यक्षं प्रतिक्षिपतः कुतर्कविभ्रमात् । [४४३क] कथं तं प्रतिक्षिपतः ? इत्याह-स्वार्थाकार इत्यादि । प्रपञ्चेन चर्चितमेतत् । प्रदेशतद्वतोरपि तादात्म्यं नेति चेत् ; अत्राह-नहि प्रदेशतद्वतां घटपटवत् स्वातन्त्र्य (न्त्र्यं) भवेद् इति भावः । समवायादेर्भावात् नैवं चेत् ; अत्राह-समवाय इत्यादि । किं सर्वथा दिसंभवः ?, इत्याह-अन्यत्र इत्यादि । तादात्म्याद् अन्यस्मिन् सम्बन्धत्वे इष्यमाणे तद्-३० संभवः, तादात्म्ये तु संभव एव ।
(१) प्रदेशतद्वतोः। (२) आत्मादीनाम् स्युः। (३) प्रदेशानाम् । (४) स्यादिति । (५) न स्वातन्त्र्यम् । (६) समवायासंभवः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org