________________
५६६
सिद्धिविनिश्चयटीकायाम् [८ सर्वशसिद्धिः प्राग इत्यादि । प्रागिव(प्राग् अव) स्थितज्ञानोत्पत्तेः पूर्व न ज्ञान (तज्ज्ञान)स्वभावसम्बन्धःविकस्य (न्धविकलस्य) तज्ज्ञानमेव स्वभावः स एव सम्बन्धः तेन विकल्पस्य (लस्य)अचेतनस्य इत्यर्थः, तत्समवायिकारणत्वं ज्ञानसमवायिहेतुत्वम् असंभाव्यम् । तथाहि न्म (यत्)ज्ञानस्वभावं
(भाव) सम्बन्धविकल त (लं न तत् )ज्ञानसमवायिकारणम् यथा पृथिव्यादि, तथा च परस्य आत्मा ५ तद्विकलः, इतरथा पृयिव्यादिरपि तत्कारणं भवेत् ।
ननु कार्यस्य पृथिव्यादेः तत्कारणत्वे प्रत्यभिज्ञाविलोपः, शरीरादेरनित्यत्वादिति चेत् ; परमाणूनां स्यात् । तेषामदर्शनात् नेति चेत् ; किं पुनः परपरिकल्पितात्मना(त्मनः) दर्शनमस्ति ? तथा चेत् ; परमाणूनामस्तु । ज्ञानस्य गुणत्वाद् आधारमात्रं सिध्ये तु चा(त् , तँच्चा)त्मा
परमाणवो वा इति न निश्चयः । तेषां तत्कारणत्वे तद्र पादिवद् बुद्धः अस्मदादिभिरग्रहणमिति १० चेत् ; आत्मनोऽपि तत्कारणत्वे तद्विभुत्ववत् तद्ग्रहणं किन्न स्यात् ? अत्र गुणवैचित्र्यं न परत्रे[ति] न[४४२क] विभागहेतुः ।
. अथ परमाणूनां बुद्धिगुणत्वे व्यापित्वं व्योमवत् स्यात् । तथाहि-'परमाणवो विभवः नित्यत्वे सति अस्मदादिप्रत्यक्षगुणाधारत्वाद् व्योमवत्' इति चेत् ; न ; घटादिना व्यभि
चारात् । ऐकान्तिकनित्यत्वस्य सर्वत्र निषेधात् । ततो यथा तत्सम्बन्धविकलत्वात् न परमाणवः १५ तत्समवायिकारणं तथा आत्मापि मा भूत् । असमवायिकारणत्वं स्यादिति चेत् ; अत्राहअसमवायिकारणत्वं च इति सर्वमसंभाव्यम् ।
ननु किमिदम् असमवायिकारणम् ? समवायिकारणाद् अन्यदिति चेत् ; निमित्तकारणमपि ततोऽन्यद् भवति, तथा च चक्षुरादिवत् त] विकलमपि "तत्कारणम् इति निषेधानुपपत्तिः ।
अथ स्वकारणसमवायि च उत्तरशब्दस्य पूर्वशब्दः, स्वकारणकारणसमवायि” यथा पटः (पटरूपं २० प्रति तन्तुरूपम्), कारणकारणसमवयिवापि वा (समवायि" वा) यथा ज्ञानस्य आत्ममनः
संयोगः, असमवायिकारणमुच्यते ; तद्युक्तम् ; आत्मनः क चित् काये (कार्य) तदनभ्युपगमात् । अभ्युपगमाश्च पू(माच्च इ) ष्यन्त इति चेत् ; उच्यते-स्मरणज्ञानोत्पत्तौ संस्कारस्य, तस्य "तदुत्पत्तौ ज्ञानस्य *"ज्ञानजो ज्ञानहेतुश्च संस्कारः" इति वचनात् असमवायिकारणत्वमिष्यते परेण, स्वकारणसमवेतत्वस्य भावात् ; तदपि तद्विकलस्य असंभाव्यम् । यथैव हि २५ चेतनस्य चातन(नाऽचेतन) मुपादानम् , तथा तत्समवेतं चेतनं युक्तम् ।
(१) अनित्यस्वभावस्य । (२) ज्ञानसमवायिकारणत्वे । (३) हेतोः । (४) आधारमात्रम् । (५) पृथिव्यादिपरमाणूनाम् । (६)ज्ञानकारणत्वे । (७) विद्यते इति शेषः । (८) ज्ञानसम्बन्ध । (९) समवायिकारणानिन्नम् । (१०) ज्ञानस्वभावसम्बन्धविकलमपि । (११) ज्ञानसमवायिकारणम् । (१२) उत्तरशब्दस्य कारणम् आकाशः तत्र समवायि । (१३)पटरूपस्य कारणं पटः, तस्य कारणं तन्तवः, तेषु समवायि समवायसम्बन्धेन वर्तमानं तन्तुरूपम् । (१४) ज्ञानस्य एकं कारणम् आत्मा, अपरञ्च कारणं मनः, उभयत्र समवायसम्बन्धेन धर्तमानः आत्ममनःसंयोग इति । (१५) 'तस्य' इति व्यर्थम् । (१६) संस्कारोत्पत्तौ । (१७) तुलना-"ज्ञानजो..." प्र. वार्तिकाल. ३१५२७ । (१८) स्मरणस्य कारणम् आत्मा तत्र समवेतः संस्कारः इति । (१९) ज्ञानस्वभावविकलस्य आत्मनः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org