________________
८२६ ]
न सन्निकर्षजं सर्वज्ञज्ञानम्
५६५
तत्परिकल्पनवैफल्यं वा, प्रथमात्मता (का) त् कार्यनिष्पत्तेः पुनरपि स एव दोषः । पुनरपि तत्परिहाराय तत्प्रदेशकल्पने तदेव आवर्त्तत इति चक्रकम् इति न किञ्चिदेतत् । द्वितीयपक्षे दोषं दर्शयन्नाह - नाप्यनात्मन इत्यादि । पक्षान्तरस्वापि (सूचने अपि शब्दः ) अनात्मनं (नः) प्रदेशस (स्व) रूपस्य द्रव्यान्तरस्य मनसा यः सन्निकर्षः तस्मात् न सुखादयः स्मृतयो भवितुमर्हन्ति । कुत: ? इत्यत्राह - आत्मन्यादि (आत्म इत्यादि) । दूषणान्तरमाह - ५ प्रदेशतद्वतोः इत्यादि । सुगमम् ।
पुनरपि महात्म्य (पुनरपि दूषणमाह - आत्म) इत्यादि । 'आत्मा मनसा युज्यते, मनः [४४१क] अक्षेन (अक्षेण) इन्द्रियोता (येण अ) क्षम् अर्थेन' इति य आत्ममनोऽक्षार्थसन्निकर्षः संयोगादिसम्बन्धः तस्माद् बहिरर्थज्ञानोत्पत्तौ सत्यां युगपज्ज्ञानोत्पत्तिः किन्न भवेत् ?
यो
नवेकत्व [म] सो न तेनं सर्वेन्द्रियाणां तैरर्थानां युगपत् सम्बन्ध इति चेत्; अत्राह - १० मनसाम् इत्यादि । एकत्वे मनसो युगपद् एकैव बुद्धिः स्यात् । न चैवमस्ति, अनभ्युपगमात् । तयैव (तथैव) आत्मान्तरेषु ज्ञानानुदयप्रसङ्गात् । तत एव तेंदुदये एकत्रापि युगपदेक(दनेक) ज्ञानोदयोऽनिवार्य:, अनेकत्रोत्पादाय इतिति ( यतति) नैकत्र इति किंकृतो विभाग : ? बहुत्वेऽपि एकेनैव मसाऽतौक: (मनसा आत्मैकः) संयुज्यते ; इत्यत्राह - प्रत्येकम् इत्यादि । एकम् एकं मनः प्रत्येकैकस्य आत्मनो यः सम्बन्धः तस्य नियमेन अवश्यंभावेन १५ अयोगात् आत्मनां व्यापित्वविरोधात् इति भावः । कष्णदृष्टस्य घटनानियाम (र्केष्टा अदृष्टस्य घटनात् नियम ) कल्पना ; उक्तं (क्त) दोषदुष्टत्वात् । अथ अतदे (अप्रदे) शस्य आत्मनः प्रदेशदोष - योजना कीदृशी ? इत्यत्राह - यदि इत्यादि । कुतः ? इत्यत्राह - तदर्थ इत्यादि । तस्य आत्मनः । दूषणान्तरमाह-तादृश इत्यादि । तादृशस्य कूट [ स्थ]स्य क्रमशः क्रमेण पुनः पुनः इति क्वचित् कस्यचिद् अवस्थायाम् ज्ञानसम्बन्धात् सर्वज्ञत्वम् ' असंभ (भा) व्यम्' इति वक्ष्यमाणे सम्बन्धः । तर्हि ( न हि ) त सम्बन्धेऽपि विषयग्रहणोन्मुखता पूर्ववत् ।
युक्तयन्तरमाह - किं पुनः इत्यादि । पुनः इति पूर्वदूषणदस्यानिश्रय ( णादस्य नित्रय) - सूचकः । असर्वज्ञस्वभावमजहतः किं सर्वज्ञत्वम् १ इदम् दमवैवं पर्यत्र [ ४४१ख] (इदममत्वा एवं पर्यनुयोगः तं) त्सम्बन्धात् पूर्वविषयानभिमुखस्वभावो गगनादिवत् असाच (अस्त्येव, उत) तदभिमुखस्वभावः " ? प्रथमपक्षे पूर्वं वाक्यं (पूर्ववत् वाच्यम्" ।) द्वितीयेऽपि २५ सकलविषयाभिमुखः, कतिपयपदार्थाभिमुखो वा अस्य स्वभावः ? तत्र आद्ये विकल्पे " जन्मिमात्रस्य सकलकुत्वाम् (सकलज्ञत्वम् ) इति । द्वितीये द्वितीयमिति I
नव चोत्तरज्ञानं सति ( ननु च उत्तरज्ञानं प्रति ) समवायिकारणत्वमेवास्य विषयाभिमुखं (मुख्यं) नापरम्, सहकारिविशेषात् कदाचित् कीदृक्षज्ञानं प्रति तस्य तद्" इति चेत् ? अत्राह -
१४
(१) मनसा । ( २ ) इन्द्रियैः । (३) आत्मान्तरे ज्ञानोदये । ( ४ ) कठिना इत्यर्थः । ( ५ ) प्रदेश - रहितस्य । (६) आत्मनः कूटस्थस्य । (७) ज्ञानसम्बन्धेऽपि । (८) नित्यत्वात् पूर्वावस्थावत् । ( ९ ) ज्ञानसम्बन्धात् । (१०) उत्पद्यते इति शेषः । ( ११ ) ' न हि तत्सम्बन्धेऽपि विषयग्रहणोन्मुखता पूर्ववत्' इति: दूषणं वक्तव्यम् । (१२) प्राणिमात्रस्य । (१३) सर्वज्ञत्वमसंभाव्यमिति । (१४) समवायिकारणत्वम् ।
Jain Education International
२०
For Personal & Private Use Only
www.jainelibrary.org