________________
५६४ सिद्धिविनिश्चयटीकायाम्
[ ८ सर्वशसिद्धिः (नात् न तु) सविकल्पानां विपर्ययात् । अस्त (अस्तु) वा, तिष्ठतोद्भावचनमिति (?) प्रदेशतद्वतोः संस्कृतप्रदेशात्मनो[:]व्यतिरेकात् परस्परं भेदो (भेदात् अ)व्यतिरेके अन्यतरदित्येयदेव (त्येक एव) स्यादित्येवं वचनम् , तत्प्रदेशानाम् अवस्तुत्व (त्वं)स्यात् । कुतः ? इत्याह
षट्पदार्थ इत्यादि । ततोऽन्यस्य पदार्थस्य अनभ्युपगमात् परेणे इति भावः । ५ तेंव्यतिरिक्ता अपि ते सत्य (सन्ति) इत्येके; तन्न (तत्राह-)कोऽर्थ इत्यादि । द्रव्यगुणकर्माणि अर्थाः *"द्रव्यगुणकर्मसु अर्थः" [वैशे० सू० ८।२।३] इति वचनात् । तेभ्यो व्यतिरेकवतः पदार्थस्य सत्तायाः समवाय समवायासंभवात् *"त्रिपदार्थसत्करी सत्ता" इत्यभिधानात् । सामान्याविपत्ते सन्त (न्यादिरूपापत्तेः सन्तः) इति . चेत् ; अत्राह
द्रव्येत्यादि । तेषाम् आत्मप्रदेशानां मनस्य(सा अ)न्येन वा शरीरादिना वा संयोगः १० अन्यत[र] कर्मकः (जः) संयोगजाया (जो वा) कुतः ? नैव । विभागश्च कुतः ? तस्य संयोगपूर्वतत्त्व (र्वकत्वात) तँदभावेऽभावात् ।
कुतो न स्यात् ? इत्याह-द्रव्यातिरेकात् द्रव्याद् भेदात् तेषाम् इति, द्रव्यस्य च तदन्तरेण[कुतः] संयोगादिःगुणः ? यतः संयोगात् । कुतश्चिद् अदृष्टादेः सहकारिणः द्रव्या
नतिरेकः तेषामिति चेत् ; अत्राह-तवे ('न च'इ)त्यादिना । तात्पर्यमिदमत्र-आत्मनो व्यतिरि१५ च्यमानाः तत्प्रदेशाः यदि द्रव्यम् , यथा घटाद् व्यतिरिच्यमाना कपालादयः ; तदात्मद्रव्यम् ,
तदन्तरं वा स्युः ? तत्र आये पक्षे आत्मत्वसमवायाद् आत्मद्रव्यं ते प्रथमात्मवत् ; तच्चायु(युक्तम् ;) युक्तिविरोधात् । तदाह-न च नैव आत्म[त्वमवान्तरं सामान्यं प्रदेशेषु समवेतम् ।
कुतः ? इत्याह-प्रत्यात्मम् आत्मानम् आत्मानं प्रति प्रत्यात्मम् आत्मनं(नो) २० भेदप्रसङ्गाद बहुत्वप्राप्तिः । एवं मन्यते-एकत्रात्मनि "तद्वहुत्वे [४४०ख] अवयवारञ्च (ब्ध)
त्वादिप्रसङ्गः।किञ्च, तेषाम् असर्वगतत्वे आत्मसर्वगतत्वैकान्तप्रतिज्ञाहानिः । तेषां च मनसा संयोगे अदृष्टसमवायोऽपि तेषामेव तत्संयोगजन्यत्वात् , तस्य संयोगजन्यत्वात् तस्य संयोगजः *"अदृष्टः आत्ममनःसंयोगजः" इत्यभिधानात् । न च अन्यसंयोगजः अन्यं समवेति (वैति)
सत्त्वान्तरेऽपि तत्प्रसङ्गात् । अदृष्ट फलं च "तेष्वेवास्तु *"क फलदायी" 'इति वचनात् । तेषां २५ च लोकान्तरगमने क्रियावत्त्वम् , अवामने (अगमने) संसारभेदविलोपः । ता (ना)प्यन्यस्यादृष्टाद् अन्यस्य संसारः ; अतिप्रसङ्गात् । “द्वितीयपक्षे देशान्तरद्रव्यैः तत्संयोगविरहात् कथं तददृष्टेन तदाकर्षणम् इत्यविचि (इत्यपि) चिन्त्यम् । प्रदेशमनःसंयोगः परमाणुसंयोगवत् सदोष इति न असर्वगतत्व (त्वम् ।) सर्वगतत्वे प्रथमवत् प्रसंघातवस्था (प्रसङ्गात् अनवस्था) च ।
(१) अभेदे । (२) वैशेषिकेण । (३) षट्पदार्थभिन्ना अपि । (४) भिन्नस्य । (५) 'समवाय' इति व्यर्थम् । (६) तुलना-"सदिति यतो द्रव्यगुणकर्मसु सा सत्ता ।"-वैशे० सू० १।२।३८ । (७) संयोगाभावे। (८) अभेदः। (९) प्रदेशानाम् । (१०) प्रदेशाः। (११) प्रदेशबहुत्वे । (१२) प्रदेशानाम् । ६ एतदन्तर्गतः पाठो व्यर्थः। (१३) “आत्ममनसोः संयोगाद्धर्मोत्पत्तिरिति"-प्रश० भा० पृ० ६३८ । (१४) आत्मप्रदेशेषु । (१५)"कर्तुः प्रियहितमोक्षहेतुः"-प्रश० भा० पृ० ६३७ । (१६) तदन्तरमितिपक्षे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org