________________
५६२
सिद्धिविनिश्चयटीकायाम्
[ ८ सर्वशसिद्धिः
इति चेत् ; अत्राह - कुतः प्रमाणात् 'अवगम्यते' इत्यध्याहारः । आत्मस्वभावस्य उत्कर्षवतः तथा दर्शनात् ।
ननु कारणेन भिन्न (न्नं) ज्ञान [म] शेषविषयं जन्यते, तत्सम्बन्धात् 'तस्य सा इति चेत्; अत्राह-असकलज्ञस्य तस्य प्राकू, पश्चाज्ज्ञाने उत्पन्ने सा कुतः ? नहि स्वयम् अर्थ५ ग्रहणाभिमुख्यरहितस्य अन्यतः तद् युक्तम् ।
कारिकां विवरीतुमाह-स्वस्व (आत्म) इत्यादि । आत्मा च इन्द्रिय च मनश्च अर्थरच तेषां सन्निकर्षात् संयोगादिरूपात् कथं निरवशेषज्ञानम् इतर (इति) यावत् । तपःप्रभावात्, निरवशेषविषयं ततोऽपि ज्ञानमिति चेत्; अत्राह - तपःप्रभाव इत्यादि । तपसः प्रभावः सामर्थ्या () विशेषः तस्मिन् सत्यपि न केवल [म] सति [ इन्द्रियाणां ] सम्प्रयोगानतिक्रमाद् १० विज्ञानस्य । नहि तत्र सति ज्ञानं प्रयोगनिरपेक्षम् ; परमतसिद्धेः । यदि च (वा) ' इन्द्रिया - णाम् तत्प्रयोगानतिक्रमात् ' इति व्याख्येयम् । न खलु तस्मिन् सति इन्द्रियाणि सत्सम्बन्ध(द्ध) मर्थं [न] गृह्णन्ति ; तैरेव सन्निकर्षसाधकहेतूनां व्यभिचारप्रसङ्गात् । अथ 'अस्मदादिचक्षुः सम्बन्ध (द्ध) मर्थमवे (वै) ति तत्प्रभावरहितत्वे [ ४३९ क] सति इन्द्रियत्वात् स्पर्शनवत्' [इति चेत्; ] न; तद्रहितत्व (वा) सिद्धे [:], "जन्मान्तरे तदनिषेधात् । 'यस्य यावती मात्रा ' विशेषण - १५ मत्वात् हेतोरगमकत्वात् अतिप्रसङ्गात् । अथ तत्प्रभावाद् इन्द्रियाणि तथाविधानि ज्ञायन्ने याति (जायन्ते येन) सर्वविषयैः अति (गतिः) संपद्यते ; तत्राह - नियत इत्यादि । नहि स्पर्शनादिकं तत्प्रभात्रतः शरीरं विहास (विहाय ) प्रतिविषयं भ्रमति, तेन सह भ्रमणे तस्य सर्वगतत्वम् । चक्षुरश्मीनां सर्वत्र गमनेऽपि रूपस्यैव सर्वस्य ग्रहणं स्यात् न रसादेः । तेनैव ' तस्यापि [ग्रहणे ] इतरेन्द्रियवैफल्यम् । तदाह - नियत इत्यादि । मानसं योगिनो [ शे] षगोचरमध्य (चरमध्यक्षं) २० न चक्षुरादिजमिति चेत्; अत्राह - मनस इत्यादि । मनसः अणो [:]सका [शा ] द् कहिरर्थ - सन्नि [कर्षे] वैशद्यकल्पनायां कुत: ? इत्याह - [ अ ] दृष्टवशाद् धर्मादिसहा [ या ] त्; केवलस्य तत्संवित्तिवैशद्यकारण (णा ) सामर्थ्याद् अतीवादी (दौ) तन्मानससंवित्तिवदे (वदिति) वचनम् ।
ननु स्वप्नादिप्रत्ययानां मनस एव वैशद्यमिति चेत् ; अन्येषामपि स्यात् तदविशेषात् । अपि च, तत एव योगिनोऽशेषार्थज्ञानवैशद्ये सर्वस्य सात्त (स्यात्, त ) स्य 'सम्ब[न्ध] सम्बन्ध२५ स्य (चाड) भेदात् । न चैवम्, अतोऽदृष्टमेष्टव्यम् । तस्याम् [ किम् ? ] इत्यत्राह - युगपत्ज्ञान इत्यादि । सर्वेन्द्रियविषयसन्निधानेऽपि या युगपज्ज्ञानानामनुत्पत्तिः सा मनसो लिङ्गम् न भवेत् । तद्वैशद्यवत्” "तदनुत्पत्तेरपि अदृष्ट ए [ व भा] वादिति भावः ।
एतदेव दर्शयन्नाह - [ 'तद्' इत्यादि ]
(१) नित्यस्यात्मनः । (२) सर्वज्ञता । (३) सर्वज्ञता । ( ४ ) सन्निकर्षं निरपेक्षम् । ( ५ ) जन्मान्तरीयतपसः संभावना वर्तते इति भावः । ( ६ ) तपःप्रभावात् । (७) चक्षुषैव । (८) रसादेरपि । ( ९ ) आत्मना मनः संयुक्तम्, तेन च सर्वेऽर्थाः इति परम्परासम्बन्धस्य । (१०) भेदाभावात् । (११) अशेषार्थ - वैशद्यवत् । (१२) युगपज्ज्ञानानुत्पत्तेरपि ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org