________________
८।२१]
न नित्यं शानमीश्वरस्य कथमिति चेत् ? प्रमाणाभावात् । न तत्र प्रत्यक्षम्'; अतीन्द्रिये तदवृत्तेः । नानुमानम् ; लिङ्गाभावात् । न ज्ञानत्वं लिङ्गम् ; अस्मदादिज्ञानेन व्यभिचारात् ।
एतेन 'विभुद्रव्यविशेषगुणत्वे सति विभुत्ववत्' इति निरस्तम् । सर्वविषयत्वे सति इति चेत् ; न; इतरयोगिज्ञानेनँ । 'सर्वदा तद्विषयत्वे सति' इ[ति चेत् ; यदि तस्यैव तदेव साध्यं तदेव हेतुविशेषणम् इत्यसारं परस्या (स्य)नित्यत्वम् । न चात्र निदर्शनम् । ... स्यान्मतम्-'ईश्वरज्ञानं नित्यं[सत्त्वे] सति धर्मादिकारणाजन्यत्वात् [त]द् विभुत्ववत्' इति । न चेश्वरस्य धर्मादिरस्ति; तत्कारणाभावात् । न च परधर्मादेः तद्विज्ञानम् ;[४३८ क] आत्मगुणानाम् आत्मान्तरगुणाकारणत्वादिति । किं पुनः ईश्वरज्ञानं न किंचित् करोति ? तथा चेत् ; कुतोऽशेषकार्यजन्म ? महेश्वराच्चेत् ; न ; बुद्धिनिरपेक्षस्य पुंसः कार्यव्यापारे अचेतनकर्मणोऽविशेषः । सत्यपि बुद्धिः अनुपयोगिनी । अथ पदार्थग्रहणे [न]तज्जन्मनि ; सर्व- १० स्यापि बुद्धः तत्रैव व्यापारो न कार्यजन्मनि, इति 'इदं बुद्धिपूर्वम् , इदमथा (मन्यथा) कार्यम्' इति व्यवहारविलोपः । अथ “तत्सहितेन पुंसा कृतम्' इति उपचारेण 'बुद्धिकृतम्' इत्युच्यते ; तयापि तत्करणे को विरोधः ?
किं च, यदि नान्यात्मगुणः अन्यात्मगुणनिमित्तं कथं मन्त्रिण (णो)ध्यानाद् अन्ययोषितः तं प्रति प्रत्यो(प्रत्याकर्षणम् ?)अन्यमन्त्रोऽपि (मन्त्रेऽपि)आत्मन एव तच्च (तद्ध)तुत्वमिति चेत् ; १५ न ; धर्मादेः सर्वत्रानुपयोगापत्तः, आत्मन एव उपयोगात् । अथ मन्त्रिणो ध्यानं चित्तविकारकारणम् ; ईश्वरज्ञानमपि तथैव स्यात् । भवतु को दोष इति चेत् ; तद्वद् अन्यधर्मादिः "तत्कारणम् इति कारणाभावोऽसिद्धः । तन्नानुमानमत्र" ।
ननु यथा भवदीये मते सर्वज्ञः तेन तदन्तरेण वा ज्ञायते, तथा मदीये तदेव ज्ञानम् आत्मनित्यत्वमवैति तदन्तरे स्वोत् ("तदन्तराभावादिति) चेत् ; न; एकत्वसंवेदनतापत्तेः, ईश्वर- २० कल्पनमनर्थकम् , तावतैव तत्प्रयोजनसिद्धेः। "यथा ज्ञानत्वाऽविशेषेऽपि तदेव नित्यं तथा गुणत्वाविशेषेऽपि तदेव अनाश्रयम् इति । “अन्यत्र अनित्यानित्यत्वा (अनित्यत्वनित्यत्व) दर्शनद्वयम् । एकत्र उक्तो दोषे (ष:) अन्यत्र[सत् ]सम्प्रयोगजत्वेन इत्यादिकः ।[४३८ ख]तन्न नित्यं ज्ञानम् इत्यवशिष्यते ।
तत्र सता अर्थेन सम्प्रयोगः सन्निकर्षः इन्द्रियाणां तज्जत्वे न ज्ञानस्य विरुद्धा २५ सकलज्ञता कु मा रि लो क्ताऽशेषदोषापरिहारात् इति भावः । दूषणान्तरमाह-नित्यस्य आत्मनः सर्वज्ञता कुतः कारणात् ? न कुतश्चित् , नित्यत्वविरोधात् । स्वभाविकी सा"
(१) प्रमाणम् । (२) नित्यज्ञाने । (३) व्यभिचारात् । (४) आत्मान्तर । (५) विशेषाभावः । (६) कार्योत्पादे व्यापारः । (७) पदार्थग्रहणे एव । (८) बुद्धिसहितेन । (९) बुद्धथैव । (१०) ईश्वरज्ञानोत्पत्तिकारणम् । (११) प्रमाणम् । (१२) स्वेन । (१३) सर्वज्ञान्तरेण । (१४) ईश्वरज्ञानान्तराभावात् । (१५) ज्ञानमात्रेणैव । (१६) ननु निराश्रयं ज्ञानं कथं स्यादित्याशङ्कायामाह । (१७) ईश्वरज्ञानमेव । (१८) ज्ञानसामान्ये । (१९) द्वौ विकल्पौ इत्यर्थः । (२०) सकलज्ञता ।
७१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org