________________
૮ાર૦]
उत्पादादित्रयात्मकं तत्त्वम्
५५९
इत्यादि । परस्परम् अन्योन्यं प्रवर्त्तनं समर्थरूपेण उत्पादनं प्रवृत्तिः असमर्थरूपेण निवर्त्तनं निवृत्तिः ताभ्याम् अन्वयः अनुग्रामो (अनुगमः ) व्यतिरेको व्यावृत्तिः तावेव लक्षणं यस्य तस्य भावात् तत्त्वात् । कस्य ? इत्याह- अन्योऽन्य इत्यादि । केषाम् ? इत्याह- द्रव्याणाम् इति । तथा अन्यदा दर्शनादिति भावः ।
एवं सति यत् सिद्धं तद् दर्शयन्नाह - तद् इत्यादि । यत एवमनन्तरं संवृत्तं [ तत् त ] स्मात् ५ अन्ते विसदृशकार्योत्पादकाले कार्यानुत्पादसमये वा क्षयदर्शनात् द्रव्याणां पव्येपि क्षयंतिष्ठि कृत् (पूर्वमपि क्षयमिच्छन् ) सौगतो मध्ये स्थितिदर्शनात् पूर्वापरकोट्योः अधि (अपि) स्वभावस्थिति निश्चेतुमर्हति । अथ अत्र प्रमाणबाधनम् तत्पूर्वत्र ( न पूर्वत्र ) ; इत्याहअविशेषादिति । मध्ये व्यवस्थितिदर्शनमुक्तमिति नेोच्यते ।
ननु दृश्याश्यस्वभावयोर्भेदात् [४३६ख ] कथमेकं दृश्येतररूममिति चेत् ? अत्राह - १० es इत्यादि । आदिशब्देन चलितेतरादिरूपपरिग्रहः । अत्र निदर्शनमाह - प्रत्यक्ष इत्यादि । निरूपितमेतत्-*“वित्ते र्विषयनिर्भासविवेकानुपलम्भतः " [सिद्धिवि० १।२० ] इत्यादिना । वैशेषिकादिकं प्रति निदर्शनमाह-उद्भ ूत इत्यादि । [ उद्भूतानुद्भूतौ ] रूपस्पर्शी आदी येषां गन्धादीनां ते तथोक्तात, द्भू (क्ताः, उद्भ ू ) तानुद्भूता (त) रूपस्पर्शादयो यस्य युगलोत्रा(पुद्गलस्य, अत्रा) न्यपदार्थ:, तस्येव तद्वदिति । तथाहि - पृथिव्यां रूपादयः सर्वेऽपि सामान्येन १५ उद्भूता दृश्याः, विशेषापेक्षया तु उभयथा विभत्ति (भवन्ति) अप्सु गन्धोऽनुद्भूतो नेतरे, तेजसि गन्धरसौ, वायौ स्पर्श एव उद्भूतः ।
अथ जलादौ गन्धादयः सत्ता (सन्तः इति कुतः प्रतीतिरिति चेत् ? स्पर्शवत्त्वात् पृथि[वी]वत् । अन्यत्र नजा ( तज्जा ) तीये उद्भूतिः स्यादिति चेत्; न; पृथिव्यां तद्भावाद् अदोषात् । कथं तस्याः तज्जातीयत्वम् ? कथं हेमजातीयत्वम् ? हेमजातीयत्वम् अग्नेः तेजोद्रव्य- २० त्वात् '; 'पुद्गलत्वात्' इति समानम् । कथं तत्र ? होत्रि (हेम्नि) कथं तेजस्त्वम् ? नहि अपरं तत्र त्सामाहाति (तत्साधकमस्ति ) विवादाभावप्राप्तेः । उपदेशसहायादिन्द्रियात् तत्प्रतिपत्तिः पुद्गलत्वेऽपि समान (ना) । भासुररूपदर्शनात्र (नात् तत् ) तंत्रानुमीयते ; अनुमीयतां यदि अस्य अव्यभिचारः स्यात् । न चैवम्, पीतत्वागन्धनिर्नल (पीतत्वस्य निर्मल) मसृणपाषाणमर्दिते वस्त्रे तद्दर्शनात् । तथा स्पर्शदर्शनात् पुद्गलत्वमनुमीयता [म] विशेषात् । इतश्च पुद्गलद्रव्यविशेषा भूम्या - २५ दयः परिणामपरिग्रहदर्शनात्, जलादेः [४३७क] मुक्ताफलादिभावादिव (भावात् । एव) मर्थं च 'पुद्गलवत्' इत्युक्तम् ।
गुणिना (ना) गुणानां [च] भेदात् न तद्दृश्येतरत्वा स्या ( त्वात्मकत्वं दृश्यते इति चेत्; न; अस्य पक्षस्यें निषेधात् । भेदेऽपि प्रतिभासमान गुणसम्बन्धिनैव (तैव) दृश्या नेतिरेति (नेतरेति) स एव प्रसङ्गः । " तस्या अपि दृश्यत्वे सकलगुणग्रहः, "तदभावे तत्सम्बन्धिताऽग्रहणात्, अन्यथा दृश्य - ३०
1
(१) स्थितिपक्षे। (२) बहुव्रीहिसमास इत्यर्थः । ( ३ ) रूपरसस्पर्शाः । (४) अनुद्भूतौ । (५) इति चेत् ; । (६) तेजस्त्वम् । (७) सुवर्णे । (८) भासुररूपादेः । (९) गुणगुणिनोर्भेदैकान्तस्य । (१०) इतरसम्बन्धितायाः । (११) गुणग्रहणाभावे ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org