________________
८/२० ]
उत्पादादित्रयात्मकं तत्त्वम्
>
'कथम्’इत्येतत् कारिकाव्याख्यानेन परिहरन्नाह - अपरिणामिनोऽपि इत्यादि । अपरिणामिनोऽपि इत्यादि । अपरिणामिनोऽपि न केवलं परिणामिनः तावत् शब्दः भावनायाम् । कस्य इत्याह- अर्थस्य । किंभूतस्य ? क्षणिकस्य कालान्तरस्थायिनो वा नित्यस्य इत्यर्थः । तस्य किम् ? इत्याह-यौ (यो) यस्य क्षणिकस्य नित्यस्य आत्मा स्वभावो यथाभूतः क्षणिको नित्यो वा सोऽर्थस (र्थः त)मात्मानं सदैव लभते कदाचिन्नेति नायं विभागः अन्यथा सर्वत्र ५ सर्वदा क्षणिकम् आत्मादिकं वा नित्यं तस्या ( न स्यात्) । तथा तया (तदा) त्मकोऽप्यर्थः 'तं सदैव लभते' इति भावः ।
स्यादेतदेवम् यात्म (यदात्म) कोऽर्थः स्यात् करणवसेत् ( कारणवशात् ) कदाचित् प्राप्तेः इति 'चेत् ; अत्राह-नचेत्यात्म्य' ( न च इत्यादि । व्यात्म्य' ) ज्यात्मकत्वं तस्य व्यतिरेकोऽभावः तेन उत्पत्तिः नहि। उत्पत्तिस्वभावरहितं खरविषाणादि कारणाभावाद उत्पत्तिमत् न घटादिर्विप - १० र्ययादिति चेत् ; उक्तमत्र |
५५७
५
किं च, सदधि (सदपि ) कारणम् अनुत्पित्सुस्वभावं नोत्पादयति, अन्यथा अविनश्वर (रं) विनाशयेत् । न कस्यचिदुत्पत्तिरिति चेत्; उक्तमत्र चक्रादिवैफल्यम् इति । तथा तद्व्यतिरेकेण न स्थितिः । न खलु स्थितिस्वभावगर्हितं कुतचित् स्थाव न ( कुतश्चित् स्थापन) मर्हति । नहि "कर्म दत्तफलम् [४३५ क ] ईश्वरेणापि स्थापयितुं शक्यधि (शक्यमिति) *" कार्यविरोधि " १५ [वैशे ० १।१।१४] इत्यस्य विरोधात् । अथ ईश्वरस्य तत्स्थापनशक्तिः नास्ति; अन्यत्र कथम् ? अन्यथा 'उभयरूपता ईशस्य । यथा वा [s] शक्तो न स्थापकः तथा स्थितिशक्तिरहितो न कुतश्चित् तिष्ठति इति समानम् । एतेन स्थापने तद्वा (तद्व्यव ) स्थापि निरस्ता ।
७
ननु न स्थितिस्वभावताप्रयुक्ता स्थितिः, तस्यामपि विनोश्रुत्यय ( विनाशप्रत्यय) प्रणिधाने' घटादेर्विनाशदर्शनादिति चेत्; न; तस्य " विनश्वरस्वभावत्वात् । सर्वदा कुतो न नाशए २० (नाशमे ) ति चेत् ? क एवमाह - ने तीति ('न एति' इति ) ? केवलं तिरोधाना [द]नुपलक्षणं "सुवर्णे उष्णस्पर्शवत् । कारणभेदात् कदाचित्की श[क्ति ] स्तु विनाश (शेऽपि ) इति स्थितिस्वभाव एव तिष्ठति ।
तथा तद्व्यतिरेकेण विपती र्व्य (विपत्तिर्वा ) विनाशो वा न युज्येत । नहि तत्स्वभावरहितस्य सामान्यधर्मपक्षस्य (धर्मवत् कस्य ) चित् कुतश्चित् विनाशः । न विनाश इति चेत् ; कपालादौ ” घटादिदर्शनप्रसङ्गः । तिरोधानान्नेति चेत्; तदस्थास्य (तदवस्थस्य ) " तदयोगाव (त्) । २५ एतदेव दर्शयन्नाह - द्रव्य इत्यादि । स्वेद्रव्यादिन्योनेद्रव्यादुपः (स्वद्रव्यादिभ्योऽन्ये द्रव्यादयः) तदन्तराणि तेभ्यो व्यावृत्तिः लक्षणं यस्य तस्य भावात् तत्त्वात् 'वस्तुनः' इत्यध्याहारः ।
( १ ) ज्यात्मनो भावः व्यात्म्यम्, उत्पादादित्रयात्मकत्वमित्यर्थः । (२) कारणसद्भावात् । (३) नाशस्वभावरहितम् । (४) ज्यात्मकत्वव्यतिरेकेण । ( ५ ) रहितम् इत्यर्थः । (५) अदृष्टं धर्माधर्मादि । (६) 'कार्यविरोधि कर्म ' - कर्म स्वकार्येण फलेन विरुध्यते विनाश्यते इत्यर्थः । ( ७ ) तन्वाद्युत्पादने । (८) शक्ताशक्तरूपता । (९) सन्निधाने । (१०) घटादेः । ( ११ ) तेजोद्रव्यात्मके सुवर्णे उष्णस्पर्शानुद्भवो यथा । (१२) घटविनाशानन्तरसमुद्भूतखर्परादौ । (१३) तिरोधानायोगात् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org